Page loading... Please wait.
7|3|80 - प्वादीनां ह्रस्वः
॥ तस्मै पाणिनये नमः ॥
7|3|80
SK 2558
प्वादीनां ह्रस्वः   🔊
सूत्रच्छेदः
प्वादीनाम् (षष्ठीबहुवचनम्) , ह्रस्वः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
पू इत्येवम् आदीनां ह्रस्वो भवति शिति परतः। प्वादयः क्र्यादिषु पठ्यन्ते। पूञ् पवनित्यतः प्रभृति प्ली गतौ वृतिति यावत् केचितिच्छन्ति, वृत्करणम् एतत् ल्वादीनां प्वादीनां च परिसमाप्त्यर्थम् इति। अपरे तु ल्वादीनाम् एव परिसमाप्त्यर्थं वृत्करणम् एतदिच्छन्ति, आगणान्ताः प्वादयः इति। पूञ् पुनाति। लूञ् लुनाति। स्तृ̄ञ् स्तृणाति। येषाम् आगणान्ताः प्वादयः तेषां जानाति इत्यत्र ह्रस्वः प्राप्नोति, ज्ञाजनोर् जा 7|3|79 इति दीर्घकरणसामर्थ्यान् न भवति। जनेरपि हि जादेशे सति अतो दीर्घो यञि 7|3|101 इति दीर्घत्वेन जायते इति सिध्यति।
`व्ली गतौ वृदिति यावत्? केचिदिच्छन्ति` इति। तेषां ततः परेण पठितयोः `व्री वरणे` (धातुपाठः-1504), `भ्री भये` (धातुपाठः-1505)--इत्येतयोह्र्यस्वत्वेन न भवितव्यम्--व्रीणाति, भ्रीणातीति। ननु ल्वादीनां परिसमाप्त्यर्थं तद्वृत्करणम्, अन्यथा आ गणान्तात्? तेभ्यो निष्ठानत्वं स्यात्, ल्वादिपरिसमाप्त्यर्थे च तस्मिन्नागणान्ताः प्वादयो युक्ताः? इत्यत आह--`वृत्करणम्` इत्यादि। न ह्रुभयगणपरिसमाप्त्यर्थता केनचिद्विरुध्यत इत्यभिप्रायः।`अपरे` इत्यादि। ल्वादेर्गणस्यानन्तरत्वात्? तत्परिसमाप्त्यर्थतैव वृत्करणस्य युक्तेति भावः। तेषामेवमिच्छतां व्री वरणे, भ्रो भये--इत्येतयोरपि भवितव्यं ह्यसवत्वेन व्रिणाति, भ्रिणातोति; प्वादिषूभयोरन्तर्भावात्। `जानातीत्यत्र ह्यस्वः प्राप्नोति` इति। तल्याप प्वाद्यन्तर्भावादित्याह--`ज्ञाजनोर्जा` इत्यादि। यदि `जा` इत्यादेशे कृते ह्यसवः स्यात्? तदा दीर्घोच्चारणमनर्थकं स्यात्, `ज` इत्येवं ब्राऊयात्। तस्मात्? दीर्घोच्चारणसामथ्र्यज्जानातीत्यत्र ह्यस्वो न भविष्यति। ननु च दीर्घोच्चारणं जन्यर्थं स्यात्, न हि जनेर्ज इत्यादेशे कृते जायत इति रूपं सिध्यति? इत्यत आह--`ज इत्यपि ह्रादेशे कृते` इत्यादि। येषान्तूभयगणपरिसमाप्त्यर्थं वृत्करणं तेषां किमर्थं जा इति दीर्घोच्चारणम्? जानातीत्यत्र दीर्घो यथा स्यात्? नैतदस्ति; `अतो दीर्घो यञि` 7|3|101 इति दीर्घो भविष्यति? ननु च `अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य` (व्या।प।38) इति न प्राप्नोति? नैतदस्ति; `निष्ठितस्य` इत्युच्यते, न च ज इत्यादेशे कृते निष्ठितमङ्गं भवति; अप्रयोगार्हत्वात्। प्रतिपत्तिलाघवार्थं दीर्घोच्चारणम्॥
प्वादयः र्क्यादौ पठ।ल्न्त इति । ये तु भूवादौ पठ।