Page loading... Please wait.
7|1|65 - आङो यि
॥ तस्मै पाणिनये नमः ॥
7|1|65
SK 2845
आङो यि   🔊
सूत्रच्छेदः
आङः (पञ्चम्येकवचनम्) , यि (सप्तम्येकवचनम्)
अनुवृत्तिः
नुम्  7|1|59 (प्रथमैकवचनम्) , लभेः  7|1|64 (षष्ठ्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
आङो लभेः यि नुम्
सूत्रार्थः
आङ् + लभ् इत्यत्र यकारादि प्रत्ययस्य विषये नुमागमः भवति ।
डुलभष् (पाके) इति भ्वादिगणस्य धातुः । आङ्-उपसर्गात् परस्य अस्य धातोः यकारादि-प्रत्ययस्य विषये नुमागमः भवति ।

अत्र एतत् स्मर्तव्यम् यत् अस्मिन् सूत्रे "यि" इति विषयसप्तमी अस्ति, परसप्तमी न । अतः यकारादि-प्रत्ययस्य विषये (परन्तु यकारादि-प्रत्ययस्य स्थापनात् पूर्वमेव) अयम् नुमागमः भवति । इत्युक्ते, यकारादि प्रत्ययस्य विवक्षायाम् एव वर्तमानसूत्रेण नुमागमे कृते "लन्भ्" इति यत् रूपम् जायते, तस्मादेव यकारादिप्रत्ययः विधीयते, लभ्-इत्यस्मात् न । उदाहरणानि एतानि -

1. आ + लन्भ् + ण्यत् [ऋहलोर्ण्यत् 3|1|124 इति ण्यत् प्रत्ययः । अत्र एतत् स्मर्तव्यम् यत् यदि "लभ्" इत्यस्मात् प्रत्यविधानम् अभविष्यत्, तर्हि पोरदुपधात् 3|1|98 इत्यनेन अच्-प्रत्ययः अभविष्यत्, येन प्रत्ययस्य अकारः यतोऽनावः 6|1|213 इत्यनेन उदात्तः अभविष्यत् । परन्तु यकारादि-प्रत्ययस्य विवक्षायाम् नुमागमे कृते लन्भ् इति रूपम् जायते, अतः अत्र "ण्यत्" प्रत्ययः आगच्छति, येन गतिकारकोपपदात् कृत् 6|2|139 इत्यनेन पदस्य अन्त्यस्वरितत्वम् जायते ।]
→ आलम्भ्य [नश्चापदान्तस्य झलि 8|3|24 इति अनुस्वारः, अनुस्वारस्य ययि परसवर्णः 8|4|58 इति परसवर्णः मकारः]

2. आ + लन्भ् + यक् + ते [लभ्-धातोः कर्मणि-प्रयोगस्य लट्-लकारस्य प्रथमपुरुषैकवचनस्य विवक्षायाम नुमागमे कृते "लन्भ्" इति अङ्गम् जायते । सार्वधातुके यक् 3|1|67 इत्यनेन कर्मणि-प्रयोगस्य विवक्षायाम् यक्-प्रत्ययः, लट्-लकारस्य आत्मनेपदस्य प्रथमपुरुषैकवचनस्य "ते" इति प्रत्ययः]
→ आलभ्यते [अनिदितां हलः उपधायाः क्ङिति 6|4|24 इति नकारलोपः]

