Page loading... Please wait.
6|4|93 - चिण्णमुलोर्दीर्घोऽन्यतरस्याम्
॥ तस्मै पाणिनये नमः ॥
6|4|93
SK 2762
चिण्णमुलोर्दीर्घोऽन्यतरस्याम्   🔊
सूत्रच्छेदः
चित्-णमुलोः (सप्तमीद्विवचनम्) , दीर्घः (प्रथमैकवचनम्) , अन्यतरस्याम् (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
चिण्परे णमुल्परे च णौ परतः मिताम् अङ्गानाम् उपधायाः दीर्घो भवति अन्यतरस्यां। अशमि, अशामि। अतमि, अतामि। शमंशमम्, शामंशामम्। तमन्तमम्, तामन्तामम्। दीर्घग्रहणं किं, न ह्रस्वविकल्प एव विधीयते? न एवं शक्यम्, शमयन्तं प्रयुङ्क्ते इति द्वितीये णिचि ह्रस्वविकल्पो न स्यात्। णिलोपस्य स्थानिवद्भावाद् दीर्घविधौ त्वजादेशो न स्थानिवत्। शयमन्तं प्रयुक्तवान्। अशमि, अशामि। शमंशमम्, शामंशामम्। शंशमयतेः अशंशमि, अशंशामि। शंशमंशंशमम्, शंशामंशंशामम्। यो ऽसौ णौ णिर्लुप्यते, यश्च यङ्कारः, तयोर् दिर्घविधौ आदेशो न स्थानिवद् भवति इति अस्थानिवद्भावात् दीर्घः सिद्धो भवति। ह्रस्वविकल्पे तु विधीयमाने स्थानिवद्भावः स्यात्। णिण्यन्ते यङ्ण्यन्ते त्वसिद्धिरेव। व्याश्रयत्वादसिद्धत्वम् अपि न अस्ति। णौ हि णियङोर् लोपः, चिण्णमुल्परे णावङ्गस्य दीर्घत्वम्।
`णौ` इति वत्र्तते, चिण्णमुलौ च तद्विशेषणे। `अशमि` इति। शमेण्र्यन्ताल्लुङ, `चिण्? भावकर्मणोः` 3|1|66 इति च्लेश्चिण्, `चिणो लुक्` 6|4|104 इति तशब्दस्य लुक्? णेरनिटि` 6|4|51 इति णिलोपः। `शर्मशममम्, शामंशामम्` इति। पूर्ववण्णमुल्दिविर्वचने। `दीर्घग्रहणं किम्` इति। एवं मन्यते--ह्यस्वस्यैवानन्तरसय प्रकृतस्य विकल्पमात्रं विषेयम्, एवमप्यभीष्टं सिद्ध्यत्येव। तथा हि--यस्मिन्? पक्षे ह्यस्वो विधीयते, तस्मिन्नशमीत्यादि सिद्ध्यति। यस्मस्तु ह्यस्वो न विधीयते, तत्र `अत उपधायाः` 7|2|116 इति दीर्घे वृद्धिसंज्ञके विहिते तेनैव रूपेणावस्थानात्? `अशामि` इत्यादि सिद्ध्यतीत्यभिप्रायः। इतरस्तु दीर्घग्रहणमन्तरेण यन्न सिद्ध्यति, तद्दर्शयति--`शमयन्तं प्रयुङक्ते` इत्यादिना। शमेण्र्यन्तात्? पुनः प्रयोजकविवक्षायां द्वितीयो णिच्, तत्र पूर्वस्य णेर्लोपः, लुङ, चिण्। पक्षे दीर्घत्वम्। `अशमि, अशामि, शमंशमम्, शामंशामम्` इति। द्वितीयणिजन्तण्णमुलि कृते पक्षे दीर्घत्वम्। `शंशमयतेः` इत्यादि। अत्यर्थं शाम्यतीति यङ्, द्विर्वचनम्, `नुगतोऽनुनासिकान्तस्य` 7|4|85 