Page loading... Please wait.
7|1|96 - स्त्रियां च
॥ तस्मै पाणिनये नमः ॥
7|1|96
SK 305
स्त्रियां च   🔊
सूत्रच्छेदः
स्त्रियाम् (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
क्रोष्टुः  7|1|95 (प्रथमैकवचनम्) , तृज्वत्  7|1|95 (अव्ययम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
स्त्रियां क्रोष्टु तृज्वत्
सूत्रार्थः
स्त्रीलिङ्गे क्रोष्टु-शब्दः तृज्-वत् भवति ।
"क्रोष्टु" इति उकारान्तपुँल्लिगः शब्दः । परन्तु स्त्रीलिङ्गस्य विषये अयं शब्दः "तृच्-वत्" भवति । इत्युक्ते, "क्रोष्टृ" शब्दवत् अस्य कार्यं भवति -

क्रोष्टु
→ क्रोष्टृ [स्त्रीलिङ्गस्य विवक्षायाम् स्त्रियां च 7|1|96 इति तृज्वद्भावः]
→ क्रोष्टृ + ङीप् [स्त्रीत्वं द्योतयितुम् ऋन्नेभ्यो ङीप् 4|1|5 इत्यनेन "ङीप्" प्रत्ययः]
→ क्रोष्ट्री [इको यणचि 6|1|77 इति यणादेशः]

अस्य रूपाणि "कर्त्री" शब्दवत् भवन्ति । यथा - क्रोष्ट्री, क्रोष्ट्र्यौ क्रोष्ट्र्यः ।
One-line meaning in English
In feminine context, the word क्रोष्टु behaves similar to the तृच्-प्रत्ययान्त words.
काशिकावृत्तिः
असर्वनामस्थानार्थम् आरम्भः। स्त्रियां च क्रोष्तुशब्दस्य तृज्वद् भवति। क्रोष्ट्री। क्रोष्ट्रीभ्याम्। क्रोष्ट्रीभिः। क्रोष्टुशब्दं केचिद् गौरादिषु पठन्ति, ते ङीषि प्रत्यये तृज्वद्भावं कुर्वन्ति। तेषां पञ्चभिः क्रोष्ट्रीभिः क्रीतैः पञ्चक्रोष्टृभी रथैः इति स्त्रीशब्दस्य लुकि कृते न सिध्यति, तत्र प्रतिविधेयम्। ये तु गौरादिषु न पठन्ति, तेषां स्त्रियाम् इत्यर्थनिर्देशः, स्त्रियां वर्तमानः क्रोष्टुशब्दः तृज्वद् भवति। कृते ऽतिदेशे ऋन्नेभ्यो ङीप् 4|1|5 इति ङीप्प्रत्ययः। तत्र उदात्तयणो हल्पूर्वात् 6|1|174 इत्यन्तोदात्त एव क्रोष्ट्रीशब्दो भवति।
`क्रीष्ट्रीभिः` इति। तृज्वद्भावे कृते यणादेशः। केन पुनः क्रोष्टुशब्दादीकारः, तृज्वद्भावे कृते `ऋन्नेभ्यो ङीप्` 4|1|5 इत्यनेनेति चेत्? न; अनुदात्तत्वप्रसङ्गादित्यत आह--`क्रोष्टुशब्दं केचित्` इत्यादि। `पञ्चभिः क्रोष्ट्रीभिः क्रीतैः` इति। `तद्धितार्थोत्तरपदसमाहारे च` 2|1|50 इति समासः। `आर्हादगोपुच्छ` 5|1|19 इत्यादिना ठक्, तस्य `अध्यद्र्धपूर्व` 5|1|28 इत्यादिना लक्, `लुक्तद्धितलुकि` 1|2|49 इति स्त्रीप्रत्ययस्य लुक्, तस्मल्लुप्ते ये ङीष्प्रत्यये कृते तृज्वद्भावं कुर्वन्ति तेषां तृजवद्भावो न भवति, तस्मात्? `प्रतिविषेयम्` इति। प्रतिविधानं कत्र्तव्यमित्यर्थः। तत्रेदं प्रतिविधानम्--चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः, तेन लुप्तेऽपि स्त्रीप्रत्यये भविष्यति। ये