Page loading... Please wait.
8|3|77 - वेः स्कभ्नातेर्नित्यम्
॥ तस्मै पाणिनये नमः ॥
8|3|77
SK 2556
वेः स्कभ्नातेर्नित्यम्   🔊
सूत्रच्छेदः
वेः (पञ्चम्येकवचनम्) , स्कभ्नातेः (षष्ठ्येकवचनम्) , नित्यम् (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108 अपदान्तस्य मूर्धन्यः  8|3|55 इण्कोः  8|3|57
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वेः उत्तरस्य स्कभ्नातेः सकारस्य नित्यं मूर्धन्यादेशो भवति। विष्कभ्नाति। विष्कम्भिता। विष्कम्भितुम्। विष्कम्भितव्यम्।
`विष्कम्भिता` इति। `स्तन्मभुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च` 3|1|82 इति सूत्रे पाठात्? सौत्रोऽयं धातुरषोपदेशः। तत्सकारस्याप्राप्त एव मूर्धन्यो विधौयते वेरुत्तरस्य। नित्यग्रहणं विकल्पनिवृत्त्यर्थम्। श्तिपा निर्देशस्य पूर्ववदेव प्रयोजनम्॥
स्कम्भिः सौत्रो धातुः ॥
सिद्धान्तकौमुदी
वेः परस्य स्कभ्नातेः सस्य षः स्यात् । विष्कभ्नोति । विष्कभ्नाति । स्कुभ्नोति । स्कुभ्नाति ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
वेः स्कभ्नातेर्नित्यम् - वेः स्कभ्नातेर्नित्यम् ।सिवादीनां वे॑त्यतो वेति नानुवर्तते इति ध्वननार्थमिह नित्यग्रहणम् । विस्कभ्नोतीति ।स्कभ्नाते॑रित्यत्र श्नाविशिष्टं रूपं न विवक्षितं किं तु धातुमात्रम्, अन्यथा विष्कम्भिता विष्कम्भितमित्यादावपि षत्वं न स्यात् । न चेष्टापत्तिः, माधवादिग्रन्थविरोधादिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.