ज्ञातव्यम् - "नुम्" अयम् आगमः मित्-आगमः अस्ति, अतः मिदचोऽन्त्यात्परः 1|1|47 इत्यनेन अन्त्यात् अचः परः आगच्छति ।
One-line meaning in English
The verb root आङ् + लभ् gets a नुमागम when followed by a यकारादि प्रत्यय.
काशिकावृत्तिः
आङः उत्तरस्य लभेः यकारादिप्रययविषये नुमागमो भवति। आलम्भ्या गौः। आलम्भ्या वडवा। प्राक् प्रत्ययोत्पत्तेः नुमि कृते विहितमदुपधत्वम् इति ऋहलोर् ण्यत् 3|1|124 इति ण्यत्प्रत्ययः, तत्र कृदुत्तरपदप्रकृतिस्वरत्वेन अन्तस्वरितत्वं भवति। यति तु पुनरुत्तरपदाद्युदात्तत्वं स्यात्। आङः इति किम्? लभ्यम्। कथम् अग्निष्टोम आलभ्यः इति? सर्वे विधयश् छन्दसि विकल्प्यन्ते। अथ वा आलभ्यः इत्यत्र नुमि कृते ऽनुषङ्गलोपः क्रियते।
`यकारादौ प्रत्यय` इति। अनेन `यि` इत्यस्याः सप्तम्या विषयसप्तमीत्वं दर्शयन्? यकारादौ प्रत्यये ववयभूतेऽनुत्पन्न एव नुम्? भवतीति दर्शयति। `प्राक्` इत्यादिना विषयसप्तम्यां सत्यां यदिष्टं सम्पद्यते तदाचष्टे। परसप्तम्यां हि पूर्वं प्रत्ययेन भवितव्यम्, पश्चान्नुमा, ततश्च `अदुपधात्` 3|1|98 इति यत्? प्रसज्येत। विषयसप्तम्यां तु प्रागुत्पन्नेन नुमाऽदुपधत्वस्य विहतत्वात्? `ऋहलोण्र्यत्` 3|1|124 इत ण्यदेव भवति। कः पुनण्र्यति यत वा विशेषः; यावतोभयत्रापि तदेव रूपमिति, व्यत्प्रत्ययेऽपि वृद्ध्या न भवितव्यम्, तथा च प्रागुक्तम्--`परापि सती वृद्धिर्नित्यत्वाभुमा बाध्यते` इति? अत आह--`तत्र` इत्यादि। तत्र ण्यति सति तित्स्वरितत्वात्? `गतिकारकोपपदात्? कृत्` 6|2|138 इति प्रकृतिस्वरः; तेनालम्भ्य इत्युदाहरणमन्त्यस्वरितं भवति। यति तु `यतोऽनावः` 6|1|207 इत्याद्युदात्तत्वे सति प्रकृतिवद्भावेनाप्युदात्तत्वमित्यस्ति विशेषः। `लभ्यम्` इति। यदन्तमेतत्। `एवमालभ्य` इत्येतदपि। आलभ्यत इति भावे कर्मणि वा लकारः। `अनुषङ्गलोपः क्रियते` इति। `अनिदताम्` 6|4|24 इत्यादिना॥
अत्र धातोः इत्यनुवृतेरुपदेशावस्थायामेव नुमा भवितव्यम्, तस्माद् यि इति विषयसप्तमीत्याह - यकारादौ प्रत्यये विषय इति । प्रागित्यादिना विषयसप्तम्याश्रयणस्य फलं दर्शयति । तत्रेत्यादि । रुपे तु नास्ति विशेषः, ण्यत्प्रत्ययेऽपि वृद्ध्या नैव भवितव्यम् , नित्ये नुमि सति विहितनिमितत्वात् । यति पुनरुतरपदाद्यौदातत्वं स्यादिति । यतोऽनावः इत्युतरपदाद्यौदातत्वात् । आलभ्य इति । यक् । अनुषङ्गलोपः क्रियत इति । एतेन यक्ल्यपौ व्याख्यातौ । तेन यि इति सामान्योक्तावपि ण्यदेवोदाहृत इति भावः ॥
सिद्धान्तकौमुदी
आङः परस्य लभेर्नुम् स्याद्यादौ प्रत्यये विवक्षिते । नुमि कृतेऽदुपधात्वाभावात् ण्यदेव । आलम्भ्यो गौः ॥
आङो यि - आङो यि ।इदितो नुम् धातो॑रित्यतो नुमिति,लभेश्चे॑त्यतो लभेरिति चाऽनुवर्तते । तदाह — आङः परस्येति । विवक्षिते इति । "यी" इति विषयसप्तमीति भाष्ये स्पष्टम् । "विवक्षिते" इत्यस्य प्रयोजनमाह — नुमि कृते इति । यत्प्रत्यये विवक्षिते तत्प्रवृत्तेः प्रागेव नुमि कृते अदुपधत्वाऽभावाद्यत्प्रत्ययस्याऽप्रवृत्तेण्र्यदेवेत्यर्थः ।यति परे नु॑मित्यर्थे तु अदुपधत्वाद्यदेव स्यान्नतु ण्यदिति भावः । आलम्भ्यो गौरिति । यद्यपि यण्ण्यतोर्न रूपभेदस्तथापि ण्यति कृतेतित्स्वरित॑मिति स्वरितत्वम्, यति तु "यतोऽनावः" इत्याद्युदात्तत्वमिति स्वरभेदः फलम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
आङो यि इह कस्मान्न भवति ‐ आलभ्यते ।। अस्तु, अनिदितां हल उपधायाः क्ङितीति लोपो भविष्यति ।। इह तर्हि ‐ आलम्भ्या(1) गौः । पोरदुपधादिति यत्यवस्थिते नुम् ।। तत्र को दोषः ? ।। आलम्भ्येत्येष(2) स्वरः प्रसज्येत । आलम्भ्येति चेष्यते ।। नैषः दोषः । उक्तमेतत्(3) ।। धातुग्रहणसार्मथ्यादुपदेशे नुम्विधानम् ।। इति ।। ( आङो यि )