रेफयुक्तेन उपसर्गेण सह प्रयुज्यमानात् धातोः विहितस्य कृत्-प्रत्ययस्य अच्-वर्णात् परस्य नकारस्य णत्वं भवति ।
यदि -
1) कश्चन धातुः रेफयुक्त-उपसर्गेण सह प्रयुज्यते
2) तथा च, तस्मात् धातोः कश्चन कृत्-प्रत्ययः विधीयते
3) तस्मिन् कृत्-प्रत्यये विद्यमानः नकारः अच्-वर्णात् परः अस्ति
- तर्हि प्रत्ययस्थ-नकारस्य वर्तमानसूत्रेण णकारादेशः भवति ।
केषु केषु कृत्-प्रत्ययेषु नकारः विद्यते ? सर्वप्रकाराणाम् उदाहरणानि एतानि -
[1] ल्युट् प्रत्ययः - प्र + या + ल्युट्
→ प्र + या + अन [
युवोरनाकौ 7|1|1 इति अन-आदेशः]
→ प्रयान [
अकः सवर्णे दीर्घः 6|1|101 इति सवर्णदीर्घः आकारः ]
→ प्रयाण [
कृत्यचः 8|4|29 इति णत्वम् । अत्र नकारः आकारोत्तरः अस्ति ।]
एवमेव - परि + मा + ल्युट् → परि + मा + अन → परिमाण ।
[2] शानच् प्रत्ययः प्र + या + लट् [
वर्तमाने लट् 3|2|123 इति लट्लकारः]
→ प्र + या + शानच् [कर्मणिप्रयोगविवक्षायाम्
भावकर्मणोः 1|3|13 इति आत्मनेपदविवक्षा ।
लटः शतृशानचावप्रथमासमानाधिकरणे 3|2|124 इति शानच्-प्रत्ययः]
→ प्र + या + यक् + आन [
सार्वधातुके यक् 3|1|67 इति यक् प्रत्ययः]
→ प्र + या + य + मुक् + आन [
आने मुक् 7|2|82 इति मुगागमः]
→ प्रयायमान [इत्संज्ञालोपः, वर्णमेलनम्]
→ प्रयायमाण [
कृत्यचः 8|4|29 इति णत्वम्]
एवमेव परि + मा + शानच् → परिमायमाण ।
[3] कानच् प्रत्ययः [अयं केवलं वेदेषु दृश्यते ।] प्र + या + लिट् [
छन्दसि लिट् 3|2|105 इति लिट्]
→ प्र + या + कानच् [
लिटः कानच् वा 3|2|106 इति "लिट्" इत्यस्य "कानच्" इति आदेशः]
→ प्र + या + आन [इत्संज्ञालोपः]
→ प्रयान [
अकः सवर्णे दीर्घः 6|1|101 इति सवर्णदीर्घः आकारः ]
→ प्रयाण [
कृत्यचः 8|4|29 इति णत्वम्]
[4] चानश् प्रत्ययः प्र + या + चानश् [
ताच्छील्यवयोवचनशक्तिषु चानश् 3|2|129 इति चानश्]
→ प्र + या + शप् + आन [
कर्तरि शप् 3|1|68 इति शप्]
→ प्र + या + मुक् +आन [
आने मुक् 7|2|82 इति मुगागमः]
→ प्र + या + मान [
अदिप्रभृतिभ्यः शपः 2|4|72 इति शपः लुक्]
→ प्रयामान [इत्संज्ञालोपः, वर्णमेलनम्]
→ प्रयामाण [
कृत्यचः 8|4|29 इति णत्वम्]
एवमेव परि + मा + चानश् → परिमामाण ।
[5] अनीयर् प्रत्ययः प्र + या + अनीयर् [
तव्यत्तव्यानीयरः 3|1|96 इति अनीयर् प्रत्ययः]
→ प्रयानीय [
अकः सवर्णे दीर्घः 6|1|101 इति सवर्णदीर्घः आकारः ]
→ प्रयाणीय [
कृत्यचः 8|4|29 इति णत्वम्]
एवमेव - परि + मा + अनीयर् → परिमाणीय ।
[6] अनि प्रत्ययः प्र + या + अनि [
आक्रोशे नञ्यनिः 3|3|112 इति अनि-प्रत्ययः ।]
→ प्रयानि [
अकः सवर्णे दीर्घः 6|1|101 इति सवर्णदीर्घः आकारः ]
→ प्रयाणि [
कृत्यचः 8|4|29 इति णत्वम्]
विशेषः - "अनि" प्रत्ययः नित्यम् "नञ्" उपपदेन सह एव प्रयुज्यते, अतः प्रयोगसमये "न प्रयाणि = अप्रयाणि" इत्येव प्रयोक्तव्यम् । केवलम् "प्रयाणि" इत्यस्य प्रयोगः न साधु ।
एवमेव परि + या + अनि → परियाणि । (प्रयोगे - अपरियाणि) ।
[7] णिनि प्रत्ययः प्र + या + णिनि [
आवश्यकाधमर्ण्ययोर्णिनिः3|3|170 इति णिनि-प्रत्ययः /
सुप्यजातौ णिनिस्ताच्छील्ये 3|2|78 इति णिनि-प्रत्ययः]
→ प्र + या + इन् [इत्संज्ञालोपः]
→ प्र + या + युक् + इन् [
आतो युक् चिण्कृतोः7|3|33 इति युगागमः]
