`अङ्गस्यातः` इति। व्याधिकरणे षष्ठओ--आङ्गस्य योऽत्? तसय मुगगमो भवतीति। तदिहाद्ग्रहणं तर्हि क्रियताम्? न कत्र्तव्यम्; `अतो येयः`
7|2|80 इत्यतोऽत इत्यनुवर्त्तिष्यते। ननु च पञ्चमीनिर्दिष्टं तत्र, षष्ठीनिर्दिष्टेन चेहार्थः? नैतदस्ति; अत इत्येषा तु पञ्चमी तत्रेयादेशे चरितार्था, `आने` इत्येषा तु सप्तम्यकृतार्था। तस्मादान इत्येषा सप्तम्यत इत्यस्याः पञ्चमी तत्रेपादेशे चरतार्था, `आने इत्येषा तु सप्तम्यकृतार्था। तस्मादान इत्येषा सप्तम्यत इत्यस्याः पञ्चम्याः षष्ठीत्वं परिकल्पबयिष्यति, `तस्मिन्निति निर्द्दिष्टे पूर्वस्य`
1|1|65 इति नियमात्। ननु चाकारोवर्णो मकारोऽपि वर्ण एव, मुगयं त्वन्तलिङ्गः, अन्तश्चावयवः, न च वर्णो `वर्णस्यावयवो [`वर्णस्यावयवी--मुद्रित पाठः] युज्यते, तेनानारब्धत्वात्, तस्मादयुक्तमुक्तम्--अतो मुगागमो भवतति? नैष दोषः; सर्वत्रैव हि यस्यागमो विधीयते, यश्चागमो विधीयते तत्समुदायापेक्षयाऽऽदित्वमन्तत्वं वा विधीयते। तस्मादत्तो मुगागमो भवतीत्यस्यार्थोऽयं विवक्षितः--अकारादिरयं समुदायो सकारान्तश्च भवतीति। `पचमानः` इति। लट्, तस्य शानच्। आने परतोऽह्गस्यातो मुगागमो भवतीत्युक्ते समानाधिकरणे एते षष्ठआविति मन्यमानोऽकारान्तस्य आने परतो मुगगगमो भवतीतीदं सूत्रार्थ गृहीत्वा य एवं देशयेत्--यद्यकारान्तमङ्गमागमि, पचमान इत्यत्र `अदुपदेशाल्लसार्वधातुकमनुदात्तम्`
6|1|180 इत्यनुदात्तत्वं न स्यात्; अकारस्य मुका व्यवहितत्वात्। अकारो य उपदेश इत्येवं हि ततर व्यवस्थितम्, न त्वकारान्तोऽयमुपदेश इति। न च शक्यते वक्तुम्--अङ्गभक्तोऽयं नुक्, अतो नास्ति व्यवदानमिति; अङ्गभक्तो ह्रयमङ्गमेव न व्यवदध्यात्, अकारं तु व्यवदधात्येव। अवयवो हि समुदायस्य व्यवधायको न भवति। अवयवान्तरस्य तु व्यवधायको भवत्येवेत्यत आह--`अकारमात्रभक्तो ह्रयम्` इत्यादि। मात्रशब्दोऽयमङ्गभक्तत्वव्यवच्छेदाय। अङ्गञ्चात्राकारविशेषणम्। अकार एवागमी, नाङ्गम्। तस्मात्? तदभक्तत्वात्? तदग्रहणेनैव मुग्? गृहयत इति व्यवधानाभावाल्लसार्वधातुकमनुदत्तं भवति। ननु चाकारान्तभक्तेऽपि मुकि भवितव्यमेव `लसार्वधातुकमनुदात्तमहन्विङोः`
6|1|180 इत्यनुदात्तत्वेन, `स्वरविधौ व्यञ्जनमविद्यमानवत्` (व्या।प।37) इति मुकोऽविद्यमानवत्त्वाद्व्यवधानाभावात्? एवं मन्यते--नैषा परिभाषा भाष्यकारस्य सम्मता। तथा हि--तेनेमां परिबाषां प्रत्याख्यायेयमन्या परिभाषा गृहीता--`हलःस्वरप्राप्तौ [`हल्स्वरप्राप्तौ--नी।प।वृ] व्यञ्जनमविद्यमानवत्` (नी।पा।वृ।68), इति। न चात्र हलः स्वरप्रापतिरस्ति, किं तर्हि? अचः। `यद्येवम्` इत्यादि। यद्यकारभक्तोऽय मुकं तद्ग्रहहणेन गृह्र इत्येवं स्त्यव्यवधायकत्वादेव तस्य पचमान इत्यत्राकारादनन्तरस्यान इति, तस्य `आतो ङितः`
7|2|81 इतीयदेशः प्राप्नोतीत्यत आत--`तपरकरणनिर्देशान्न भवति` इति। अकारो ह्रत्र मात्राकालस्तपरो निरदिष्टो मुकि सतयर्धमात्रो भवति। अतः कालभेदान्न भविष्यति। अधिकमद्र्ध यस्याः साऽध्यद्र्धा, अध्यद्र्धा मात्रा यस्या सोऽद्यद्र्धमात्रः। लसार्वधातुकमनुदात्तमपि तर्हि न प्राप्नोतीति तद्विधावपि तपरनिर्देशात्। `उपदेशग्रहणम्` इत्यादि। उपदेशग्रहण तत्र क्रियते प्रागवस्थोपलश्रणार्थम्। तेन उपदेशावस्थायां मात्राकालस्तस्य यद्यप्युत्तरकालं मुकि कृते कालभेदोऽस्ति, तथापयुपदेशावस्थायां मात्राकालत्वाद्भवत्येवात्रानुदात्तत्वम्। `तथा च` इत्यादि। यतस्तत्रोपदेशादूध्र्वं सत्यपि कालभेदेऽनुदात्तत्वेन भवितव्यम्, एवञ्च कृत्वा यत्रापि `अतो दीर्घो यञि`
7|3|101 इति द#ईर्घत्वे कृते कालभेदोऽस्ति--पचाव इत्यादौ, तत्रापि भवति॥