`तद्धितेष्विति निवृत्तम्` इति। अस्वरितत्वात्। `तत्सम्बद्धं कितीत्यपि` इति। निवृत्तमित्यपेक्षते। तत्सम्बद्धत्वं पुनस्तस्य `किति च`
7|2|118 इत्यत्र `तद्धितेषु`
7|2|117 इत्यनुवृत्तेः। यदि पुनः कितीत्यनुवत्र्तत, ततो लक्षणे `जायापत्योष्टक्`
3|2|52 `अमनुष्यकर्त्तृके च`
3|2|53 इति टकि कृते--जायाध्नस्तिलकालक इत्यत्रापि स्यात्। ञ्णिद्ग्रहणं तु प्रत्ययमात्रेण सम्बद्धम्। अतः `तद्धितेषु`
7|2|117 इत्येतस्मिन्? निवृत्तेऽपि तदनुवत्र्तत एव। `घातयति` इति। हेतुमण्णिच्। `हौ हन्तेर्ञ्णिन्नेषु`
7|3|54 इति कृत्वम्। `घातकः` इति। ण्दुल। `साधुघाती` इति। `सुप्यजातौ णिनिस्ताच्छील्ये`
3|2|78 इति णिनिः। `घातंघातम्` इति। `आभीक्ष्ण्ये णमुल्? च`
3|4|22 , `आभीक्ष्ण्ये द्वे भवतः` (वा।887) इति द्विर्वचनम्। `घातः` इति। भादे घञ्?
3|3|18 । `अधानि` इति। लुङ्, `चिण्? भावकर्मणोः`
3|1|66 इति चिणादेशश्च; `भावकर्मणोः
1|3|13 इत्यात्मनेपदम्, `चिणो लुक्`
6|4|104 इति तकारस्य लुक्। `जघान` इति। लिट्, तिप्, तस्य णल्, `अभ्यासाच्च`
7|3|55 इति कुत्वम्-घकारः। अथेह कस्मान्न भवति--वृत्रं हतवानिति। `ब्राहृभ्रूणवृत्रेषु क्विप्`
3|2|87 , तदन्तात्? `तस्येदम्`
4|3|120 इत्यण्, `षपूर्वहन्धृतराज्ञामणि`
6|4|135 इत्यल्लोपः--वात्र्रध्नः, भ्रौणध्नः? इत्याह--`धातोः` इत्यादि। धातोरित्येवमुच्यार्य यो विहितः प्रत्ययः स धातुप्रत्ययः। धातौः कार्यमुच्यमानं तत्रैव धातुप्रत्यये भवति। एतच्च भौणहत्यमिति निपातनेन
6|4|174 ज्ञापितम्। तेन वात्र्रध्नः, भ्रौणध्न इत्यादौ न भवति। न ह्रत्र धातोरित्येवं प्रत्ययो विहितः, किं तर्हि? प्रातपदिकादित्त्येवम्॥