इति नुक्--`शंशम्य` इति। स्थिते हेतुमण्णिच्, `अतो लोपः` 6|4|48 इत्यकारस्य लोपः, `यस्य हलः` 6|4|49 इति यकारस्य, शंशमीति स्थिते यदा ततः परश्चिण्भवति, तदा पक्षे दीर्घत्वे कृतेऽशंशम्यशंशामीति भवति। यद तु णमुल्? तदा शंशमंशंमम्? शंशामंशंशाममिति, तत्र योऽसो णौ णिर्लुप्यते, यश्च यङोऽकारस्तयोर्दीर्धग्रहणे सति `अचः परस्मिन्? पूर्वविधौ` 1|1|56 इति स्थानिवद्भावो न भवति; `न पदान्त` 1|1|57 इत्यादिना प्रतिषेधात्। तेनासति व्यवधाने दीर्घः सिद्धो भवति। स्यादेतत्--ह्यस्वविकल्पे विधीयमाने यस्मिन्? पक्षे ह्यस्वो नास्ति तस्मिन्पक्षे स्वरूपेणैवावस्थितो दीर्घः स्यात्? इत्यत आह--`ह्यस्वविकल्पे तु` इत्यादि। न हि ह्यस्वे विधातव्ये केनचित्? स्थानिवद्भावः प्रतिषिध्यते। तत्र ह्यस्वविकल्पे विधीयमाने णेर्लोपस्य यङ्कारस्य च स्थानिवद्भावः स्यादेव। ततश्च स्थानिवद्भावाद्विकल्पेन ह्यस्वत्वं न स्यात्। चिण्णमृल्परे हि णौ परतो मितामङ्गानां ह्यस्वत्वं विधेयम्। यश्चात्र णिश्चिण्णमुल्परो न तत्र मिदङ्गम्; पूर्वेम णिचा व्यवधानात्। यस्मश्च णौ मिदङ्गं नासौ चिण्णमुल्परः; परेण चिणा व्यवधानात्। तस्मान्नायमस्य योगस्य विषय इति पाक्षिकं ह्यस्वत्वमनेन न स्यात्। पूर्वेणैव योगेन नित्यं स्यात्, ततश्च दीर्घो न स्यात्।`णिण्यन्ते` इत्यादि। णेणिरन्तः समीपो यस्मिन्? स णिण्यन्तः। अथ वा णेणिः णिणिः सोऽन्तो यस्य स णिण्यन्तः। अस्मिन्? पक्षेऽन्तशब्दोऽवयववचनः। `यङण्यन्ते त्वसिद्धिरेव` इति। यङ्ण्यन्तशब्दस्यापि पूर्ववद्? द्विधा व्युत्पत्तिः। कस्यासिद्धिः? प्रकृतत्वाद्दीर्घस्येति वेदितव्यम्। एवकारेणैतद्दर्शयति--णिण्यन्ते स्यादपि केनचित्? प्रकारेण दीर्घस्य सिद्धिः, यङ्ण्यन्ते त्ववसिद्धिरेव। न केनचित्? प्रकारेण सिद्धिरित्यर्थः। कथ पुनर्णिण्यन्ते सिद्धिर्भवति? णिजातेराश्रयणात्। णिजातिविवक्षायां हि यद्यपि णिलोपस्य स्थानिवद्भावः, तथापि नास्तिव्यवधानम्; जातेरेकत्वात्। न हि तत्रैव तस्या व्यवधानमुपपद्यते। तेन व्यवधानाभावाण्णिण्यन्ते दीर्घस्य सिद्धिः। अथ वैतदेवकारेण दर्शयति--णिण्यन्ते पूर्वं णिचमाश्रित्य `अत उपधायाः` 7|2|116 इति वृद्धि विधानादस्ति दीर्घस्य सिद्धिः, तस्यास्तु ह्यस्वत्वेन निवृत्तिः क्रियते, न तु सर्वथा नास्त्येव। यङ्ण्यन्ते तु सर्वथैव दीर्घसिद्धेरभावः, तत्र