Page loading... Please wait.
7|2|83 - ईदासः
॥ तस्मै पाणिनये नमः ॥
7|2|83
SK 3104
ईदासः   🔊
सूत्रच्छेदः
ईत् (प्रथमैकवचनम्) , आसः (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
आसः उत्तरस्य आनशब्दस्य ईकारादेशो भवति। आसीनो यजते। अत्र पञ्चम्याः परस्य षष्ठी कल्प्यते।
`आसः` इति पञ्चम्यकृतार्था `आने` 7|2|82 इति पूर्वत्र कृतार्थायाः सप्तम्याः षष्ठीत्वं प्रकल्पयिष्यति; `तस्मादित्युत्तरस्य` 1|1|66 इति वचनात्। तेनानस्यैवायमादेशो विधीयते, इत्याह--`आस उत्तरस्यानशब्दस्य` इति। `आसीनः` इति। `आस उपवेशने` (धातुपाठः-1021)। अनुदात्तेत्त्वादात्मनेपदम्; `आदेः परस्य` 1|1|53 इत्याकारस्येकारः। अदादित्वाच्छयो लुक्। तपरकरणं मुखसुखार्थम्॥
आसः इति पञ्चम्यचरितार्था पूर्वत्र कृतार्थायाः आने इति सप्तम्याः षष्ठआआ प्रकल्पयति ॥
सिद्धान्तकौमुदी
आसः परस्यानस्य ईत्स्यात् । आदेः परस्य (कौमुदी-44) । आसीनः ॥
ईदासः - ईदासः । आस इति पञ्चमी । आनस्येति ।आने मु॑गित्यतस्तदनुवृत्तेरिति भावः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.