Page loading... Please wait.
3|1|16 - बाष्पोष्मभ्यामुद्वमने
॥ तस्मै पाणिनये नमः ॥
3|1|16
SK 2672
बाष्पोष्मभ्यामुद्वमने   🔊
सूत्रच्छेदः
बाष्प-ऊष्मभ्याम् (पञ्चमीद्विवचनम्) , उद्वमने (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कर्मणः इति वर्तते। बाष्पशब्दादूष्मशब्दाच् च कर्मन उद्वमने ऽर्थे क्यङ् प्रत्ययो भवति। बाष्पम् उद्वमति बाष्पायते। ऊष्मायते। फेना च्चेति वक्तव्यम्। फेनम् उद्वमति फेनायते।
`फेनाच्चेति वक्तव्यम्` इति। फेनशब्दाद्वमनेऽर्थे वत्र्तमानात् क्यङ भवतीत्येतदर्थरूपं व्याख्येयम्। व्याख्यानं तु-- `भृशादिभ्यः` 3|1|12 इत्यतः सूत्राच्चकारमनुक्तसमुच्चयार्थमनुवर्त्त्य कत्र्तव्यम्॥करणशब्देनात्र क्रियोच्यते, न साधकतमम्। यस्मात् `कर्मणः` 3|1|15 इत्यधिकाराच्छब्दादिभ्यः कर्मभ्य एव प्रत्ययेन भवितव्यम्। तत्र यदि साधकतमे प्रत्ययः स्यात् प्रकृतिप्रत्ययावसम्बद्धौ स्याताम्, क्रियापेक्षत्वाच्च कर्मत्वस्य क्रियाया अभावे कर्मत्वं न स्यात्। तस्मात् क्रियावचन एव करणशब्दं निश्चित्याह-- `करणे करोत्यर्थे`इति।`सुदिन` इत्यादि। सुदिनादिभ्यः कर्मभ्यः करमए करोत्यर्थे क्यङप्रत्ययो भवति#ईत्येतदर्थरूपं व्याख्येयम्। व्याख्यानं तु-- इहापि तमेवानुक्तसमुच्चयार्थ चकारमनुवर्त्त्य कत्र्तव्यम्। अत एवानुक्तसमुच्चयार्थाच्चाकारादटादीनामपि ग्रहणम्। तेनटायत इत्याद्यपि सिद्धं भवति।`अटाट्ट` इत्यादि। अटादीनां ग्रहणमुपादानमित्यर्थः। अयञ्च `तत्करोति` (वा।200) इति णिचि प्राप्त आरम्भः; सोऽपीष्यते-- शब्दयति, वैरयतीति। तस्मादेतदर्थापि चकारानुवृत्तिर्वेदितव्या॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
आभ्यां कर्मभ्यां क्यङ् स्यात् । बाष्पमुद्वमति बाष्पायते । ऊष्मायते ॥ ।फेनाच्चेति वाच्यम् (वार्तिकम्) ॥ फेनायते ॥
बाष्पोष्माभ्यां उद्वमने - बाष्पोष्मभ्यामुद्वमने । आभ्यां कर्मभ्यामिति ।कर्मणो रोमन्थे॑त्यतः कर्मकारकवृत्तिभ्यामित्यर्थः । फेनायते इति । फेनमुद्वमतीत्यर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
बाष्पोष्मभ्यामुद्वमने (633) (314 क्यङ्प्रत्ययविधिसूत्रम्।। 6।1।2 आ. 8 सूत्रम्) (1754 न्यूनतापूरकवार्तिकम्।। 1 ।।) - फेनाच्च- (भाष्यम्) फेनाच्चेति वक्तव्यम्। फेनायते। बाष्पो।। 16 ।।