Page loading... Please wait.
8|4|12 - एकाजुत्तरपदे णः
॥ तस्मै पाणिनये नमः ॥
8|4|12
SK 307
एकाजुत्तरपदे णः   🔊
सूत्रच्छेदः
एकाच्-उत्तरपदे (सप्तम्येकवचनम्) , णः (प्रथमैकवचनम्)
अनुवृत्तिः
नः  8|4|1 (षष्ठ्येकवचनम्) , रषाभ्यां  8|4|1 (पञ्चमीद्विवचनम्) , पूर्वपदात्  8|4|3 (पञ्चम्येकवचनम्) , प्रातिपदिकान्त-नुम्-विभक्तिषु  8|4|11 (सप्तमीबहुवचनम्)
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
पूर्वपदात् रषाभ्यां प्रातिपदिकान्त-नुम्-विभक्तिषु एकाच्-उत्तरपदे नः णः , अट्कुप्वाङ्नुम्व्यवाये अपि
सूत्रार्थः
पूर्वपदस्थेन णत्वनिमित्तकवर्णेन प्रातिपदिकान्तस्य/नुमागमस्य/विभक्तेः एकाच्-उत्तरपदस्य नकारस्य णत्वं भवति, स च अट्-कु-पु-आङ्-नुम्-एतेषां व्यवधानेऽपि भवति ।
अनेन सूत्रेण समस्तपदस्य पूर्वपदे स्थितेन रेफषकारेण उत्तरपदस्य नकारस्य णत्वं कदा भवति तस्य विषये सिद्धान्तः प्रोक्तः अस्ति । यदि समस्तपदस्य पूर्वपदे षकारः रेफः वा अस्ति, तथा समस्तपदस्य उत्तरपदे एकः एव अच्-वर्णः अस्ति, तर्हि -
(1) समस्तपदस्य उत्तरपदे स्थितस्य प्रातिपदिकस्य अन्तिमनकारस्य णत्वं भवितुम् अर्हति ।
(2) समस्तपदस्य उत्तरपदस्य यः नुमागमः भवति, तस्य अपि णत्वं भवितुम् अर्हति ।
(3) समस्तपदस्य विभक्तिरूपे नकारः आगच्छति चेत् तस्य अपि णत्वं भवितुम् अर्हति ।

क्रमेण उदाहरणानि पश्यामः ।

(1) "वृत्रहन्" इति नकारान्तप्रातिपदिकम् । अयम् सामासिकशब्दः अस्ति - वृत्रम् हतवान् सः वृत्रहन् । अत्र पूर्वपदम् "वृत्र" इति, उत्तरपदम् च "हन्" इति । पूर्वपदे णत्वनिमित्तकः रेफः अस्ति, उत्तरपदे एकः एव अच्-वर्णः अस्ति । अतः वर्तमानसूत्रेण अस्य प्रातिपदिकस्य अन्तिमनकारस्य णत्वं भवितुम् अर्हति । यथा - वृत्रहन् + औ → वृत्रहणौ ।

(2) क्षीरं पिबति तत् क्षीरप । अयम् अकारान्त-नपुँसकशब्दः । अस्य प्रथमाबहुवचनस्य प्रक्रिया इयम् -
क्षीरप + जस् [प्रथमाबहुवचनस्य प्रत्ययः]
→ क्षीरप + शि [जश्शसोः शिः 7|1|20 इति जस्-इत्यस्य शि-आदेशः]
→ क्षीरप + नुम् + इ [नपुँसकस्य झलचः 7|1|72 इति नुमागमः]
→ क्षीरपा + नि [सर्वनामस्थाने चासम्बुद्धौ 6|4|8 इति नकारान्तस्य अङ्गस्य उपधादीर्घः]
→ क्षीरपाणि [एकाजुत्तरपदे णः 8|4|12 इति णत्वम्]
अत्र अन्तिमसोपाने "क्षीरप" इति समस्तपदम् अस्ति, तस्य पूर्वपदे रेफः अस्ति, उत्तरपदम् एकाच् अस्ति, तथा उत्तरपदे नुमागमः क्रियते । अतः एकाजुत्तरपदे णः 8|4|12 इत्यनेन नुमागमस्य यः नकारः तस्य णत्वं विधीयते ।

(3) "क्षीरप" इत्यस्यैव तृतीया-एकवचनम् "क्षीरपेण" इति भवति । अत्र नकारः विभक्तिरूपे आगच्छति । अतः अत्रापि अनेन सूत्रेण णत्वं भवति ।