ल्न्ते---ठ्पूञ् पवनेऽ इत्यादयः, तेषां ग्रहणं न भवति, कतिपये हि तत्र ह्रस्वभाविनः, तेषामपि शपि गुणेन भवितव्यम् । किञ्च---क्रैयादिकस्य जानातेर्ह्रस्वनिवृत्यर्थं पूर्वसूत्रे दीर्घोच्चारणम्, तदपि क्रैयादिकानां ग्रहणे प्रमाणम् । वृत्करणमित्यादि । न ह्युभयार्थत्वे वृत्करणस्य कश्चिद्भार इति भावः । अपरे त्विति । ल्वादीनामनन्तरत्वादिति भावः । तथा ठ्द पूरणेऽ, ठ्द भयेऽ---इत्येतयोरपि वृत्करणात् परस्तात्पठितयोरपि ह्रस्वो भवति---यः पृणाति स ह देवेषु गच्छति, पृणीयादिन्नाधमानाय, पृणन्तं च पपुरिं श्रस्यव, आदृणातीति । पूर्वस्मिन्पक्षे ह्रस्वान्तावेतौ पठन्ति । चोदयति---येषामिति । आगता गणान्तमागणान्ताः, परिहरति--ज्ञाजनीर्जा इति । यदि जानातीत्यत्र ह्रस्वत्वं स्यात्, ह्रस्वान्तमेवादेशं विदध्यात् । ननु चान्यार्थं दीर्घान्तादेशविधानं स्यात्, न ह्यन्यथा---जायते इति सिद्ध्यति ? अत आह--ज इत्यपीति । ह्रस्वान्तादेशविधानेऽपि ठतो दीर्घो यञिऽ इति दीर्घत्वे---जायते इति सिद्धम्, तत्र हि ठ्तुरुस्तुशम्यमः सार्वधातुकेऽ इत्यतः सार्वधातुकग्रहणमनुवर्तते, न पुनः ठ्तङ्ऽ ईति । अत एव ठाने मुक्ऽ पूर्वान्तः कृतो न परादिः; दीर्घप्रसङ्गात् । ये तर्हि वृत्करणमुभयव्यावृत्यर्थं वर्णयन्ति, तेषां दीर्घोच्चारणं किमर्थम् ? जानातीत्यत्र दीर्घो यथा स्यात् । ठतो दीर्घो यञिऽ इत्येव दीर्घो भविष्यति । न सिध्यति; ठङ्गवृते पुनर्वृतावविधिर्निष्ठितस्यऽ न जादेशमात्रेण निष्ठितमङ्गं भवति । तत्रेदं दीर्घोच्चारणमेव लिङ्गम्--आगणान्ताः ष्वादय इति ॥
सिद्धान्तकौमुदी
शिति परे । पुनाति । पुनीते । पविता । 1484 लूञ् छेदने । लुनाति । लुनीते । 1485 स्तॄञ् आच्छादने स्तृणाति । स्तृणीते । तस्तार । तस्तरतुः । स्तरिता । स्तरीता । स्तृणीयात् । स्तृणीत । आशिषि । स्तीर्यात् । लिङ्सिचोः (कौमुदी-2528) इति वेट् न लिङि (कौमुदी-2529) वॄत इटो लिङि दीर्घो न स्यात् । स्तरिषीष्ट । उश्च (कौमुदी-2368) इति कित्त्वम् । स्तीर्षीष्ट । सिचि च परस्मैपदेषु (कौमुदी-2392) इति न दीर्घः । अस्तारीत् । अस्तारिष्टाम् । अस्तरिष्ट । अस्तरीष्ट । अस्तीर्ष्ट । 1486 कॄञ् हिंसायाम् । कृणाति । कृणीते । चकार । चकरे । 1487 वृञ् वरणे । वृणाति । वृणीते । ववार । ववरे । वरिता । वरीता । आशिषि उदेष्ठ्यपूर्वस्य (कौमुदी-2494) वूर्यात् । वरिषीष्ट । वूर्षीष्ट अवारीत् । अवारिष्टाम् । अवरिष्ट । अवरीष्ट । अवूर्ष्ट । 1488 धूञ् कम्पने । धुनाति । धुनीते । दुधविथ । दुधोथ । दुधुविव । धोता । धविता । स्तुसुधूञ्भ्यः--(कौमुदी-2385) इतीट् । अधावीत् । अधविष्ट । अधोष्ट ॥ अथ बध्नात्यन्ताः परस्मैपदिनः । 1489 शॄ हिंसायाम् । शॄदॄप्रां ह्रस्वो वा (कौमुदी-2495) इति ह्रस्वपक्षे यण् । अन्यदा ऋच्छत्यॄताम् (कौमुदी-2383) इति गुणः । शश्रतुः । शशरतुः श्र्युकः किति (कौमुदी-2381) इति निषेधस्य क्रादिनियमेन बाधः । शशरिव । शश्रिव । शरिता । शरीता । शृणीहि । शीर्यात् । अशारिष्टाम् । 1490 पॄ पालनपूरणयोः । पप्रतुः । पपरतुः । आशिषि । पूर्यात् । 1491 वॄ वरणे । भरण इत्येके । 1492 भॄ भर्त्सने । भरणेप्येके । 1493 मॄ हिंसायाम् । मृणाति । ममार । 1494 दॄ विदारणे । ददरतुः । दद्रतुः । 1495 जॄ वयोहानौ । झॄ इत्येके । धॄ इत्यन्ये । 1496 नॄ नये 1497 कॄ हिंसायाम् 1498 ॠ गतौ । ऋणाति । अरांचकार । अरिता । अरीता । अर्णात् । अर्णीताम् । ईर्यात् । आरीत् । आरिष्टाम् । 1499 गॄ शब्दे 1500 ज्या वयोहानौ । ग्रहिज्या (कौमुदी-2412)
