पुरःशब्दः `पूर्वाधरावराणामसि पुरधवश्चैषाम्`
5|3|39 इत्यसिप्रत्ययान्तो व्युत्पादितः। अग्रतःशब्दोऽपि `तसिप्रकरण आद्यादिभ्य उपसंख्यानम्` (वा।634) इति तसिप्रत्ययान्तः। `अग्रे` इति। अग्रशब्दस्यैकारान्तत्वं निपात्यते--अग्रेसर इत्येतद्रूपं यथा स्यात्। ननु च सप्तम्या अलुकाप्येतत् सिध्यति? सत्यम्; यदा सिध्यति तदा सप्तम्यन्त उपपदे प्रत्ययः। यदाग्रः सरतीति, अग्रेण वा सरतीत्यसप्तम्यन्तस्तदा न सिध्यति; तदर्थमेकारान्तत्वं निपात्यते॥