`परिमृजापनुदोः` इति। सुब्व्यत्येन पञ्चम्यर्थे षष्ठी। `मृजू शुद्धौ` (धातुपाठः-1066) पूरिपूर्वः। `नुद प्रेरणे` (धातुपाठः-1426) अपपूर्वः। `आलस्य` इत्यादि। प्रत्ययार्थोपाधिरयम्। अलस एवालस्यम्। चातुर्वण्र्यादित्वात् स्वार्थे ष्यञ्। आहरतीत्याहरणः। `कृत्यल्युटो बहुलम्`
3|3|113 इति कत्र्तरि ल्युट्। सुखस्याहरणः सुखाहरणः। आलस्यकत्र्तरि सुखस्याहरणेऽनेन को भवति, नान्यत्रेत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- अत्रापि पूर्ववद्वविभाषागर्हणमनुवत्र्तते, सा च व्यवस्थितविभाषा। तेनालस्यसुखाहरणयोरेव कर्त्तोः को भवति, नान्यत्रेति। `तुन्दपरिमार्ज एवान्यः` इति। अनालस्ये त्वण् भवति। `मृजेर्वृद्धिः`
7|2|114 । `शोकापनोदः` इति। यः प्रतिपक्षोपदेशेन शोकं केवलमपनुदति, न तु सुखमुत्पादयति। अत्राणेव तु भवति।`कप्रकरणे` इत्यादि। मूलविभुजादिब्यस्तदर्थे चतुर्थी। आदिशब्दः प्रकारवचनः। मूलविभुजाद्यर्थ मूलविभुजादयः साधवो यथा स्युरित्येवमर्थ कप्रत्ययस्योपादानं प्रतिपादनं कत्र्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्-- `ह्वावामश्च`
3|2|2 इत्यतः `आतोऽनुपसर्गे कः`
3|2|3 इत्यत्र चकारोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः, तेन मूलविभुजादिभ्यः कप्रत्ययो भविष्यतीति। मूलं विभुजति। `{भुजो-धातुपाठः-} भुज कौटिल्ये` (धातुपाठः-1417)। नखानि मुञ्चन्तीति नखमुचानि। `मुच्लृ मोक्षणे` (धातुपाठः-1430)। ` काकगृहास्तिलाः` इति। `गुहू संवरणे` (धातुपाठः-896)। काकेभ्यो गूहितव्याः।तव्यदाद्यपवादः। कर्मणि कः। `कौ मोदते कुमुदम्` इति। तृजाद्यपवादः॥