ज्ञातव्यम् - यद्यपि रषाभ्यां नो णः समानपदे 8|4|1 इत्यस्मात् णकारस्य अनुवृत्तिः अस्ति, तथापि अस्मिन् सूत्रे पुनः णकारः प्रयुक्तः अस्ति । एतत् केवलं स्पष्टतायै कृतम् अस्ति ।
One-line meaning in English
For a समस्तपद, a रेफ or a षकार present in the पूर्वपद causes the णत्व of the नकार present in the एकाच् उत्तरपद whenever the नकार is (1) at end of a प्रातिपदिक, or (2) created due to a नुमागम, or (3) part of a विभक्ति.
काशिकावृत्तिः
एकाजुत्तरपदं यस्य स एकाजुत्तरपदः, तस्मिन्नेकाजुत्तरपदसमासे प्रातिपदिकान्तनुंविभक्तिसु पूर्वपदस्थान्निमित्तादुत्तरस्य नकारस्य णकारः आदेशो भवति। वृत्रहणौ। वृत्रहणः। नुमि क्षीरपाणि। सुरापाणि। विभक्तौ क्षीरपेण। सुरापेण। णः इति वर्तमाने पुनर्णग्रहणं विकल्पाधिकारनिवृत्तेः विस्पष्टीकरणार्थम्।
`वृत्रहणौ` इति। `ब्राहृभ्रूण` 3|2|87 इति क्विप्। `क्षीरपाणि` इति। पिबतेः पातेर्वा`आतोऽनुपसर्गे कः` 3|2|3 , `आतो लोप इटि च` 6|4|64 इत्याकारलोपः। `सुरापाणि` इति। पिबतेः `गापोष्टक` 3|2|8 । पातेर्वा पूर्ववत्? कः। अथ णग्रहणं किमर्थम्, यावता `णः` 8|4|1 इत्यनुवत्र्तत एव? नित्यार्थमिति चेत्? स्यादेतत्--वेति प्रकृतम्, तत्रासति पुनर्णग्रहणे विकल्पः प्रसज्येत, तस्मान्नित्यं यथा स्यादित्येवमर्थं पुनर्णगहणं कृतमिति? एतच्चायुक्तम्, पूर्वेणैव विकल्पः सिद्धः। तत्रारम्भसामथ्र्यादेवायं विधिर्नित्यो भविष्यति? इत्यत आह--`ण इत्यनुवत्र्तमाने` इत्यादि। विकल्पाधिकारस्यास्वरितत्वाद्या निवृत्तिस्तस्या विस्पष्टार्थं पूनर्णग्रहणम्। असति हि णग्रहणे कश्चिन्मन्दबुद्धिरेवं मन्येत--अनृवत्र्तत एव वाग्रहणम्, तस्मस्त्वनुवत्र्तमानेऽप्यारम्भसामथ्र्यादयं दिधिर्नित्यो भविष्यति, उत्तरस्तु पाक्षिक एवेति॥
विकल्पाधिकारनिवृतेविस्पष्टीकरणार्थमिति । अन्यथा यद्यप्यत्रारम्भसामर्थ्यान्नित्यो विधिः शक्यो विज्ञातुम्, उतरत्र त्वनुवृत्तिः सम्भाव्येत ॥
सिद्धान्तकौमुदी
एकाजुत्तरपदं यस्य तस्मिन् समासे पूर्वपदस्थान्निमित्तात्परस्य प्रतिपदिकान्तनुम्विभरक्तिस्थस्य नस्य नित्यं णत्वं स्यात् । आरम्भसामर्थ्यान्नित्यत्वे सिद्धे पुनर्णग्रहणं स्पष्टार्थम् । यणं बाधित्वा परत्वान्नुट् । पुनर्भूणाम् । वर्षाभूः । भेकजातौ नित्यस्त्रीत्वाऽभावात् हे वर्षाभूः कैयटमते । मतान्तरे तु हे वर्षाभु । पुनर्नवायां तु हे वर्षाभु । भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे पुमानिति यादवः । वर्षाभ्वौ । वर्षाभ्वः । स्वयम्भूः पुंवत् ॥
