Page loading... Please wait.
7|1|66 - उपात्‌ प्रशंसायाम्
॥ तस्मै पाणिनये नमः ॥
7|1|66
SK 2846
उपात्‌ प्रशंसायाम्   🔊
सूत्रच्छेदः
उपात् (पञ्चम्येकवचनम्) , प्रशंसायाम् (सप्तम्येकवचनम्)
अनुवृत्तिः
नुम्  7|1|59 (प्रथमैकवचनम्) , लभेः  7|1|64 (षष्ठ्येकवचनम्) , यि  7|1|65 (सप्तम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
उपात् लभेः प्रशंसायाम् यि नुम्
सूत्रार्थः
उप + लभ् इत्यत्र यकारादि प्रत्ययस्य विषये "प्रशंसा" अस्मिन् अर्थे नुमागमः भवति ।
डुलभष् (पाके) इति भ्वादिगणस्य धातुः । उप-उपसर्गात् परस्य अस्य धातोः प्रशंसा (= स्तुतिः) अस्मिन् अर्थे यकारादि-प्रत्ययस्य विषये नुमागमः भवति ।
अत्र एतत् स्मर्तव्यम् यत् अस्मिन् सूत्रे "यि" इति विषयसप्तमी अस्ति, परसप्तमी न । अतः यकारादि-प्रत्ययस्य विषये (परन्तु यकारादि-प्रत्ययस्य स्थापनात् पूर्वमेव) अयम् नुमागमः भवति । इत्युक्ते, यकारादि प्रत्ययस्य विवक्षायाम् एव वर्तमानसूत्रेण नुमागमे कृते "लन्भ्" इति यत् रूपम् जायते, तस्मादेव यकारादिप्रत्ययः विधीयते, लभ्-इत्यस्मात् न । उदाहरणानि एतानि -

1. उप + लन्भ् + ण्यत् [ऋहलोर्ण्यत् 3|1|124 इति ण्यत् प्रत्ययः । अत्र एतत् स्मर्तव्यम् यत् यदि "लभ्" इत्यस्मात् प्रत्यविधानम् अभविष्यत्, तर्हि पोरदुपधात् 3|1|98 इत्यनेन अच्-प्रत्ययः अभविष्यत्, येन प्रत्ययस्य अकारः यतोऽनावः 6|1|213 इत्यनेन उदात्तः अभविष्यत् । परन्तु यकारादि-प्रत्ययस्य विवक्षायाम् नुमागमे कृते लन्भ् इति रूपम् जायते, अतः अत्र "ण्यत्" प्रत्ययः आगच्छति, येन गतिकारकोपपदात् कृत् 6|2|139 इत्यनेन पदस्य अन्त्यस्वरितत्वम् जायते ।]
→ उपलम्भ्य [नश्चापदान्तस्य झलि 8|3|24 इति अनुस्वारः, अनुस्वारस्य ययि परसवर्णः 8|4|58 इति परसवर्णः मकारः]

यथा - "हे पुत्र , त्वया विद्या उपलम्भ्या" । अत्र पुत्रम् उद्दिश्य "त्वया विद्यायाः प्रशंसा करणीया" इति उक्तम् अस्ति । अतः अत्र नुमागमः क्रियते ।

2. उप + लन्भ् + यक् + ते [लभ्-धातोः कर्मणि-प्रयोगस्य लट्-लकारस्य प्रथमपुरुषैकवचनस्य विवक्षायाम नुमागमे कृते "लन्भ्" इति अङ्गम् जायते । सार्वधातुके यक् 3|1|67 इत्यनेन कर्मणि-प्रयोगस्य विवक्षायाम् यक्-प्रत्ययः, लट्-लकारस्य आत्मनेपदस्य प्रथमपुरुषैकवचनस्य "ते" इति प्रत्ययः]
→ उपलभ्यते [अनिदितां हलः उपधायाः क्ङिति 6|4|24 इति नकारलोपः]

ज्ञातव्यम् -
1. अस्मिन् सूत्रे प्रयुक्तः "प्रशंसा" शब्दः अर्थं दर्शयितुम् प्रयुक्तः अस्ति, शब्दं दर्शयितुम् न । इत्युक्ते, "प्रशंसा" शब्दे परे नुमागमः भवति इति न, अपितु "प्रशंसा" अस्मिन् अर्थे नुमागमः भवति ।
2. यदि "उप + लभ्" इत्यस्य प्रयोगः प्रशंसां विहाय अन्यस्मिन् अर्थे क्रियते (यथा - प्राप्ति, समीपत्व - इत्यादयः), तर्हि अस्य सूत्रस्य प्रयोगः न भवति । यथा - मया वृषलात् किञ्चित् उपलभ्यम् ।
3. "नुम्" अयम् आगमः मित्-आगमः अस्ति, अतः मिदचोऽन्त्यात्परः 1|1|47 इत्यनेन अन्त्यात् अचः परः आगच्छति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उपादुत्तरस्य लभेः प्रशंसायां गम्यमानायां यकारादिप्रत्ययविषये नुमागमो भवति। उपलम्भ्या भवता विद्या। उपलम्भ्यानि धनानि। ण्यत्प्रत्ययान्तत्वातन्तस्वरितत्वम् एव। प्रशंसायाम् इति किम्? उपलभ्यम् अस्माद् वृषलात् किञ्चित्। पोरदुपधत्वाद् यत्प्रत्ययान्तम् इदम्।
`प्रशंसायाम्` इति। उपलभ्य इति स्तुतौ। अतिप्रशंस्य इत्यर्थः। `उपलभ्यम्` इति। प्रप्तव्यमित्यर्थः॥
अत्र प्राप्तिरेव धात्वर्थः । प्रशंशा तु गम्यमानतया विशेषणम् । अतो यस्य प्राप्तिर्यतो वा प्राप्तिः प्रशंसाहेतुर्भवति तत्रोदाहरणम् । विपर्यये तु प्रत्युदाहरणम् ॥
सिद्धान्तकौमुदी
उपलम्भ्यः साधुः । स्तुतौ किम् । उपलब्धुं शक्य उपलभ्यः ॥
उपात् प्रशंसायाम् - उपात्प्रशंसायाम् । उपात्परस्य लभेर्नुम् स्याद्यादौ प्रत्यये विवक्षिते प्रशंसायां गम्यमानायामित्यर्थः । उपलम्भ्यः साधुरिति । समीपे प्राप्य इत्यर्थः । साधुशब्दात् प्रशंसा गम्यते । इहापि नुमि कृते अदुपधत्वाऽभावाण्ण्यदेव । स्वरे विशेषः पूर्ववत् ।
उपात् प्रशंसायाम् - उपात्प्रशंसायाम् । यादौ प्रत्यये विवक्षिते उपपूर्वाल्लभेर्नुम् स्यात्प्रशंसायाम् । सा चेह गम्यमानतया विशेषणम् । धात्वर्थस्तु प्राप्तिरेव,तेन यस्य प्राप्तिर्यस्माद्वा प्राप्तिः प्रशंसाहेतुर्भवति तदिहोदाहरणम् । विपरीतं तु प्रत्युदाहरणम् । इहापियादौ प्रत्यये विवक्षिते॑ इत्यर्थान्नुमि कृते ण्यति सत्यन्तस्वरितत्वं भवति । यति तु सत्युत्तरपदाद्युदात्तत्वं स्यात् । प्राचा तु स्वरे विशेषमनालोच्यपोरदुपधा॑दिति यतमेव स्वीकृत्य यति परे नुमिति व्याख्यातं, तदाकरिरोधादुपेक्ष्यमित्याहुः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.