Page loading... Please wait.
7|3|53 - न्यङ्क्वादीनां च
॥ तस्मै पाणिनये नमः ॥
7|3|53
SK 2864
न्यङ्क्वादीनां च   🔊
सूत्रच्छेदः
न्यङ्‍क्वादीनाम् (षष्ठीबहुवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
न्यङ्कु इत्येवम् आदीनां कवर्गादेशो भवति। न्यङ्कुः नावञ्चेः इति उप्रत्ययः। मद्गुः मिमस्जिभ्य उः इति मस्जेः उप्रत्ययः। भृगुः प्रथिमदिभ्रस्जां सम्प्रसारणं सलोपश्च इति उप्रत्ययः। दूरेपाकः, फलेपाकः दूरे पच्यते स्वयम् एव, फले पच्यते स्वयम् एव। पचाद्यच्। निपातनाद् वृद्धिः। तत्पुरुषे इऋति बहुलम् 6|3|14 इति सप्तम्या अलुक्। क्षणेपाकः इत्यपि हि केचित् पठन्ति। दूरेपाका, फलेपाका इत् टाबन्तमप्रे ऽधीयते। उकारान्तावपरे दूरेपाकुः फलेपाकुः इति। तेषाम् उप्रत्ययः निपातनादेव। तक्रम् वक्रम् इति पञ्चतेर् वञ्चतेश्च स्फायितञ्चिवञ्चि इत्यादिना सूत्रेण रक्। व्यतिषङ्गः व्यतिषजति इति पचाद्यच्। अनुषङ्गः। अवसर्गः। उपसर्गः। श्वपाकः, मांसपाकः, कपोतपाकः, उलूकपाकः इति कर्मोपदादण् प्रत्ययः। संज्ञाया अन्यत्र अर्हः, अवदाहः, निदाहः। न्यग्रोधः, वीरुदित्यत्र न्यक्पूर्वस्य रुहेः पचाद्यचि, विपूर्वस्य क्विपि धकारो विधीयते। न्यग्रोहयति न्यग्रोधः। विरोहयति इति वीरुत्।
अधिण्ण्यदर्थोऽयमारम्भः। `नावञ्चतेरित्युप्रत्ययः` इति। तत्र `भृमृशीतृचरित्सरितनिधनिमिमस्जिभ्य उः` (द।उ।1।92) इत्यनुवृत्तेः। `मद्गुः` इति। `टुमस्जो शुद्धौ` (धातुपाठः-1415), `झलां जश्? झशि` 8|4|52 इति सकारस्य दकारः। `मिमस्जिभ्य उः` इति। अनेन `भृमृशीतृचरि` (द।उ।1।92) इत्यादिकमुपलक्षयति। `भृगुः` इति। `भ्रस्ज पाके` (धातुपाठः-1284)। `प्रथिभ्रदि` (द।उ।1।113) इत्यादिके सूत्रऽत एव सूत्रा(द।उ।1।92)दुप्रत्ययोऽनुवत्र्तते। `दूरेपाकः`[`दूरेपाकाः`--मु।पाठ] इति। कर्मकत्र्तरि पचाद्यच्। `उकारान्तावपेर` इति। अधीयत इत्यपेक्ष्यते। `तञ्चतेः` इति। `तन्चु त्वन्चु गतौ` (धातुपाठः-191,192) इति, `वन्चु प्रलम्भने` (धातुपाठः-1703) `स्फायितञ्चिवञ्चि` इति सूत्रैकदेशः `स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपिदृपितृपिवन्युन्दिइआतिवृत्यजिनीपदिमदिमुदिखिदिभिदिछिदिमन्दिचन्दिदहिदसिदम्भिवहवसिवाशिशीङ्हससिधिशुभिभ्यो रक्` (द।उ।8।31) इत्येतत्? सूत्रमुपलक्षयति। `व्यतिषङ्गः` इति। `षन्ज सङ्गे` (धातुपाठः-987) `अवसर्गः` इति। `सृज विसर्गे` (धातुपाठः-1178) पचाद्यच। `मेधः` इति। `मिह सेचने` (धातुपाठः-992)। अजेव। `आपाकः` इति। कर्मोपपदादण्प्रत्ययः `कर्मष्यण्` 3|2|1 इत्यनेन। `अर्हतेः` इति। `अर्ह पूजायाम्` (धातुपाठः-740)। `दहेः` इति। `दहभस्मीकरणे` (धातुपाठः-992)। `रुहेः` इति। `रुह बीजजन्मनि प्रादुर्भावे` (धातुपाठः-859)।ननु च न्यङ्क्वादयः कृतकुत्वाः प्रातपदिकगणे पठन्ते, तत्किमर्थमिदम्, यथैव हि कुत्वादन्यत्? कार्यं भवति निपातनात्? तथा कुत्वमपि भविष्यति? तस्यैव प्रातपदिकपाठस्याभ्यनुज्ञानार्थमितदमुच्यते। असति ह्रतस्मिन्? प्रमादपाठो विज्ञायतेत॥
न्यङ्कु इत्येवमादीनां चेति । ठ्सिद्धयेऽ इति शेषः, कृतकुत्वानामेव गणे पाठात् । किमर्थं तर्हि सूत्रम्, यावता यथैव कुत्वादन्यदपि घत्वगुणदीर्घत्वादिकं निपातनाद्भवति, तथा कुत्वमपि भविष्यति ? सत्यम्; असति तस्मिन्, अनुवादे गणस्य क्वचिदप्यनुपयोगात्प्रमादपाठः शङ्क्येत । पचाद्यचीति । घञि कुत्वस्यासिद्धत्वात् । संज्ञायां मेघ इत्यादि । मेघःउपरोयघरः, निदाघःउघर्मः, अवदाघोऽपि स एव । अर्घःउविक्रीयमाणस्य धान्यादेरियता, मूल्यमित्यन्ये । वीरुदिति । निपातनादुपसर्गस्य दीर्घत्वम् ॥
सिद्धान्तकौमुदी
कुत्वं स्यात् । न्यङ्कुः । नावञ्चेः <{उ17}> इत्युप्रत्ययः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
न्यङ्क्वादीनां च - न्यङ्कुरिति ।कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः॑ इत्यमरः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.