Page loading... Please wait.
8|3|92 - प्रष्ठोऽग्रगामिनि
॥ तस्मै पाणिनये नमः ॥
8|3|92
SK 2917
प्रष्ठोऽग्रगामिनि   🔊
सूत्रच्छेदः
प्रष्ठः (प्रथमैकवचनम्) , अग्रगामिनि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108 अपदान्तस्य मूर्धन्यः  8|3|55 इण्कोः  8|3|57
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
प्रष्ठः इति निपात्यते अग्रगामिनि अभिधेये। प्रतिष्ठते इति प्रष्ठः अश्वः। अग्रतो गच्छति इत्यर्थः। अग्रगामिनि इति किम्? प्रस्थे हिमवतः पुण्ये। प्रस्थो व्रीहीणाम्।
प्रशब्दस्याविणन्तत्वादप्रप्तमेव षत्वं विधीयते। अग्रे गन्तुं शीलं यस्य सोऽग्रगामौ=पुरःसर उच्यते। प्रतिष्ठित इति प्रष्ठः `सुपि स्थः` 3|2|4 इति कप्रत्ययः, पूर्ववदकारलोपः॥
प्रस्थे हिमवत इति । ठ्घञर्थे कविधानम्ऽ इत्यधिकारणे कः ॥
सिद्धान्तकौमुदी
प्रतिष्ठत इति प्रष्ठौ गौः । अग्रतो गच्छतीत्यर्थः । अग्रेति किम् । प्रस्थः ॥
प्रष्ठोऽग्रगामिनि - प्रष्ठोऽग्रगामिनि । प्रपूर्वात्स्थाधातोः "आतश्चोपसर्गे" इति कप्रत्यये आतो लोपे प्रस्थशब्दः । स च अग्रगामिनि वाच्ये कृतषत्वो निपात्यते । इण्कवर्गाभ्यां परत्वाऽभावात्षत्वस्य न प्राप्तिः । प्रतिष्ठत इति । अग्रे गच्छतीत्यर्थः, उपसर्गवशात् । प्रष्ठो गौरिति । अग्रगामीत्यर्थः । एवं प्रष्ठोऽआ इत्यादि ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.