तर्हि गौरादिषु न पठन्ति तेषामीकारः कथम्? इत्याह--`गौरादिषु` इत्यादि। तेषां पञ्चक्रोष्टुभिरित्यत्र न किञ्चित्? प्रतिविधेयम्; परस्य स्त्रीप्रत्ययस्य निमित्तत्वेनानाश्रितत्वात्। ननु च तेषामपि स्त्रीप्रत्ययस्य लुप्तत्वादसस्यामङ्गसंज्ञायामङ्गस्योच्यमानस्तृण्वद्भावो न प्राप्नोतीति प्रतिविधेयमेव? नैतदस्ति; लुप्ते हि स्त्रीप्रत्यये प्रत्ययलक्षणेनाङ्गसंज्ञा भवत्येव। `न लुमताङ्गस्य` 1|1|62 इति यः प्रतिषेधः सोऽङ्गाधिकार विहितस्यैव कार्यस्य। न चाङ्गसंज्ञाऽङ्गाधिकारे विहिता। `कृतेऽतिदेशे` इत्यादि। `इकोऽचि विभक्तौ 7|1|73 इत्यनुवृत्तेर्विभक्तावुत्पन्नायां तदाश्रयायाञ्चाङ्गसंज्ञायां स्त्रियां वत्र्तमानस्य क्रोष्टुशब्दस्यातिदेशः क्रियते। तस्मिन्? कृते ऋकारान्तत्वात्? `ऋन्नेभ्यो ङीप्` 4|1|5 इति ङीब्भवति। ननु च ङीप्प्रत्यये कृतेऽन्तोदात्तः क्रोष्ट्रीशब्दो न सिध्यति? इत्याह--`तत्र` इत्यादि। क्रोष्ट्रीशब्दोऽन्तोदात्तोऽतिदिश्यत इति तृसम्बन्धिन ऋकारस्य स्थाने यणादेशो भवन्नुदात्तयण्? भवति, ततश्च `शतुरनुमो नद्यजादी` 6|1|167 इत्यनुवत्र्तमाने `उदात्तयणो हल्पूर्वात्` 6|1|168 इत्यन्तोदात्तो भवति क्रोष्ट्रीशब्दः॥
क्रोषटुअशब्दस्तृज्वद्भवतीत्येतत्वर्थकथनम् । षष्ठ।ल्न्तं तु युक्तं पठितुम् । अन्ये त्वेतद्ग्रहन्थपर्यालोपचनया पूर्वसूत्रेऽपि क्रोष्टः इति प्रथमान्तं मन्यन्ते । अनुक्रियमाणरुपविनाशप्रसङ्गातु तृज्वद्भावो न कृतः । वतिरपि तृतीयासमर्थादेव । तृजन्तेन तुल्यं वर्तत इति तद्रूपभाक्त्वेन तुल्यत्वमिति रुपातिदेशत्वम् । एवं च पूर्वसूक्षेऽप्याद्यग्रहन्थे तस्येति न पठितव्यम् । तृजन्तस्य यद्रूपं तदस्य भवतीति । एतच्चार्थकथनम् । अत्र विभक्तौ इत्यनुवर्तते चेत् क्रोष्ट्री भक्तिरस्येति बहुव्रीहौ भक्तिशब्दस्य प्रियादिशु पाठात्पुंवद्भावाभावे क्रोषट्री भक्तिरिति न सिद्ध्यति समासार्थाया विभक्तेर्लुमता लुप्तत्वात् । अथ वाक्यावस्थायामेव तृज्वद्भावो भविष्यति अन्तरङ्गनपि विधीन्बहिहङ्गो लुग्बाधते । तस्मान्नात्र विभक्तिर्निमितत्वेन शक्या आश्रयितुम्, किं तर्हि निमितम् इत्याह - केचिदित्यादि । कथं पुनर्गौरादिषु पाठे ङीष्प्रत्ययो निमितं भवति स्त्रियाम् इति नैवं विज्ञायते स्त्रियामर्थ इति । कथं तर्हि स्त्रिया - ई - स्त्री, स्त्रियामिति, स्त्रीत्वस्य द्योतको य ईकारस्तत्रेत्यर्थः । अर्थगतं च स्त्रीत्वमीकअरे आरोप्य स्त्रियामिति नदीसंज्ञानिमितावामाटौ क्रियेते । एवं वदतामनिष्टमाह - तेषामिति । पञ्चक्रोष्ट्ःअभिरिति । तद्धितार्थे समासः, आर्हीयस्य ठकः अध्यर्द्धपूर्व इति लुक्, लुक्तद्धितलुकि इति