Page loading... Please wait.
8|4|31 - हलश्च इजुपधात्‌
॥ तस्मै पाणिनये नमः ॥
8|4|31
SK 2837
हलश्च इजुपधात्‌   🔊
सूत्रच्छेदः
हलः (पञ्चम्येकवचनम्) , च (अव्ययम्) , इजुपधात् (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कृत्यचः इति वर्तते। हलादिः यो धातुरिजुपधः तस्मात् परो यः कृत्प्रत्ययः तत्स्थस्थ नकारस्य अच उत्तरस्य उपसर्गस्थान् निमित्तादुत्तरस्य विभाषा णकारादेशो भवति। प्रकोपणम्, प्रकोपनम्। परिकोपणम्, परिकोपनम्। हलः इति किम्? प्रेहणम्। प्रोहणम्। इजुपधातिति किम्? प्रवपणम्। परिवपणम्। कृत्यचः इति नित्ये प्राप्ते विकल्पः। अचः इत्येव, परिभुग्नः। इजुपधस्य सर्वस्य हलन्तत्वादिह हल्ग्रहणमादिविशेषणम्।
चकारो विबाषेत्यनुकर्षणार्थः। तेनोत्तरत्र विधिर्नित्यो भवति। `प्रकोपधम्` ति। `कुप क्रोधे` (धातुपाठः-1233)। `प्रहणम्, प्रोहणम्` इति। `ईह चेष्टायाम्` (दा।पा।632), `ऊह वितर्के` (दा।पा।648)। अत्र `कृत्यचः` 8|4|28 इति नित्यमेव भवति। कथं पुनज्र्ञायते--हल्ग्रहणमिहादेर्विशेषणम्, न त्वन्तस्य? इत्यत आह--`इजुपधस्य` इत्यादि। सर्व एवेजुपधा धातवो हलन्ता एवेतीजुपधादेव हलन्तत्वे लब्धे हल्ग्रहणमं क्रियमाणमादेर्विशेषणं विज्ञायते॥
प्रकोपणमिति । ठ्कुप क्रोधनेऽ । प्रेहणम्, प्रोहणमिति । ठीह चेष्टायाम्ऽ, ठूह वितर्केअऽ। अत्र ठ्कृत्यचःऽ इति णत्वं नित्यमेव भवति । कथं पुनरसत्यादिग्रहणे हलादिरिति लभ्यते ? अत आह---इजुपधस्येति । इजुपधस्य हलन्तत्वाव्यभिचारात् सामर्थ्यादादिविशेषणं हल्ग्रहणमित्यर्थः ॥
सिद्धान्तकौमुदी
हलादेरिजुपधात्कृन्नस्याचः परस्य णो वा स्यात् । प्रकोपणीयम् । प्रकोपनीयम् । हलः किम् । प्रोहणीयम् । इजुपधात्किम् । प्रवपणीयम् ॥
हलश्च इजुपधात् - हलश्चेजुपधात् । हलन्तादिति नार्थः, इजुपधस्य हलन्तत्वाऽव्यभिचारात् । किंतु हलादेरितिविवक्षितम् । तदाह — हलादेरिजुपधादिति ।परस्ये॑ति शेषः । प्रोहणीयमित्यादिप्रत्युदाहरणे तु "कृत्यच" इति नित्यमेव णत्वम् ।
हलश्च इजुपधात् - हलश्च । इजुपधस्य हलन्तत्वाऽव्यभिचाराद्धल इत्यनेन तदादित्वं लक्ष्यत इत्याह — हलादेरिति । प्रकोपणीयमिति ।कुप् क्रोधे॑ । प्रोहणीयणमिति । ऊह वितर्के । अत्रकृत्यचः॑ इति नित्यमेव णत्वम् । एवं प्रवपणीयमित्यत्रापि ।डुवप् बीजसंताने॑ ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.