प्वादीनां ह्रस्वः - प्वादीनां ह्यस्वः ।ष्ठिवुकलमुचमा॑मित्यः शितीत्यनुवर्तत इत्यभिप्रेत्य शेषं पूरयति — शिति परे इति । पवितेति । ऊकारान्तत्वात्सेडिति भावः । स्तृञ् आच्छादने । सेट् । तस्तरतुरिति । कित्त्वेऽपिऋच्छत्यृता॑मिति गुणः । स्तरिता स्तरीतेति ।वृतो वा इति दीर्घविकल्पः । आशिषि स्तीर्यादिति ।ॠत इद्धातो॑रिति इतत्वे रपरत्वेहलि चे॑ति दीर्घः । स्तृ - षीष्ट इति स्थिते आह — लिङ्सिचोरिति वेडिति । "वृतो वा" इति दीर्घविकल्पनिषेधसूत्रं स्मारयति - न लिङीति । वृत इटो दीर्घो नेत्यर्थः । इडभावपक्षे स्तृषीष्टेत्यत्र गुणमाशङ्क्याह — उश्चेति कित्त्वमिति । लुङि परस्मैपद सिचि अस्तरिष्टामित्यत्रवृतो वे॑ति इटो दीर्घविकल्पे प्राप्ते आह — सिचि चेति । अस्तरीष्ट अस्तरिष्टेति ।वृतो वे॑ति दीर्घः । अस्तीष्र्टति ।लिङ्सिचो॑रिति इडभावपक्षे ऋत इत्त्वेहलि चे॑ति दीर्घ इति भावः । कृञ् हिंसायाम् ।चकरे इति ।ऋच्छत्यतृता॑मितिगुणः । वृरञ् वरणे इति । आशिषीति । वृ यात् इति स्थितेउदोष्ठपूर्वस्ये॑ति ऋकारस्य उत्त्वमित्यर्थः, तत्र दन्त्योष्ठपूर्वस्यापि ग्रहणादिति बावः । ॠत उत्त्वे रपरत्वेहलि चे॑ति दीर्घ इति बोद्ध्यम् । वरिषीष्ट पूर्षीष्टेति ।लिङ्सिचो॑रिति वेट् । इडभावेउश्चे॑ति कित्त्वाद्गुणाऽभावे उत्त्वे रपरत्वेहलि चे॑ति दीर्घ इति भावः । अवारिष्टामिति ।सिचि चे॑ति इटो न दीर्घ इति भावः । अवरिष्ट अवरीष्टेति ।वृतो वा॑इति सिच इटो दीर्घविकल्प इति भावः । दुधविथ — दुधीथेति ।स्वरतिसूतिसूयतिधूञूदितः॑इति वेडेति भावः । श हिंसायाम् । सेट् । णलि — शशार । श अतुस् इत्यत्र कित्त्वेऽपिऋच्छत्यृता॑मिति नित्ये गुणे प्राप्ते आह — शृदृप्रामिति । गुणाऽपवादे पाक्,िके ह्यस्वे कृते ऋकारस्य यणि रेफ इत्यर्थः । शशरिथ । पृधातुरपि शृधातुवत् । आशिषि पूर्यादिति ।उदोष्ठऊपूर्वस्ये॑त्युत्त्वमिति भावः । दृ विदारणे ।शृदृप्रा॑मिति हस्र्वविकल्पं मत्वाह — ददरतुः दद्रतुरिति । ऋ गतौ । अरांचकारेति । व्यपदेशिवत्त्वेन गुरुमत्त्वादाम् । लङ्याह — आर्णादिति । ज्या वयोहानौ । अनिट् । ज्या ना तीति स्थिते "ग्रहिज्ये" ति संप्रसारणे पूर्वरूपे च जिनातीति स्थिते —
प्वादीनां ह्रस्वः - प्वादीनां ह्यस्वः ।ष्ठिवुक्लमुचमा॑मित्यतः शितीत्यनुवर्तत इत्याह — शिति पर इति । न लिङीति । अनेन वृत इटो लिङि दीर्घो नेति स्मारितम् । उदोष्ठ । दन्तोष्ठओऽपि ओष्ठग्रहणेन गृह्रत इत्याह — वूर्यादिति । वरिषीष्टेति ।लिङ्सिचोरात्मनेपदेषु॑ इति वेट् । वूर्षीष्ट । अवूर्ष्टेति ।उश्चे॑ति लिङ्सिचोः कित्त्वाद्गुणाऽभावे सत्युत्वम् ।
लघुसिद्धान्तकौमुदी
पूञ् लूञ् स्तॄञ् कॄञ् वॄञ् धूञ् शॄ पॄ वॄ भॄ मॄ दॄ जॄ झॄ धॄ नॄ कॄ ॠ गॄ ज्या री ली व्ली प्लीनां चतुर्विंशतेः शिति ह्रस्वः। पुनाति, पुनीते। पविता॥ लूञ् छेदने॥ 12॥ लुनाति, लुनीते॥ स्तॄञ् आच्छादने॥ 13॥ स्तृणाति। शर्पूर्वाः खयः। तस्तार। तस्तरतुः। तस्तरे। स्तरीता। स्तरिता। स्तृणीयात्, स्तृणीत। स्तीर्यात्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.