स्त्रीप्रत्ययस्यापि लुक् । तत्र न लुमताङ्गस्य इति एप्रतिषेधादीकारनिमितस्तृज्वद्भावो न सिद्ध्यति । अन्तरङ्गातणं च विधीनां लुका बाधनोत् न पूर्वमेव तृज्वद्भावो लभ्यते । तत्र सर्वनामस्थाने पूर्वेणैव सिद्धस्तृज्वद्भाव इति तृतीयादावसिद्धिरुक्ता, सर्वनामस्थानेऽपि सम्बुद्धौ पूर्वेणासिद्धिरेव - हे पञ्चक्रोष्टरिति । तथा शसि पञ्चक्रोष्ट्ःअन्, तथा तृतीयादिष्वजादिप्वप्युतरसूत्रेण विकल्पः प्राप्नोति - पञचक्रोष्ट्रा, पञ्चक्रोष्ट्रे । नन्वारब्धेऽप्यस्मिन्, परत्वाद्विकल्प एव प्राप्नोति थान्तरङ्गत्वादयमेव नित्यो विधर्भवति । तत्र प्रतिविधेयमिति । वचनमेवात्र शरणम् । ये तर्हि गौरादिषु न पठन्ति तेषां किं निमितम् न किञ्चिदित्याह - य त्वित्यादि । स्त्रियां च वर्तमान इति । सूत्राक्षरामनुरोधेन चशब्दः पठितः । ननु च यद्यपि न शब्देन किञ्चिन्नमितमाश्रीयते, अङ्गस्य इति त्वाश्रीयते, अङ्गे चाश्रिते प्रत्ययोऽप्याश्रित एव, यथोक्तम्, अङ्गस्य इत्यत्र वव्रश्चेत्यस्य सिद्धये सत्यम् कार्यकालं संज्ञापरिभाषम् तदुक्तम् । तत्र हि पक्षे उरत् इत्यत्राङ्गसंज्ञासूत्रमुपतिष्ठते, ततश्च प्रत्ययः त्यिस्याङ्गसंज्ञायामुरदत्वं च प्रति निमितभावः , सन्निधेरविशिष्टत्वात् । इह तु यथोद्देशपक्ष आश्रीयते, तदतश्च वस्तुतोऽङ्गस्य स्त्रियां वर्तमानस्य क्रोष्टुअशब्दस्य तृज्वद्भावो विधीयते, न तु परनिमितमाश्रीयते । अङ्गसंज्ञा च प्रत्ययलक्षणेन भविष्यति । अङ्गस्य इति वचनाल्लब्धाङ्गसंज्ञस्य यत्कार्यं प्रत्ययलक्षणं तदेव प्रतिषिद्ध्यति, न चाङ्गसंज्ञा अङ्गस्य कार्यम् । अन्तोदात एव क्रोष्ट्रीशब्दो भवतीति । गौरादिषु पाठे ङीष्प्रत्ययस्वरेणान्तोदातः । अत्रापि पक्षे उदातयणो हल्पूर्वात् तथैत्यन्तोदात थएवेति एवशब्दार्थः । केचितु - ङीपोऽपि उदातयणः इत्येवोदातत्वम् अन्यथा ङीषि परतस्तृज्वद्भावे चित्स्वरस्य सतिशिष्टत्वेन ङीषोऽनुदातत्वप्रसङ्ग इत्याहुः ॥
सिद्धान्तकौमुदी
स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते ॥
स्त्रियां च - अथ क्रोष्टुशब्दस्य स्त्रियां विशेषमाह — स्त्रियां च । "तृज्वत्क्रोष्टुः" इत्यनुवर्तते । रूपातिदेशोऽयमित्युक्तम् । तदाह — स्त्रीवाचीत्यादिना । तथाच स्त्रियामुदन्तः क्रोष्टुशब्दो नास्त्येव । किन्तु क्रोष्टृ इति ऋदन्त एवेति फलितम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते॥
महाभाष्यम्