एकाजुत्तरपदे णः - एकाजुत्तरपदे णः । समासस्य चरमावयवे रूढेन उत्तरपदशब्देन समास इति लभ्यते । एकोऽच्यस्मिन्तत्-एकाच्, तदुत्तरपदं यस्य स एकाजुत्तरपदः । तस्मिन्समासे इति बहुव्रीहिगर्भो बहुव्रीहिः । "रषाभ्यां नो णः" इत्यनुवर्तते ।पूर्वपदात्संज्ञाया॑मित्यतः पूर्वपदादित्यनुवर्तते । पूर्वं पदं यस्य तत्पूर्वपदम् । एकत्वमविवक्षितम् । पूर्वपदस्थाभ्यामिति लभ्यते ।प्रातिपदिकान्तनुम्विभक्तिषु चे॑त्यनुवर्तते ।विद्यमानस्ये॑ति शेषः । तदाह — एकाजुत्तरपदमित्यादिना । नन्विह णकारग्रहणं व्यर्थं, "रषाभ्यां नो णः" इत्यत एव तदनुवृत्तिसिद्धेः । नचप्रातिपदिकान्तनुम्विभक्तिषु चे॑ति विकल्पनिवृत्त्यर्थं पुनर्णग्रहणमिति वाच्यम्, आरम्भ सामथ्र्यादेव नित्यत्वसिद्धेरित्यत आह — आरम्भेति । यणमिति ।दृन्करे॑ति यणमित्यर्थः । पुनर्भूणामिति । रेफस्यहशि चे॑त्युत्त्वं तु न, रोरेव तद्विधानात् । ङेराम्, पुनर्भ्वाम् । वर्षाभूशब्दे विशेषमाह — भेकेति ।बह्वादिभ्यश्चे॑ति ङीषो वैकल्पिकत्वान्ङीषभावे वर्षाभूशब्दः । स च भेकजातौ द्विलिङ्गः ।भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे पुमान् इति यादवः । दर्दुरो भेकः । एवं चलिङ्गान्तरानभिधायकत्वमि॑ति कैयटमते नित्यस्त्रीलिङ्गत्वाऽभावान्नदीत्वाऽभावे सतिअम्बार्थे॑ति ह्यस्वाऽभावे सति हे वर्षाभूरिति रूपमित्यर्थः । मतान्तरे त्विति ।पदान्तरं विनापि स्त्रियां वर्तमानत्व॑मिति वृत्तिकारादीनां मते तु वर्षाभूशब्दस्य भेकजातौ स्त्रीलिङ्गमात्रावगमात्कैयटमतेऽपि नित्यस्त्रीत्वं कुतो न स्यादित्यत आह — भेक्यामिति । यादवकोशानुसारादमरकोशे स्त्रीग्रहणमुपलक्षणमिति भावः । यद्वा अमरमतरीत्या कैयटमतेऽपि नित्यस्त्रीत्वमस्तु । अजादौ "एरनेकाचः" इति यणो "न भूसुधियोः" इति निषेधे प्राप्तेवर्षाभ्वश्चे॑ति यणः प्रतिप्रसव उक्तः । तं स्मारयति-वर्षाभ्वश्चेति । स्वयम्भूः पुंविदिति । स्वयम्भूशब्दस्य चतुरानने रूढत्वात्तस्य यौगिकस्य पदान्तरं विना स्त्रियामवृत्तेर्न वृत्तिमते नित्यस्त्रीत्वम् । कैयटमते तु अनेकलिङ्गत्वान्न नित्यस्त्रीत्वमितिभावः । इत्यूदन्ताः । अथ ऋदन्ताः । "सावसेरृन्" इति सौ उपपदे असधातोः ऋन्प्रत्यये स्वसृशब्दः, भगिनीवाची ।
एकाजुत्तरपदे णः - एकाच् । एकोञ्च् यस्मस्तदेकाच् । तदत्तरपदं यस्य सएकाजुत्तरपद॑ इति बहुव्रीहिगर्भो बहुव्रीहिः । उत्तरपदशब्दः समासावयवे रूढः । तेनाक्षिप्तः समासोऽनेनविशेष्यत इत्याह — तस्मिन्मास इति ।रषाभ्यां नो णः॑इत्यतोण॑इत्युनुबत्र्तमानेऽपि णग्रहणमिह नित्यार्थमावश्यकमित्याशङ्क्याह — आरम्भसमाथ्र्यादिति ।प्रतिपदिकान्तनुम्बिभक्तिषु चे॑ति विकल्पने (णत्व)सिद्धावेतदारम्भसामथ्र्यादित्यर्थः । स्वयंभूः पुंवदिति । मतद्वयेऽपि नदीसंज्ञाया आभावान्ङिति ह्यस्वश्चेत्यादि न प्रवर्तत इति भावः ।
लघुसिद्धान्तकौमुदी
एकाजुत्तपरदं यस्य तस्मिन्समासे पूर्वपदस्थान्निमित्तात्परस्य प्रतिपदिकान्तनुम्विभक्तिस्थस्य नस्य णः। वृत्रहणौ॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.