वृद्धेरसम्भवादिति। स्यादेतत्--विक्लपे दीर्घत्वे विधीयमानेऽपि नैवाऽत्र दीर्घः सिध्यति। `असिद्धवदत्रा भात्` 6|4|22 इति णियङोर्लोपस्यासिद्धत्वादित्यत आह--`व्याश्रयत्वात्` इत्यादि। कथं पुनध्र्याश्रयत्वम्? इत्याह--`णौ हि` इत्यादि। अन्यतरस्यांग्रहणं विस्पष्टार्थम्; शक्यते हि `वा चित्तविरागे` 6|4|9 इत्यतो मण्डूकप्लुतिन्याथेन वाग्रहणमनुवत्र्तयितुम्॥
न ह्रस्वविकल्प एव विधीयेतेति । एवमपि ह्रस्वपक्षे अशमीति सिध्यति, पक्षान्तरे अशामीति यथाप्राप्तं दीर्घ एवाषस्थास्यत इति भावः । शमयन्तं प्रयुंक्ते इति । यद्यपि चिण्विषये कर्म प्रदर्शनीयं भूतकालश्च, तथापि णिजुत्पतये हेतुव्यापारमात्रप्रदर्शनमत्र विवक्षितम्, न कर्ता नापि वर्तमानः काल तैति न दोषः । णिलोपस्य स्थानिवद्भावादिति । स्थानिवद्भावे हि सति यश्चिण्णमुल्परो णिः न तस्मिन्मिदङ्गम्, पूर्वेण णिचा व्यावधानात् यर्स्मिश्च मिदङ्गं न स चिण्णमुल्परः, परेण णिचा व्यावधानात् ततश्च ह्रस्वविकल्पो न स्यात्, पूर्वेथण नित्यमेव तु ह्रस्वः स्यात् । ननु दीर्घविकल्पेऽपि यावता स्थानिवद्भावः, कथमिवैतत् सिद्ध्यति तत्राह - दीर्घविधौ त्विति । न पदान्तद्विर्वचन इत्यादिना स्थानिवद्भावप्रतिषेधाद्दीर्घविकल्पस्यायं विषय एवेत्यर्थः । तथेत्यादि । अत्र दीर्घविधौ त्वजादेशो न स्थानिवद्भावतीत्यनुषङ्गः । शमेर्यङ्, द्विर्वचनम्, नुक्, णिच्यतो लोपः यस्य हल, तशंशमि इति स्थिते - यदा ततश्चिण्णमुलौ भवतः, तदा दीर्घविकल्पः सिध्यति अजादेशस्य स्थानिवत्वाभावादित्यर्थः । एतदेव स्पष्टयति - योऽसाविति । यश्च यङ्कार इति । णौ लुप्यत थैत्युनषङ्गः । एवं तावद्दीर्घविधौ त्वजादेशो न स्थानिव्ध्बवतीत्येतस्पष्टीकृतम् । णिलोपस्य स्थानिवद्भावाद् ह्रस्वविक्लपो न स्यात् इति यदुक्तम्, तत्समार्थयते - ह्रस्वविकल्पे त्विति । णेर्णिः णिणिः, सोऽन्तो यस्य स णिण्यन्तः । एतेन यड्ण्यन्ते इति व्याख्यातम् । असिद्धिरेवेति । कस्य प्रकृतत्वाद्दीर्घस्य, एवकारेण तुशब्देन चैतद्दर्शयति । णिचमाश्रित्य वृद्धिविधानादस्ति दीर्घस्य शङ्का, णिलोपस्य तु स्थानिवद्भावादयं विकल्पो न स्यादित्येव दोषः । यङ्ण्यन्ते तु भवतु नामायं विकल्पः, तथापि पक्षे दीर्घस्य श्रवणं न सिध्यति तणिचमपेक्ष्य वृद्धौ कर्तव्यायामतो लोपस्य स्थानिवद्भावाद्, दीर्घस्यानुन्मेषादिति । स्यादेत - दीर्घविकल्पे विधीयमाने यदि नाम स्थानिवद्भावो नास्ति, तथापि नैवात्र दीर्घः सिध्यति, असिद्धवदत्राभात् इति णियङेर्लोपस्यासिद्धत्वादिति अत थाअह - व्याश्रयत्वादिति । व्याश्रयत्वमेव दर्शयति - णौ हीत्यादि । किञ्च - हेड वेष्टने घटादिः, तस्य ह्रस्वाभावपक्षे अहेडीति स्यात्, दीर्घे तु ह्रस्वस्य कृते - अहीडीति भवति । तस्मादतोऽपि हेतोर्दीर्घ एव विकल्पनीयः ॥
सिद्धान्तकौमुदी
चिण् परे णमुल्परे च णौ मितामुपधाया दीर्घो वा स्यात् । प्रकृतो मितां ह्रस्वः-(कौमुदी-2568) एव तु न विकल्पितः । ण्यन्ताण्णौ ह्रस्वविकल्पस्यासिद्धेः । दीर्घविधौ हि णिचो लोपो न स्थानिवदिति दीर्घः सिध्यति । ह्रस्वविधौ तु स्थानिवत्त्वं दुर्वारम् । भाष्ये तु पूर्वत्रासिद्धीये न स्थानिवदित्यवष्टभ्य द्विर्वचनसवर्णानुस्वारदीर्घजश्चरः प्रत्याख्याताः । णाविति जातिपरो निर्देशः । दीर्घग्रहणं मास्तु इति तदाशयः । शामिता । शमिता । शमयिता । शामिष्यते । शमिष्यते । शमयिष्यते । यङन्ताण्णिच् । शंशम्यते । शंशामिता । शंशमिता । शंशमयिता । यङ्लुगन्ताण्णिच्यप्येवम् । भाष्यमते तु यङन्ताच्चिण्वदिटि दीर्घो नास्तीति विशेषः । ण्यन्तात्वाभावे शस्यते मुनिना ।
चिण्णमुलोर्दीर्घोऽन्यतरस्याम् - चिण्णमुलोः । "दोषो णौ" इत्यतो णाविति, "ऊदुपधाया गोहः" इत्यस्मादुपधाया इति, "मितां ह्यस्वः" इत्यतो मितामिति चानुवर्तते । तदाह — चिण्परे इत्यादिना । नन्विह दीर्घ ग्रहणं व्यर्थं,चिण्णमुलोरन्यतरस्या॑मित्येतावतैव "मितां ह्यस्वः" इति पूर्वसूत्रादनुवृत्तस्य ह्यस्वस्यविकल्पे दीर्घविकल्पस्य सिद्धेरित्यत आह — प्रकृत इत्यादि । कुत इत्यत आह — ण्यन्ताण्णाविति । शमदातोण्र्यन्ताण्णौ पूर्वणेर्लोपे लुटि तासि ण्यन्तस्याऽजन्तत्वाच्चिण्वदिटि तस्याऽ‌ऽभीयत्वेनाऽसिद्धतया "अनिटी" ति निषेधाऽभावाण्णिलोपे दीर्घविकल्पे सति शमिता शामितेति रूपद्वयमिष्यते । ह्यस्वविकल्पस्य विधौ तु ह्यस्वविकल्पो न स्यात्, प्रथमणिलोपस्यअचः परस्मि॑न्निति स्थानिवत्त्वेन व्यवहिततया चिण्परकणिपरकत्वाऽभावादित्यर्थः । दीर्घविकल्पविधौ तु न दोष इत्याह — दीर्घविधाविति । दीर्घविकल्पविधौ हि प्रथमस्य णिचो लोपो न स्थानिवत्, दीर्घविधौ स्थानिवत्त्वनिषेधात्, अतोऽत्र दीर्घविकल्पः सिध्यति । ह्यस्वविधौ तु प्रथमणिलोपस्य स्थानिवत्त्वं दुर्वारं, तत्र