स्त्रियां च तृज्वत्क्रोष्टुः ।। अथात्र विभक्तावित्यनुवर्तते उताहो न ? ।। किं चातः ? ।। ।। तृज्वत्स्त्रियां(3) विभक्तौ चेत्क्रोष्टीभक्तिर्न सिध्यति ।। तृज्वत्स्त्रियां विभक्तौ चेत्क्रोष्ट्रीभक्तिरिति न सिध्यति ।। एवं तर्हि इर्कार एव तृज्वद्भावं वक्ष्यामि ।। तदीकार ग्रहणं कर्तव्यम् ? ।। न कर्तव्यम् । क्रियते न्यासे एव । प्रश्र्लिष्टनिर्देशोऽयं ‐ स्त्री इर् ‐ स्त्री, स्त्रियामिति । ।। इर्कारे तन्निमित्तः सः ।। इर्कारे चेत् । तन्न ।। किं कारणम् ? ।। तन्निमित्तः सः । तृज्वद्भावनिमित्तः स इर्कारः, नाऽकृते तृज्वद्भावे इर्कारः प्राप्नोति ।। किं कारणम् ? ।। ऋन्नेभ्यो ङीबित्युच्यते । इर्कारे च तृज्वद्भावस्तदिदमितरेतराश्रयं(1) भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते ।। एवं तर्हि गौरादिषु पाठादीकारो भविष्यति । ।। गौरादिषु न पठ्यते ।। नहि किं चित्तुन्नन्तं गौरादिषु पठ्यते ! ।। एवं तर्हि एतज्ज्ञापयत्याचार्यो ‐ -भवत्यत्र इर्कार इति यदयमीकारे तृज्वद्भावं शास्ति ।। ।। तेनैव भावनं चेत्स्यादनिष्टोपि प्रसज्यते ।। यद्यपि नास्ति विशेषो ङीपो वा(1) ङीषो वा, ङीनपि तु प्राप्नोति । इह च न प्राप्नोति ‐ पञ्ञ्चभिः क्रोष्ट्रीभिः क्रीतै रथैः ‐ पञ्ञ्चक्रोष्टृभी रथैरिति ।। एवं तर्हि ‐ - ।। नचाऽपरं(2) निमित्तं संज्ञा च प्रत्ययलक्षणेन(3) ।। न चापरं निमित्तमाश्रीयते, अस्मिन्परतः क्रोष्टुस्तृज्वद्भवतीति ।। (किं तर्हि ?) ।। अङ्गस्य क्रोष्टुस्तृज्वद्भवत्यङ्गसंज्ञा च भवति प्रत्ययलक्षणेन ।। किं पुनरयं शास्त्रातिदेशः ‐ तृचो यच्छास्त्रं तदतिदिश्यते, आहो स्विद्रूपातिदेशः, तृचो यद्रूपं तदतिदिश्यते इति ? ।। कश्चात्र विशेषः ? ।। ।। तृज्वदिति शास्त्राऽतिदेशश्चेद्यथा चिणि तद्वत् ।। तृज्वदिति शास्त्रातिदेशश्चेद्यथा चिणि तद्वत्प्राप्नोति ।। कथं च चिणि ? ।। उक्तम्(1) ‐ अङ्गस्येति तु प्रकरणादाङ्गशास्त्रातिदेशात्सिद्धमिति । आङ्गं यत्कार्यं तदतिदिश्यते ।। एवमिहाप्यनङ्गुणदीर्घत्वान्यतिदिष्टानि रपरत्वमनतिदिष्टम् ।। तत्र को दोषः ? ।। ।। तत्र रपरवचनम्(2) ।। तत्र रपरत्वं न सिध्यति, तद्वक्तव्यम् ।। नैषः दोषः । गुणेऽतिदिष्टे रपरत्वमप्यतिदिष्टं भवति ।। कथम् ? ।। कार्यकालं संज्ञापरिभाषं यत्र कार्यं तत्र द्रष्टव्यम्, ऋतो ङिसर्वनामस्थानयोर्गुणो भवति उपस्थितमिदं भवति ‐ उरण्रपर इति ।। एवं तर्हि अयमन्यो दोषो जायते ‐ आहत्य तृचो यच्छास्त्रं तदतिदिश्येताऽनाहत्य(2) वेति ? ।। किं चातः ? ।। यद्याहत्य, ‐ दीर्घत्वमतिदिष्टम्, अनङ्गुणरपरत्वान्यनतिदिष्टानि ।। अथानाहत्य, अनङ्गुणरपरत्वान्यतिदिष्टानि, दीर्घत्वमनतिदिष्टम् ।। अस्त्वाहत्य ।। ननु चोक्तं दीर्घत्वमतिदिष्टमनङ्गुणरपरत्वान्यनतिदिष्टानीति । नैष दोषः ‐ दीर्घत्वेऽतिदिष्टेऽनङ्गुणरपरत्वान्यनयतिदिष्टानि भवन्ति ।। कथम् ?।। उपधाया इति