Page loading... Please wait.
8|2|41 - षढोः कः सि
॥ तस्मै पाणिनये नमः ॥
8|2|41
SK 295
षढोः कः सि   🔊
सूत्रच्छेदः
षढोः (षष्ठीद्विवचनम्) , कः (प्रथमैकवचनम्) , सि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
षढोः कः सि
सूत्रार्थः
षकारस्य ढकारस्य च सकारे परे ककारादेशः भवति ।
षकारात् परः यदि सकारः आगच्छति, तर्हि षकारस्य अनेन सूत्रेण ककारादेशः भवति ।
तथैव, ढकारात् परः यदि सकारः आगच्छति, तर्हि ढकारस्य अनेन सूत्रेण ककारादेशः भवति ।
उदाहरणे एतादृशे -

1) अदादिगणस्य द्विष् धातोः मध्यमपुरुषैकवचनस्य सि-प्रत्यये परे द्वेक्षि एतत् रूपम् अनेन प्रकारेण सिद्ध्यति -
द्विष् + सि
→ द्वेष् + सि [पुगन्तलघूपधस्य च 7|3|86 इत्यनेन इकारस्य गुणः एकारः]
→ द्वेक् सि [षढोः कः सि 8|2|41 इत्यनेन षकारस्य ककारः]
→ द्वेक् षि [आदेशप्रत्यययोः 8|3|59 इत्यनेन सकारस्य षकारः]
→ द्वेक्षि [क् + ष् = क्ष् ]


2) अदादिगणस्य लिह् धातोः मध्यमपुरुषैकवचनस्य सि-प्रत्यये परे लेक्षि इति रूपं अनेन प्रकारेण सिद्ध्यति -
लिह् + सि
→ लेह् + सि [पुगन्तलघूपधस्य च 7|3|86 इत्यनेन इकारस्य गुणः एकारः]
→ लेढ् सि [हो ढः 8|2|31 इत्यनेन झलि परे हकारस्य ढकारः]
→ लेक् + सि [षढोः कः सि 8|2|41 इत्यनेन ढकारस्य ककारः]
→ लेक् षि [आदेशप्रत्यययोः 8|3|59 इत्यनेन सकारस्य षकारः]
→ लेक्षि [क् + ष् = क्ष् ]