स्थानिवत्त्वनिषेधाऽभावादित्यर्थः । भाष्ये त्विति । न पदान्तसूत्रभाष्ये तुपूर्वत्रासिद्धे न स्थानिवदि॑त्येव सिद्धत्वान्न पदान्तसूत्रे द्विर्वचनसवर्णानुस्वारदीर्घजश्चरः प्रत्याख्याताः । "सुद्ध्युपास्य" इत्यत्रअनचि चे॑ति द्विर्वचनस्य, शिण्ढीत्यत्रनश्चे॑त्यनुस्वारस्य,अनुस्वारस्य ययी॑ति परसवर्णस्य च, प्रतिदीब्न इत्यत्रहलि चे॑ति दीर्घस्य, सग्धिरित्यत्रझलां जश् झशी॑ति जश्त्वस्य, जक्षतुरित्यत्रखरि चे॑ति चत्र्वस्य च पूर्वत्राऽसिद्धीयत्वादित्यर्थः । ननु ण्यन्ताण्णौचिण्णमुलो॑रिति दीर्घे कर्तव्ये प्रथमणिलोपस्य स्थानिवत्त्वं दुर्वारम्, "चिण्णमुलोः" इति दीर्घस्य पूर्वत्रासिद्धीयत्वाऽभावात् । ततश्च प्रथमणिचा व्यवहितत्वाद्दीर्घाऽनापत्तिः । एवं च तत्र दीर्गे कर्तव्ये स्थानिवत्त्वनिवारणाय दीर्घग्रहणस्यावश्यकत्वात्कथं दीर्घग्रहणप्रत्याख्यातमित्यताअह — णावितीति ।चिण्णमुलो॑रिति दीर्घविधौ चिण्परे णमुल्परे च "णौ" इत्यत्र णाविति णित्वजातिप्रधानो निर्देशः । चिण्णमुल्परकणित्वजातौ परत इति लभ्यते । णित्वजातिश्च णिद्वयेऽस्तीति प्रथमणेः स्थानिवत्त्वेऽपि दीर्घो निर्बाध इतिन पदान्त॑सूत्रे दीर्गग्रहणप्रत्याख्यानभाष्यस्याशय इत्यर्थः । शामिता शमितेति । शमधातोण्र्यन्ताल्लुटि तासि चिण्वदिटि दीर्गविकल्पः । शमियितेति । चिण्वत्त्वाऽभावे वलादिलक्षणे इटि रूपम् । यङन्तादिति । शमधातोर्यङि शंशम्येत्येतस्माद्धेतुमण्णौ "यस्य हलः" इति यकारलोपे अतो लोपे शंशमीत्यस्मात्कर्मलकारे णिलोपे "शंशम्यते" इति रूपमित्यर्थः । शंशामिता शंशमितेति ।चिण्मुलो॑रिति दीर्घविकल्पः । शंशमयितेति । चिण्वत्त्वाऽबावे वलादिलक्,णे इटि रूपम् । भाष्यमते त्विति ।न पदान्त॑सूत्रे दीर्गग्रहणप्रत्याख्यानपरभाष्यमते त्वित्यर्थः । यङन्तादिति ।ण्यन्ता॑दिति शेषः । यङन्ताण्णिचि यलोपे अल्लोपे च कृतेशंशमी॑त्यस्माल्लुटि तासि चिण्वदिटि कृते तस्याऽसिद्धत्वाण्णिलोपेशंशमिते॑त्यत्र अल्लोपस्य स्थानिवत्त्वेन णिच्परकत्वाऽबावात्चिण्णमुलो॑रिति दीर्घो नास्ति, भाष्यमतेन पदान्त॑सूत्रे दीर्घग्रहणाऽभावेन स्थानिवत्त्वनिषेधाऽभावादित्यर्थः । शम्यते मुनिनेति । अकर्मकत्वाद्भावे ल इति भावः ।
