`करणविशेषे पूजाद्वौ` इति। आदिशब्देन परिचर्याश्चर्ययोग्र्रहणम्। `नमसः` इत्यादिनाऽनन्तरस्योक्तार्थस्य विषयविभागं दर्शयति। एष चार्थो यद्यपि करण इति करणसामान्यमनुवत्र्तते, तथाप्यभिधानशक्तिस्वाभाव्यल्लभ्यते विनापि वचनेन, यथा--- पचादीनां विक्लेदादिषु वृत्तिः, बहुव्रीहेश्च मत्वर्थे। `नमस्यति देवान्` इति। ननु च नमस्यतिशब्दे नमःशब्दोऽस्ति, अतस्तद्योगे `नमः स्वस्ति`
2|3|16 इत्यादिना चतुथ्र्या भवितव्यम्? नैतदस्ति; `अर्थवद्ग्रहणे नानर्थकस्य` (व्या।प।1) इत्यर्थवतो नमःशब्दस्य कर्त्तुमशक्यत्वात्। अथ वा-- `उपपदविभक्तेः कारकविभक्तिर्बलीयसी` (चां।प।69) इति द्वितीयैव भवति। उपपदसम्बन्धनिरपेक्षत्वात् कारकविभक्तेर्बलीयस्त्वम्। उपपदविभक्तेस्तु पदान्तरसापेक्षत्वाद्दुर्बलत्वम्। `नमस्यति` इति। नमस्कारं करोतीत्यर्थः। `वरिवस्यति`। परिचरीत्यर्थः। `चित्रीयते` इति। विस्मापयत इत्यर्थः॥