Page loading... Please wait.
6|4|20 - ज्वरत्वरश्रिव्यविमवामुपधायाश्च
॥ तस्मै पाणिनये नमः ॥
6|4|20
SK 2654
ज्वरत्वरश्रिव्यविमवामुपधायाश्च   🔊
सूत्रच्छेदः
ज्वर-त्वर-स्रिवि-अव-मवाम् (षष्ठीबहुवचनम्) , उपधायाः (षष्ठ्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ज्वर त्वर स्रिवि अव मव इत्येतेषाम् अङ्गानां वकारस्य उपधायाश्च स्थाने ऊट्ः इत्ययम् आदेशो भवति क्वौ परतो ऽनुनासिके झलादौ च क्ङिति। जूः, जूरौ, जूरः। जूर्तिः। त्वर तूः, तूरौ, तूरः। तूर्तिः। स्रिविस्रूः, स्रुवौ, स्रुवः। स्रूतः। स्रूतवान्। स्रूतिः। अव ऊः, उवौ, उवः। ऊतिः। मव मूः, मुवौ, मुवः। मूतः। मूतवान्। मूतिः। ज्वरत्वरोपधा वकारात् परा, स्रिव्यवमवां पूर्वा।
रिउआव्यविमवां वकारसय पूर्णेणैव सिद्धम्। उपधायास्तु न सिध्यतीति तदर्थमेषां ग्रहणम्। ज्वरत्वरयोस्तु वकारस्यापि पूर्वेण न सिध्यति; अनयोरकाररेफाभ्यां झलादेः क्विपश्च व्यवधानात्। तस्मात्? तयोर्वकारार्थमुपधार्थञ्च ग्रहणम्। `जूः, जुरौ, जुरः` इति। `ज्वर रोगे` (धातुपाठः-776) वकारस्योपधायाश्चोठि कृते `सम्प्रसारणाच्च` 6|1|104 इति पूर्वरूपत्वम्। `जर्त्तिः` इति। क्तिन्। `तूः` इति। `ञि त्वरा सम्भ्रमे` (धातुपाठः-775) `तूर्णः`[`तूर्त्तिः--काशिका-`तूर्णः` इति नास्ति] इति। `रदाब्यां निष्ठातो नः` 8|2|42 इति नत्वम्। `स्रूः इति। `रिउआवुगतिशोषणयोः` (धातुपाठः-1109)। सवरणदीर्घः। `रुआउवौ, रुआउवः` इति। `अचि श्नुधातु` 6|4|77 इत्यादिनोवङ। `ऊः` इति। `अव रक्षणे` [रक्षण कान्तिप्रीतितृपत्यवगमप्रवेशश्रवणस्वणस्वम्यर्थयाचनक्रियेच्छादीप्त्यवापत्यालिङ्गनहिंसादानभागवृद्धिषु--धा।पा] (धातुपाठः-600)। `मूः` इति। `मव बन्धने` (धातुपाठः-599)।इह ज्वरादिसम्बन्धिन्या उपदाया ऊङ्विधीयते, उपधा चालोऽन्त्यात्पूर्वो वर्णः, अन्त्यत्वञ्चापेक्षितम्; तत्र यथा--श्रेयान्, श्रेयांसावित्यत्र सकारात्? पूर्वे ये वर्णास्तेषामन्त्यो यो नकारस्तस्मात्? पूर्वो वर्ण उपदा, तथा ज्वरादीनामपि यो पूर्वौ वर्णौ तयोर्योऽन्त्यो वर्णस्तस्मात्? पूर्व उपधा, सा च ज्वरादीनां सम्बन्धिनी; तदवयवत्वात्, ततश्च तस्या अप्युपदाया ऊठा भवितव्यमिति कस्याचित्? भ्रान्तिः स्यात्। अतस्तां निराकर्तुं यस्या उपदाया ऊठा भवितव्यं तां दर्शयितुमाह--`ज्वरत्वरयोरुपधा वकारात्परा` इत्यादि। यस्या उपधाया ऊठा भवितव्यम्, सोहोपधाशब्देन विवक्षिता। किं पुनः कारणस्या वृत्तिकारोपदर्शिताया उपधाया ऊङ्भवति, नान्यस्याः? क्वझल्भ्यां क्ङिता चोपधाविसेषणात्। अत्र क्विप्प्रत्ययेन झलादिना क्ङिता चोपधा विशिष्यते--ज्वरादीनां योपधा क्वौ झलादौ च परतस्तस्या उपधाया ऊङ्भवतीति। अत्र `येन नाव्यवधानं तेन व्यवहितेऽपि` (व्या।प।46) इत्यादिना यत्रैकेन वर्णेन व्यवधानं वृत्तिकारेणोक्ताया उपदायाः सम्भवति, तस्या एवोङ्भवति,
ज्वर रोगे, ञित्वरा सम्भ्रमे, स्त्रिवु गतिशोषणयोः, अव रक्षणे, मव बन्धने । ज्वरत्वरेत्यादि । वस्तुकथनम् ॥
सिद्धान्तकौमुदी
ज्वरादीनामुपधावकारयोरूठ् स्यात् क्वौ झलादावनुनासिकादौ च प्रत्यये । अत्र क्ङितीति नानुवर्तते । अवतेस्तुनि कृते ओतुरिति दर्शनात् । अनुनासिकग्रहणं चानुवर्तेते । अवतेर्मन्प्रत्यये तस्य टिलोपे ओमिति दर्शनात् । ईडभावे ऊठि पिति गुणः । मामोति । मामवीति । मामूतः । मामवति । मामोषि । मामोमि । मामावः । मामूमः । मामूहि । मामवानि । अमामोत् । अमामोः । णमामवम् । अमामाव । अमामूम । तुर्वी हिंसायाम् । तोतूर्वीति ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
ज्वरत्वरश्रिव्यविमवामुपधायाश्च - ज्वर रोगे । ञित्वरा संभ्रमे । अत्र वृत्तौझलादौ क्ङिती॑त्युक्तं तत्र क्ङितीत्येतद्रभयसकृतमेवेत्याह — क्ङितीति नानुवर्तत इति । अवतेस्तुनीति ।ज्वरत्वरे॑त्युपधावकारयोरूठि गुणे च कृते मन्प्रत्ययस्य टिलोपे चोमिति सिध्यतीत्यर्थः । ज्वरादेरुदाहरणं क्विपि जूः । जुरौ । जुरः । झलादौ तु — जूर्तिः । जूर्णः । जूर्णवान् । त्वर — तूः । तुरौ । तुरः । तूर्तिः । तूर्णः । तूर्णवान् । रिउआवि- स्रूः । रुआउवौ । रुआउवः । रुआऊतिः । अवि — ऊः । उवौ । उवः ।ऊतिः । मव — मूः । मुवौ । मूतः । मूतिः । मामोषीत्यादि । ईट्पक्षे मामवीषि । मामवीमि । मामवीतु । अमामवीत् । अमामवीरिति बोध्यम् । राल्लोपः ।च्छ्वोः शू॑डित्तश्च्छ्वोरित्यनुवर्तते । क्वावुदाहरणं — तूः । तुरौ तुरः । धुर्वी — धूः । धुरौ । धुरः । मुच्र्छा — मूः । मुरौ । मुरः ।
लघुसिद्धान्तकौमुदी
एषामुपधावकारयोरूठ् अनुनासिके क्वौ झलादौ क्ङिति॥ अतः क्विप्। जूः। तूः। स्रूः। ऊः। मूः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.