Page loading... Please wait.
6|4|94 - खचि ह्रस्वः
॥ तस्मै पाणिनये नमः ॥
6|4|94
SK 2955
खचि ह्रस्वः  
सूत्रच्छेदः
खचि (सप्तम्येकवचनम्) , ह्रस्वः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
खच्परे णौ परतो ह्रस्वो भवति अङ्गस्य उपधायाः। द्विषन्तपः। परन्तपः। पुरंदरः।
`द्विषन्तपः, परन्तपः` इति। `द्विषत्परयोस्तापे` 3|2|39 इति खच्, `अरुर्द्विषदजन्तस्य` 6|3|66 इति मुम्। `पुरन्दरः` इति। `पूःसर्वयोर्दारिसहोः` 3|2|41 इति खच्, `वाचंमपुरन्दरौ च` 6|3|68 इति निपातनान्मुमागमः। ह्यस्वग्रहणं विस्पष्टार्थम्, शक्यते `मितां ह्यस्वः` 6|4|92 इत्यतो मण्डूकप्लुतिन्यायेन ह्यस्वग्रहणमनुवत्र्तयितुम्॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
खच्परे णौ उपधाया ह्रस्वः स्यात् । द्विषन्तं परं वा तापयतीति द्विषन्तपः । परंतपः । घटघटीग्रहणाल्लिङ्गविशिष्टपरिभाषा अनित्या । तेनेह न । द्विषतीं तापयतीति द्विषतीतापः ॥
खचि ह्रस्वः - खचि ह्यस्वः । "दोषो णौ" इत्यतो णाविति, "उदुपधायाः" इत्यत "उपधाया" इति चानुवर्तते । तदाह — खच्परे णाविति । खशि प्रकृते खचो विधिरिह ह्यस्वार्थोऽणिलोपार्थश्च । खशि तु तदुभयं न स्यात्, खशः शित्त्वेन सार्वधातुकतया णिलोपाऽसंभवात् । न च इहैव सूत्रे खज्विधीयतां, पूर्वसूत्रे खशेवाऽनुवर्ततामिति वाच्यम्, अन्यतोऽपि विधानार्थत्वात् । एवं चगमेः सुपी॑ति वार्तिकमेतल्ल्ब्धार्थकथनपरमेवेत्याहुः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.