Page loading... Please wait.
1|4|10 - ह्रस्वं लघु
॥ तस्मै पाणिनये नमः ॥
1|4|10
SK 31
ह्रस्वं लघु   🔊
सूत्रच्छेदः
ह्रस्वम् (प्रथमैकवचनम्) , लघु (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
आकडारात् एका संज्ञा  1|4|1
सम्पूर्णसूत्रम्
ह्रस्वं लघु
सूत्रार्थः
ह्रस्वस्वरः लघुसंज्ञकः भवति ।
अनेन सूत्रेण "लघु" इयं संज्ञा पाठ्यते । यः स्वरः ह्रस्वः अस्ति, सः लघुसंज्ञकः भवति । यथा - "हरि" अस्मिन् शब्दे हकारोत्तरः अकारः तथा रेफोत्तरः इकारः - द्वावपि लघुसंज्ञां प्राप्नुतः ।

लघु-संज्ञायाः प्रयोगः - पुगन्तलघूपधस्य च 7|3|86, ल्यपि लघुपूर्वात्‌ 6|4|56, व्योर्लघुप्रयत्नतरः शाकटायनस्य 8|3|18 एतादृशेषु सूत्रेषु क्रियते ।

ज्ञातव्यम् -
1. ऊकालोऽज्झ्रस्वदीर्घप्लुतः 1|2|27 अनेन सूत्रेण ह्रस्वसंज्ञा पाठ्यते ।
2. यदि ह्रस्वस्वरात् अनन्तरम् संयोगः अस्ति, तर्हि सः ह्रस्वस्वरः संयोगे गुरु 1|4|11 इत्यनेन गुरुसंज्ञां प्राप्नोति । अस्य शब्दस्य वर्तमानसूत्रेण लघुसंज्ञायां अपि सत्याम् एकसंज्ञाधिकारस्य कारणात् अस्य शब्दस्य लघुसंज्ञा निषिध्यते । यथा - "मित्र" अस्मिन् शब्दे मकारात् परः यः इकारः तस्य लघुसंज्ञा न भवति ।
One-line meaning in English
A ह्रस्व स्वर gets the term लघु.
काशिकावृत्तिः
मात्रिकस्य ह्रस्वसंज्ञा कृता तस्य अनेन लघुसंज्ञा विधीयते। ह्रस्वम् अक्षरं लघुसंज्ञं भवति। भेता। छेत्त। अचीकरत्। अजीहरत्। लघुप्रदेशाः पुगन्तलघूपधस्य च इत्येवम् आदयः।
`भेत्ता` इति। `पुगन्तलघूपधस्य च` 7|3|86 इति गुणः। `अचीकरत्` इत। कृञो णिच्, लुङ, अडागमः, च्लेश्चङ, णिलोपः,`णौ चङ्युपधायाः` 7|4|1 इति ह्यस्वः। `ओः पुयण्च्यपरे` 7|4|80 इति वचनं ज्ञापकम्-- णौ कृतं स्थानिवद्भवतीति। `चङि` 6|1|11 इति कृशब्दो द्विरुच्यते। `उरत्` 7|4|66 इत्यत्त्वम्, रपरत्वम्, `सन्वल्लघुनि` 7|4|93 इति लघुसंज्ञायां सत्यां सन्वद्भावादित्त्वम्, `दीर्घो लघोः` 7|4|94 इति दीर्घत्वम्॥
इह सर्पिष्ट्वामित्यत्र ठ्ह्रस्वातादौ तद्धितेऽ इति षत्वार्थं ह्रस्वसंज्ञया गरुसंज्ञाया समावेश इष्यते। अततक्षदित्यत्र तु सन्वद्भावनिवृत्यर्थं लघुसंज्ञाया गुरुसंज्ञया बाध इष्यते। अतो ह्रस्वप्रदेशेषु संयोगपरस्यापि मात्रिकस्यग्रहणं यथा स्यात्, लघुप्रदेशेषु मा भूदिति यथाप्रदेशे संज्ञाद्वयं कर्तव्यम्॥
सिद्धान्तकौमुदी
Text Unavailable. Please use feedback link below to provide the text if you have.
ह्रस्वं लघु - ह्यस्वं लघु । ह्यस्वं लघुसंज्ञं स्यादित्यर्थस्य स्पष्टत्वान्न व्याख्यातम् । अत एव निर्देसाद्ध्रस्वशब्दो नपुंसकलिङ्गोऽपि ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.