Page loading... Please wait.
7|3|69 - भोज्यं भक्ष्ये
॥ तस्मै पाणिनये नमः ॥
7|3|69
SK 2885
भोज्यं भक्ष्ये   🔊
सूत्रच्छेदः
भोज्यम् (प्रथमैकवचनम्) , भक्ष्ये (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
भोज्यम् निपात्यते भक्ष्ये ऽभिधेये। भोज्यः ओदनः। भोज्या यवागूः। इह भक्ष्यम् अभ्यवहार्यमात्रम्। भक्ष्ये इति किम्? भोग्यः कम्बलः।
`भोज्यम्` इति। `भुज पालनाभ्यवहारयोः` (धातुपाठः-1454) इत्यस्य ण्यति भक्ष्येऽभिधेये कुत्वाभावो निपात्यते। `भोज्या यवागूः` इति। ननु च भक्षिरयं खरविशदेऽभ्यवहार्ये वत्र्तते, न तु द्रवद्रव्ये, यथा--`संस्कृतं भक्षाः` 4|2|15 इत्यत्र, तत्कथं `भक्ष्ये` इत्युच्यमाने यवाग्वां भवति? इत्याह--`इह भक्ष्यम्` इत्यादि। नावश्यं भक्षिः खरविरादे वत्र्तते। तथा हि--द्रवद्रव्येऽप्यस्य प्रयोगो द्रृश्यते। यथा--अबभक्षः, वायुभक्षः, वायुभक्ष इति। तस्मादभ्यवहार्यसामान्ये भक्षिर्वर्तत इति यवाग्वामपि भवति। `भुजो भक्ष्ये` इति वक्तव्ये निपातनं रूढर्थम्। अभ्यवहार्ये भक्ष्ये कर्मणि यथा स्यात्? परिपालनीये मा भूत्--भोग्या अपूपाः। पालनीया इत्यर्थः॥
भोज्या यावगूरिति । ननु भक्षिरयं खरविशदेऽभ्यवहार्ये वर्तत इति ठ्संस्कृतं भक्षाःऽ इत्यत्रोक्तम्, तत्कथं द्रवद्रव्ये भवति ? इत्यत आह---इहेति । एवं मन्यते---नात्र भक्षिः खरविशद एव वर्तते; अब्भक्षः, वायुभक्ष इत्यत्रापि दर्शनादिति शब्दान्तरसन्निधिबलादेतदेवं भवति । ठ्स्वभावतस्तु भक्षिः खरविशद एव वर्ततेऽ इति वार्तिककारस्य पक्षः, यदाह---ठ्भोज्यमभ्यवहार्य इति वक्तव्यम्ऽ इति ॥
सिद्धान्तकौमुदी
भोग्यमन्यत् ॥ण्यत्प्रकरणे लपिदभिभ्यां चेति वक्तव्यम् (वार्तिकम्) ॥ लाप्यम् । दभिर्धातुष्वपठितोऽपि वार्तिकबलात्स्वीकार्यः । दाभ्यः ॥
भोज्यं भक्ष्ये - भोज्यं भक्ष्ये । भक्ष्ये गम्ये ण्ये भुजेः कुत्वाऽभावो निपात्यते । इति प्रासङ्गिकम् । अथ प्रकृतम् — लपिदभिभ्यां चेति । वार्तिकमिदम्ऋहलोण्र्य॑दिति सूत्रस्थम् । "पोरदुपधा" दिति प्राप्तस्य ण्यदपवादस्य यतोऽपवादः ।
भोज्यं भक्ष्ये - भोज्यम् । भक्ष्यमिहाभ्यवहार्यमात्रं विवक्षितं, नतु खरविशदमभ्यवहार्यम् ।तेन भोज्या यवागूरित्यपि भवतीत्याहुः । भोग्यमन्यदिति । पालनीयमुपभोग्यं चेत्यर्थः । * लपिदभिभ्यां चेति वक्तव्यम् । लपिदभिभ्यां चेति ।पोरदुपधा॑ दिति प्राप्तस्य यतोऽपवादः । जयादित्यस्तु — आसुयुवपरिपी॑ति सूत्रे लपं प्रक्षिप्यरपिलपित्रपी॑ति पठित्वाऽनुक्तसमुच्चयार्थेन चकारेण दभेः सङ्ग्रह इत्युक्तवान्,तत्र वैषम्येण व्याख्यानं निर्बीजं, भाष्यविरोधश्च स्पष्ट एवेति बोध्यम् । स्वीकार्य इति ।कास्यनेकाच आम्वक्तव्यश्चुलुम्पाद्यर्थ॑मिति वार्तिकबलाद्यथा चुलुम्पादिभ्य आम् स्वीक्रियते तद्वदिति भावः । तथा च प्रयुज्यतेनता नशन्ति न दभाति तस्करः॑ ,विष्णुर्गोपा अदाभ्यः॑ इत्यादि ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
भोज्यम्भक्ष्ये भोज्यमभ्यवहार्ये(6) भोज्यमभ्यवहार्य इति वक्तव्यम् । इहापि यथा स्यात् ‐ भोज्यः सूपः भोज्या यवागूरिति ।। किं पुनः कारणं न सिध्यति ? ।। भक्षिरयं खरविशदे एव(6) वर्तते तेन द्रवे न प्राप्नोति ।। नावश्यं भक्षिः खरविशदे एव वर्तते ।। किं तर्हि ? ।। अन्यत्रापि वर्तते । तद्यथा ‐ अब्भक्षो वायुभक्ष इति ।। ( भोज्यं भक्ष्ये ) ।।