Page loading... Please wait.
7|2|68 - विभाषा गमहनविदविशाम्
॥ तस्मै पाणिनये नमः ॥
7|2|68
SK 3099
विभाषा गमहनविदविशाम्   🔊
सूत्रच्छेदः
विभाषा (प्रथमैकवचनम्) , गमहनविदविशाम् (षष्ठीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
गम हन विद विश इत्येतेषां धातूनां वसौ विभाषा इडागमो भवति। गम जग्मिवान्, जगन्वान्। मो नो धातोः 8|2|64 इति नकारः। हन जघ्निवान्, जघन्वान्। विद विविदिवान्, विविद्वान्। विश विविशिवान्, विविश्वान्। विशिना साहचर्यादिह विदेस्तौदादिकस्य लाभार्थस्य ग्रहणम्। ज्ञानार्थस्य तु नित्यं विविद्वानित्येव भवति। दृशेश्चेति वक्तव्यम्। ददृशिवान्, ददृश्वान्।
पूर्वस्मान्नियमाद्गमादीनामिङ्? न भवतीति विभाषेयमारभ्यते। `जग्मिवान्` इति। परत्वादिट्? ततः `गमहन` 6|4|98 इत्यादिनोपधालोपः, ततो द्विर्वचनम्। `जघन्वानिति, जध्निवान` इति। `अभ्यासाच्च` 7|3|55 इति कुत्वम्--हकारस्य घकारः। `लाभार्थस्य` इति। `विद्लृ लाभे` (धातुपाठः-1432) इत्यस्य। `न ज्ञानार्थस्य` इति। `विद ज्ञाने` (धातुपाठः-1064) इत्यस्य। `विद सत्तायाम्` (धातुपाठः-1171), `विद विचारणे` (धातुपाठः-1450)--इत्येतयोश्चात्मनेपदित्वादात्मनेपदेषु क्वसुर्न भवतीत्यनुपन्यासः। `दृशेश्च` इत्यादि। `वृशिर्? प्रेक्षणे` (धातुपाठः-988) इत्यस्माच्च परे क्वसोरिडागमो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--`विभाषा` इति योगविभागः क्रियते, तेन दृशेरपि भविष्यतीति। न चैवं सति `गमहनविदविशाम्` इत्यस्यानर्थक्यम्; पूर्वयोगस्यासर्ववषयत्वसूचनात्। एवं ह्रतिप्रसङ्गः परिह्मतो भवति॥
जध्निवान्, जघन्वानिति । हो हन्तोर्ञ्णिन्नेषु । अभ्यासाच्च इति कुत्वम् । विशिना तौदादिकेनेति । यद्यप्यादादिकेन हन्तिना साहचर्यमस्ति, तथापि शब्दपरविप्रतिषेधाद्विशिसाहचर्यमेव व्यवस्थापकमिति भावः । ज्ञानार्थस्य त्विति । सताविचारणार्थयोस्त्वात्मनेपदित्वात् क्वसावसम्भव एवेति भावः । विविद्वानिति । वूर्वविदिट्प्रतिषेधः ॥
सिद्धान्तकौमुदी
एभ्यो वसोरिड्वा । जग्मिवान् । जगन्वान् । जघ्निवान् । जगन्वान् । विविदिवान् । विविद्वान् । विविशिवान् । विविश्वान् । विशिना साहचर्याद्विन्दतेर्ग्रहणम् । वेत्तेस्तु विविद्वान् । नेड्वशि कृति (कौमुदी-2981) इतीण्निषेधः ॥दृशेश्च (वार्तिकम्) ॥ ददृशिवान् । ददृश्वान् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
विभाषा गमहनविदविशाम् - जग्मिवानित्यादि । इट्पक्षेगमहने॑त्युपधालोपः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
विभाषा गमहनविदविशाम् ।। दृशेश्च(2) ।। दृशेश्चेति वक्तव्यम् । ददृश्वान् । ददृशिवान् ।। तत्तर्हि वक्तव्यम् ।। न वक्तव्यम् । दृशेरिति वर्तते ।। ( विभाषा गमहन )