रमयं यदि रेफोपधयोः स्थाने स्यात्? मित्त्वमनर्थकं स्यात्? अथायं रमागमोऽचोऽन्यात्? परो भवति रेफोपधयोः अवणमापद्येत? इत्येतच्चोद्यमाशङ्क्याह--`रोपधयोः` इत्यादि। मित्त्वाद्रमनेनावश्यमचोऽन्त्यात्? परेण भवितव्यम्, अन्यथा तदनर्थकं स्यात्। तत्र यदि रेफोपधयोः श्रवणं स्यात्? `रोपधयोः` इति षष्ठीनिर्देशोऽनर्थकः स्यात्। तस्मात्? षष्ठीनिर्देश एव तयोर्निवृत्तिमाचष्टे। तस्या ह्रेतदेव प्रयोजनम्--षष्ठआ निर्दिरुयमानस्य यो धर्मो निवृत्तिः, सा यथा स्यात्। न ह्रन्यत्? षष्ठीनिर्देशस्य प्रयोजनमस्ति। तस्मान्मित्त्वादचोऽन्त्यापरो भवति रम। षष्ठीनिर्देशसामथ्र्याद्? रेफोपधे स्थानिधर्मनिवृतिंत प्रतिपद्येते। `भ्रष्टा` इति। `भ्रस्ज पाके` (धातुपाठः-1284) व्रश्चादिसूत्रेण
8|2|36 षत्वम्। `भ्रज्जनम्` इति। सकारस्य जश्त्वम्--दकारः, तस्यापि श्चुत्वम्--जकारः। अथेह कस्मान्न भवति--भृष्टः, भृष्टवान्? इत्याह--`भृष्टः, भृष्टवान्` इत्यादि। रमोऽवकाशः--भर्ष्टा, भ्रष्टाः सुम्प्रसारणस्यावकाशः--`भृज्जति` इति, इहोभयं प्राप्नोति--भृष्टा, भृष्टवानिति, ग्रह्रादिसूत्रेण
6|1|16 सम्प्रसारणमेव भवति पूर्वविप्रतिषेधेन। पूर्वविप्रतिषेधश्चेष्टवाचित्वात्? परशब्दस्य लभ्यते। `बरीभृज्यते` इति। यङ्। `रीगृदुपधस्य`
7|4|90 इति रोगागमः। `अत्र उपदेश`
6|4|45 इत्यतो हि यदन्तरस्यांग्रहणं प्रकृतं, तत्? सनादिसम्बद्धम्, इह च सनादेर्निवृत्तिः। अतस्तन्निवृत्तौ तस्यापि निवृत्तिराशङ्क्येत। अनन्तरयोगस्य चान्यार्थत्वात्, तत्रान्यतरस्यांग्रहणस्य प्रयोजनाभावात्। अथ भ्रस्जो भर्जेत्येवं कस्मान्नोक्ततम्? अशक्यमेवं वक्तुम्। एवं ह्रुच्यमाने `प्रकृतिग्रहणे यङलुगन्तस्यापि ग्रहणं भवति` (व्या।प।77) इति यङ्लुगन्तादार्थधातुक उत्पन्ने सत्यभ्यासस्य भ्रस्जो भर्ज्जादेशः स्यात्? नैष दोषः; उपदेशग्रहणेन भ्रज्जिं विशेषयिष्यामः--`उपदेश यो भ्रज्जिः` इति। श्तिपा निर्देशोऽत्र वा करिष्यते--भृज्जतेर्भजं इति; तेन यङःलुगन्तस्य ग्रहणं न भविष्यति। एतमपि `भुज्जयते` इत्यत्र प्राप्नोति, भवति ह्रत्रोपदेशे भ्रस्जिरिति? नैतदस्ति; अत्र हि पूर्वविप्रतिषेधात्? सम्प्रसारणेन भवितव्यम्, यथा--भृष्ट इत्यत्र। एवं तर्हि वैचित्र्यार्थ तथा नोक्तम्॥