→ प्रयायिन् [वर्णमेलनम् ।
कृत्तद्धितसमासाश्च 1|2|46 इति प्रातिपदिकसंज्ञा]
→ प्रयायिन् + औ [प्रथमाद्विवचनस्य विवक्षायाम् "औ" प्रत्ययः]
→ प्रयायिनौ
→ प्रयायिणौ [
कृत्यचः 8|2|29 इति णत्वम् । अत्र नकारः इकारात् परः आगच्छति ।]
विशेषः - प्रयायिणौ इत्यत्र
प्रातिपदिकान्तनुम्विभक्तिषु च 8|4|11 इत्यनेन केवलं विकल्पेन णत्वं भवेत्, परन्तु वर्तमानसूत्रेण नित्यं विधीयते ।
एवमेव - परि + या + णिनि + जस् → परियायिणः इत्यपि सिद्ध्यति ।
[8] निष्ठाप्रत्ययौ (क्त , क्तवतु) प्र + हा + क्त [
निष्ठा 3|2|102 इति क्त-प्रत्ययः]
→ प्र + ही + त [
घुमास्थागापाजहातिसां हलि 6|4|66 इति ईकारादेशः ]
→ प्र + ही + न ["हा" धातोः औपदेशिकरूपे ओकारः इत्संज्ञकः विद्यते (ओँहाक् त्यागे) अतः
ओदितश्च 8|2|45 इत्यनेन निष्ठातकारस्य नकारादेशः भवति ।]
→ प्रहीण [
कृत्यचः 8|2|29 इति णत्वम् । अत्र नकारः ईकारात् परः आगच्छति ।]
एवमेव - परि + हा + क्तवतु → परिहीणवत् ।
स्मर्तव्यम् - यदि धातौ णत्वनिषेधकस्य वर्णस्य (इत्युक्ते - अट्, कु, पु, आङ्, नुम् - एतान् विहाय अन्यवर्णस्य) व्यवधानं अस्ति, तर्हि वर्तमानसूत्रेण णत्वं न भवति । यथा - प्र + स्था + ल्युट् → प्रस्थान । अत्र यद्यपि रेफयुक्तः उपसर्गः प्रयुज्यते, अपि च धातुः अपि अजन्तः अस्ति, तथापि रेफनकारयोर्मध्ये थकारस्य व्यवधानेन णत्वं न जायते ।
सूत्रम् दलकृत्य प्रत्येकं पदस्य प्रयोजनम् एतादृशम् -
1) उपसर्गात् इति किम् ? या + ल्युट् → यान इत्यत्र न भवति ।
2) अच्-वर्णात् परस्य इति किम् ? प्र + मस्ज् + क्त → प्रमग्न - इत्यत्र न भवति, यतः अत्र नकारात् पूर्वम् अच् वर्णः न विद्यते ।
3) कृत्प्रत्ययस्य इति किम् ? परि + मी + श्ना + ति → परिमीनाति इत्यत्र न भवति ।
अत्र एकं वार्त्तिकं ज्ञातव्यम् -
कृत्स्थस्य णत्वे निर्विण्णस्य उपसंख्यानं कर्तव्यम् । इत्युक्ते, अस्मिन् सूत्रे "निर्विण्ण" शब्दस्य अपि ग्रहणं करणीयम् ।
"निर्विण्ण" शब्दस्य प्रक्रिया इयम् -
निर् + विद् (सत्तायाम्) + क्त [
निष्ठा 3|2|102 इति क्त-प्रत्ययः]
→ निर् + विन् न [
रदाभ्यां निष्ठातो नः पूर्वस्य च दः 8|2|42 इति दकारतकारयोः उभयोः नकारः]
→ निर्विन्न [वर्णमेलनम्]
अत्र द्वौ नकारौ विद्येते । एताभ्यां प्रथमनकारः प्रत्ययस्य नकारः नास्ति, अतः तस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति । द्वितीयः नकारः यद्यपि प्रत्ययस्य नकारः अस्ति, तथापि सः अच्-वर्णात् परः नास्ति, अतः अत्रापि णत्वस्य प्रसक्तिः नास्ति । इत्युक्ते, वर्तमानसूत्रेण कस्यापि नकारस्य णत्वं न भवति । परन्तु उभयनकारयोः णत्वम् इष्यते । अतः अस्य ग्रहणम् अस्मिन् सूत्रे क्रियते, येन "निर्विण्ण" इति शब्दः सिद्ध्यति । यथा, देवीसप्तशत्यां "निर्विण्णोऽतिममत्वेन राज्यापहरणेन च" इति प्रयोगः दृश्यते । अस्य साधुत्वं अनेनैव वार्त्तिकेण सिद्ध्यति ।
स्मर्तव्यम् - अस्मिन् सूत्रे षष्ठ्यन्तं पदं नास्ति, केवलं पञ्चम्यन्तं पदम् (अचः) तथा सप्तम्यन्तं पदम् (कृति) इति विद्यते । अस्यां स्थितौ
उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् अनया परिभाषया सप्तम्यन्तं पदम् स्थानिनं निर्देशयति । अतः "कृत्-प्रत्ययस्य नकारस्य णत्वं भवति" इति अर्थः निष्पद्यते ।