वर्तते, न चाऽकृतेष्वेतेषु दीर्घत्वभाविन्युपधा(1) भवति ।। कुतो नु खल्वेतदेतेषु विधिषु कृतेषु या उपधा तस्या उपधायाः दीर्घत्वं भविष्यति न पुनः क्रोष्टोर्योऽन्तरतमो(3) गुणस्तस्मिन्कृतेऽवादेशे च योपधा तस्या दीर्घत्वं भविष्यति ? ।। नैकमुदाहरणं योगारम्भं प्रयोजयतीति (4)। तत्र तृज्वद्वचनसार्मथ्यादेतेषु विधिषु कृतेषु योपधा तस्या दीर्घत्वं भविष्यति ।। अथ वा किं न एतेन ‐ - आहत्याऽनाहत्य वेति । आहत्याऽनाहत्य च तृचो यच्छास्त्रं तदतिदिश्यते ।। अथ वा पुनरस्तु रूपातिदेशः ।। अथैतस्मिन्रूपातिदेशे सति किं प्रागादेशेभ्यो यद्रूपं तदतिश्यते, आहो स्वित्कृतेष्वादेशेषु ? ।। किं चातः ? ।। यदि प्रागादेशेभ्यो यद्रूपं तदतिदिश्यते, ऋकार एकोऽतिदिष्टोऽनङ्गुणरपरत्वदीर्घत्वान्यनतिदिष्टानि । अथ कृतेष्वादेशेषु, ‐ ऋकारोऽनतिदिष्टोऽनङ्गुणरपरत्वदीर्घत्वान्यतिदिष्टानि ।। उभयथा च(1) स्वरोऽनतिदिष्टो न हि स्वरो रूपवान्(2) ।। (उभयथा(1) च स्वरोऽनतिदिष्टः ।। किं कारणम् ? ।। न हि स्वरो रूपवान् ।।) अस्तु प्रागादेशेभ्यो यद्रूपं तदतिदिश्यते ।। ननु चोक्तम्ऋकारोतिदिष्टोऽनङ्गुणरपरत्वदीर्घत्वान्यनतिदिष्टानीति ।। नैषः दोषः ‐ ऋकारेऽतिदिष्टे स्वाश्रया अत्रैते विधयो भविष्यन्ति ।। यदप्युच्यते ‐ उभयथा च(1) स्वरोऽनतिदिष्टो नहि स्वरो रूपवानिति । सचकारग्रहणसार्मथ्यात्स्वरो भविष्यति ।। ।। रूपातिदेश(2) इति चेत्सर्वादेशप्रसङ्गः(3) ।। रूपातिदेश इति चेत्सर्वादेशः प्राप्नोति । सर्वस्यतुन्नन्तस्य तृशब्द आदेशः प्राप्नोति ।। सिद्धन्तु रूपातिदेशात् ।। सिद्धमेतत् ।। कथम् ? ।। रूपातिदेशात् । रूपातिदेशोऽयम् ।। ननु चैवमेव कृत्वा चोद्यते ‐ रूपातिदेश इति चेत्सर्वादेशप्रसङ्ग इति ? ।। सिद्धं तु प्रत्ययग्रहणे यस्मात्स तदादितदन्तविज्ञानात् ।। सिद्धमेतत् ।। कथम् ? ।। प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य च ग्रहणं भवती-त्येवं तुन्नन्तस्य तृजन्त आदेशो भविष्यति ।। एवमपि किं चिदेव तृजन्तं प्राप्नोति, इदमपि प्राप्नोति ‐ पक्तेति ।। आन्तरतम्याच्च(4) सिद्धम् ।। क्रोष्टोर्यदन्तरतमं(5) तद्भविष्यति ।। किं पुनस्तत् ? ।। कुशेर्यस्तृज्विहितस्तदन्तम् ।। तृज्वद्वचनमनर्थकम्(6) (किं कारणम् ?) ।। तृज्विषये तृचो मृगवाचित्वात् ट ।। तृज्विषये एतत्तजन्तं मृगवाचि ( ।। तुनो निवृत्त्यर्थम् ।। ) ।। तुनो निवृत्त्यर्थं तर्हीदं वक्तव्यम् । तुनः सर्वनामस्थाने निवृत्तिर्यथा स्यात् ।। तुनो निवृत्त्यर्थमिति चेत्सिद्धं यथान्यत्रापि(7) ।। तुनो निवृत्त्यर्थमिति चेत्तदन्तरेण वचनं सिद्धं, ‐ यथान्यत्राप्यविशेषविहिताः शब्दाः नियतविषया दृश्यन्ते ।। क्वाऽन्यत्र ? ।। तद्यथा घरतिरस्मायविशेषेणोपदिष्टः स घृतं घृणा घर्म इत्येवं(1) विषयः । रशिरस्मायविशेषेणोपदिष्टः स राशिः रश्मिः रशनेत्येवं विषयः । लुशिरस्मायविशेषेणोपदिष्टः स लोष्ट इत्येवं विषयः ।। इदं तर्हि प्रयोजनं ‐ विभाषां (2)वक्ष्यामीति विभाषा तृतीयादिष्वचीति ।। वावचनानर्थक्यं च स्वभावसिद्धत्वात् ।। वावचनं चानर्थकम् ।। किं कारणम् ? ।। स्वभावसिद्धत्वात् । स्वभावत(3) एतत्तृतीयादिष्वजादिषु विभक्तिषु तृजन्तं च तुन्नन्तं च मृगवाचीति ।। गुणवृध्द्योत्वतृज्वद्भावेभ्यो नुम्पूर्वविप्रतिषिद्धम् (4)।। ।।। गुणवृध्द्यौत्वतृज्वद्भावेभ्यो नुम्भवति पूर्वविप्रतिषेधेन ।। तत्र गुणस्यावकाशः ‐ अग्नये वायवे । नुमोऽवकाशः ‐ त्रपुणी । जतुनी । इहोभयं प्राप्नोति त्रपुणे । जतुने।। वृद्धेरवकाशः ‐ सखायौ सखायः। नुमः स एव । इहोभयं प्राप्नोति ‐ अतिसखीनि ब्राह्मणकुलानीति । औत्वस्यावकाशः ‐ अग्नौ । वायौ । नुमः स एव । इहोभयं प्राप्नोति-त्रपूणि । जतूनीति । तृज्वद्भावस्यावकाशः ‐ क्रोष्ट्रा । क्रोष्टुना । नुमः स एव । इहोभय प्राप्नोति ‐ कृश-क्रोष्टुने अरण्याय । हितक्रोष्टुने वृषलकुलाय । नुम्भवति पूर्वविप्रतिषेधेन ।। स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ? ।। न वक्तव्यः । इष्टवाची परशब्दो विप्रतिषेधे परं-यदिष्टं तद्भवतीति ।। नुमचिरतृज्वद्भावेभ्यो नुट्(5) (पूर्वविप्रतिषेधेन) ।। नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन वक्तव्यः । नुमोऽवकाशः ‐ त्रपूणि जतूनि । नुटोऽवकाशः ‐ अग्नीनां वायूनाम् । इहोभयं प्राप्नोति ‐ त्रपूणां जतूनाम् ।। अचि रादेशस्यावकाशः ‐ तिस्रस्तिष्ठन्ति । चतस्रस्तिष्ठन्ति । नुटः स एव । इहोभयं प्राप्नोति ‐ तिसृणां चतसृणाम् ।। तृज्वद्भावस्यावकाशः-क्रोष्ट्रा क्रोष्टुना । नुटः स एव । इहोभयं प्राप्नोति ‐ क्रोष्टूनां । नुड्भवति पूर्वविप्रतिषेधेन ।। स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ? ।। न वक्तव्यः(1) ।। न वा नुडि्वषये रप्रतिषेधात् ।। न वैतद्विप्रतिषेधेनापि सिध्यति ‐ तिसृणां चतसृणामिति ।। कथं तर्हि सिध्यति ? ।। नुडि्वषये रप्रतिषेधात् । नुडि्वषये रप्रतिषेधो वक्तव्यः । (स चावश्यं वक्तव्यः(1)) ।। इतरथा हि सर्वापवादः ।। इतरथा हि सर्वापवादो रादेशः स यथैव गुणपूर्वसवर्णौ बाधते एवं नुटमपि बाधेत । ।। तस्मान्नुडि्वषये रप्रतिषेधः ।। तस्मान्नुडि्वषये रादेशस्य प्रतिषेधो वक्तव्यः ।। न वक्तव्यः(1)। आचार्यप्रवृत्तिर्ज्ञापयति न रादेशो नुटं बाधत इति, यदयं न तिसृचतसृ इति प्रतिषेधं शास्ति- नामि दीर्घत्वस्य (तृज्वत्क्रोष्टुः) ।।