ज्ञातव्यम् - यद्यपि इदम् सूत्रम् "पदस्य" अधिकारे आगच्छति, तथापि अयं ककारादेशः अपदान्तषकारढकारयोः एव भवति, यतः पदान्तषकारढकारयोः झलां जशोऽन्ते 8|2|39 इत्यनेन जश्त्वं विधीयते ।
One-line meaning in English
षकार and ढकार not occurring at end of a पद are converted to ककार when followed by सकार.
काशिकावृत्तिः
षकारढकारयोः ककारादेशो भवति सकारे परतः। षकारस्य पिष् पेक्ष्यति अपेक्ष्यत्। पिपक्षति। धकारस्य लिह लेक्ष्यति। अलेक्ष्यत्। लिलिक्षति। सि इति किम्? पिनष्ति। लेढि।
`पेक्ष्यति` इति। `पिष्लृ सञ्चूर्णने` (धातुपाठः-1452), लृट्। `अपेक्ष्यत्` इति। लृङ्। `पिपिक्षति` इति। सन्, `हलन्ताच्च` 1|2|10 इति कित्त्वाद्गुणाभावः।`पिनष्टि` इति। रूधादित्वात्? श्नम्। `लेढि` इति। अदादित्वाच्छपरो लुक्॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
षस्य ढस्य च कः स्यात्सकारे परे । इति तु न भवति । जश्त्वं प्रत्यसिद्धत्वात् । केचित्तु व्रश्च (कौमुदी-294)आदिसूत्रे दादेर्धातोः (कौमुदी-325) इति सूत्राद्धातोरित्यनुवर्तयन्ति । तन्मते जश्त्वेन जकारे । निज्भ्याम् । निज्भिः । जश्त्वम् । श्चुत्वम् । चर्त्वम् । निच्शु । चोः कुः (कौमुदी-378)इति कुत्वं तु न भवति । जश्त्वस्यासिद्धत्वात् ॥मांसपृतनासानूनां मांस्पृत्स्नवो वाच्याः शसादौ वा (वार्तिकम्) ॥ पृतः । पृता । पृद्भ्याम् । पक्षे सुटि च रमावत् । गोपा विश्वपावत् । मतिः प्रायेण हरिवत् । स्त्रीत्वान्नत्वाभावः । मतीः । नात्वं न । मत्या ॥
षढोः कः सि - तत्र धुडभावपक्षे निश्-सु इति स्थितेव्रश्चे॑ति षत्वे तस्य षकारस्य जश्त्वात्प्राक् ककारमाशङ्कितुमाह — षढोः कः सि । षश्च ढश्चेति द्वन्द्वः ।सी॑ति सप्तमी । तदाह — षस्येत्यादिना । इति तु न भवतीति । षकारस्य ककारो न भवतीत्यर्थः । जश्त्वं प्रत्यसिद्धत्वादिति । "झलाञ्जशोऽन्ते" इत्यपक्षयाषढोः कः सी॑त्यस्य परत्वादिति भावः । शसादिषु निशादेशाऽभावपक्षे सुटि च रमावत् । व्रश्चादिसूत्रे मतान्तरमाह-केचित्त्विति । "एकाचो वशः" इत्युत्तरसूत्रे धातोरित्यस्यानुवृत्त्या मध्येऽपि तदनुवृत्तेरौचित्यादिति भावः । अनुवृत्तं च धातोरित्येतच्छशयोरेव विशेषणम्, व्रश्चादिषु धातुत्वाऽव्यभिचारात् । जश्त्वेनेति । निश्म्यामित्यादौ निशित्यस्य धातुत्वाऽभावात्षत्वाऽभावे "झलाजशोऽन्ते" इति जश्त्वेन शकारस्य स्थानसाम्याज्जकार इत्यर्थः । निज्भ्यामित्यत्र कुत्वमाशङ्क्याह — कुत्वं तु नेति । जश्त्वस्यासिद्धत्वादिति ।कुत्वं प्रती॑ति शेषः । निच्शु इति । निश्सु इति स्थिते शस्य जश्त्वेन जः, तस्य श्चुत्वेन शः, जस्य चर्त्वेन चः, शस्य छत्वविकल्पः ।मासपृतना । मांस, पृतना, सानु इत्येतेषां मांस्, पृत्, स्नु इत्यादेशा वाच्या इत्यर्थः । "पद्दन्नो" इति सूत्रे वार्तिकमेतत् । अत एवाह — शसादौ वेति ।पद्दन्नि॑ति सूत्रस्य विकल्पेन प्रवृत्तेरिति भावः । मांससानुशब्दयोरस्त्रीलिङ्गत्वात्पृतनाशब्दस्यैव शसादौ पृदादेशमुदाहरति — पृत इति । पक्षे इति । पृदादेशाऽभावपक्षे इत्यर्थः । गोपा विआपावदिति । आबन्तत्वाऽभावान्न सुलोप इत्यर्थः । इत्यादन्ताः । अथ इदन्ताः । प्रायेणेति । प्रायशब्दो बहुलपर्यायः । "प्रायोभूम्नि" इत्यमरः । इह तु ईषदूनत्वे वर्तते । प्रकृत्यादित्वात्तृतीया । मतिशब्द ईषदूनहरिशब्दवत्प्रत्येतव्य इत्यर्थः । शसि विशेषमाह — स्त्रीत्वान्नत्वाभाव इति ।तस्माच्छसो नः पुंसी॑तिनत्वस्य पुंस्त्वे विधानादिति भावः । तृतीयैकवचने घित्वान्नाभावमाशङ्क्याह — नात्वं नेति ।आङो नाऽस्त्रिया॑मिति नात्वविधावस्त्रियामिति पर्युदासादिति भावः ।
षढोः कः सि - केचित्त्विति । परिशिष्टकारादयः । निच्शु इति । अत्रशश्छोट#ई॑ति पक्षे छत्वं बोध्यम् ।मांसपृतनासानूनां मांस्पृत्स्नवो वाच्याः शसादौ वा । मांसपृतनेति । पृतना — -सेना । नात्वं नेति ।अस्त्रियां॑मिति पर्युदासादिते भावः ।
लघुसिद्धान्तकौमुदी
यक्ष्यति, यक्ष्यते। इज्यात्, यक्षीष्ट। अयाक्षीत्, अयष्ट॥ वह प्रापणे॥ 9॥ वहति, वहते। उवाह। ऊहतुः। ऊहुः। उवहिथ॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.