चिण्णमुलोर्दीर्घोऽन्यतरस्याम् - चिण्णमुलोः । शामितेत्यादौजनीजृ॑षित्यादिना मित्त्वेन मितामुपधाया नित्यं ह्यस्वे प्राप्ते दीर्घोऽनेन विकल्प्यते । ण्यन्ताण्णाविति । णिलोपस्य स्थानिवत्त्वेन व्यवधानादिति भावः । दीर्घः सिध्यतीति ।न पदान्ते॑ ति निषेधादित्यर्थः । ननु त्रिपादीस्थेदीर्घे कर्तव्ये स्थानिवत्त्वाऽभावःपूर्वत्रासिद्ध॑ मित्यनेनैव सिद्ध इति दीर्घग्रहणस्योपयोगाऽभावेऽपि ण्यन्ताण्णौचिण्णमुलो॑रिति दीर्घे कर्तव्ये स्थानिवद्भावनिवारणाय दीर्घग्रहणमावश्यकमित्यत आह — जातिपरो निर्देश इति । इदं मास्त्विति । ह्यस्वविकल्पेनाऽपीष्टं सिध्यतीति भावः । वस्तुतस्तुचिण्णमुलो॑रिति सूत्रे दीर्घग्रहणं कर्तव्यमेव । तथाहि — -हेडृ अनादरे॑ घटादिः । मितां ह्यस्वे कर्तव्य एच इक् । हिडयति । अत्र चिण्णमुलोः कृतयोह्र्यस्वे विकल्प्यमाने अहिडि अहेडि इति स्यात् । दीर्घे तु — अहिडि अहीडीति भवति । एतच्चात्रैव सूत्रे कैयटे स्पष्टम् । शंशामितेत्यादि । चिणिअशंमि । अशंशामि । णमुलि, शंशमं — शंशमं । शंशामं-शंशाममित्यादि द्रष्टव्यम् । दीर्घोनास्तीति । यङोऽल्लोपस्य स्थानिवत्त्वेन णिच्परत्वाऽभावादुपधादीर्घस्योपधावृद्धेश्चाऽप्रवृत्तेः । तथा च फलभेदाद्दीर्घग्रहणप्रत्याख्यानं न युज्यत इति भावः । शम्यते मुनिनेति । अकर्मकत्वाद्भावे लः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (3091) (6575 उपसंख्यानवार्तिकम् ।। 1 ।।) - चिण्णमुलोर्णिज्व्यवेतानां यङ्लोपे च - चिण्णमुलोर्णिज्व्यवेतानां यङ्लोपे चोपसंख्यानं कर्तव्यम् । शमयन्तं प्रयोजितवान् ‐ -अशमि, अशामि । शमं शमम्, शामं शामम् । शंशमयतेः ‐ -अशंशमि, अशंशामि । शंशमं शंशमम्, शंशामं शंशामम् ।। (उपसंख्यानप्रयोजनजिज्ञासाभाष्यम्) किं पुनः कारणं न सिध्यति ? चिण्णमुल्परे णौ मितामङ्गानां दीर्घो भवतीत्युच्यते, यश्चात्र णिश्चिण्णमुल्परो न तस्मिन् मिदङ्गम्, यस्मिंश्च मिदङ्गं नासौ चिण्णमुल्पर इति ।। लोपे कृते चिण्णमुल्परो भवति । स्थानिवद्भावान्न चिण्णमुल्परः ।। ननु च प्रतिषिध्यते तत्र स्थानिवद्भावः ‐ -दीर्घविधिं प्रति न स्थानिवदिति । एवमप्यसिद्धत्वान्न प्राप्नोति ।। एवं तर्हि ‐ - (प्रयोजनानर्थक्यबोधभाष्यम्) चिण्णमुलोर्णिज्व्यवेतानां यङ्लोपे चान्तरङ्गलक्षणत्वात्सिद्धम् । किमदमन्तरङ्गलक्षणत्वादिति ? यावद्ब्रूयात्समानाश्रयवचनात्सिद्धमिति । व्याश्रयं चैतत् । कथम् ? णौ णिलोपः, णौ चिण्णमुल्परे मितामङ्गानां दीर्घत्वम् । तस्मान्नार्थ उपसंख्यानेनेति ।।