Page loading... Please wait.
7|2|42 - लिङ्सिचोरात्मनेपदेषु
॥ तस्मै पाणिनये नमः ॥
7|2|42
SK 2528
लिङ्सिचोरात्मनेपदेषु   🔊
सूत्रच्छेदः
लिङ्‍सिचोः (सप्तमीद्विवचनम्) , आत्मनेपदेषु (सप्तमीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वृ̄तो लिङि सिचि च आत्मनेपदपरे वा इडागमो भवति। वृषीष्ट, वरिषीष्ट। प्रवृषीष्ट, प्रावरिषीष्ट। आस्तरिषीष्ट, आस्तीर्षीष्ट। सिचि खल्वपि अवृत, अवरिष्ट, अवरीष्ट। प्रावृत, प्रावरिष्ट, प्रावरीष्ट। आस्तीर्ष्ट, आस्तरिष्ट, आस्तरीष्ट। आत्मनेपदेषु इति किम्? प्रावारिष्टाम्। प्रावारिषुः। लिङः प्रत्युदाहरणं न दर्शितम्, असम्भवात् यासुटो ऽवलादित्वातिति।
वृत उदात्तत्वादिटि प्राप्ते विकल्पार्थ आरम्भः। `आत्मनेपदेषु` इति परसपतमीयम्। सिचश्चैतद्वि शेषणम्। यद्येवम्, लिङ्? विशेषितो न स्यात्, ततश्च लिङ्? परस्मैपदेष्वपि प्रसज्येत? नैतदस्ति; `वलादेः` 7|2|35 इत्यधिकारात्, लिङ्श्च परस्मैपदेषु यासुडादित्वाभावात्। `आत्मनेपदपरे` इति। आत्मनेपदं परं यस्मात्? स तथोक्तः। एतच्च सिजित्यनेनैव सम्बध्यते, न लिङित्यनेम; सिचमेव प्रत्यात्मनेपदग्रहणस्य विशेषणभावात्। `वृषीष्ट` इति। `उश्च` 1|2|12 इति कित्त्वाद्गुणाभावः। `आस्तीर्षीष्ट`इति। पूर्ववत्? कित्त्वदीर्घत्वादिः। `अवृत` इति। `ह्यस्वादङ्गात्` 8|2|27 इति सिचो लोपः॥
आत्मनेपदे परे इति । सिच एवैतद्विशेषणम्, न लिङ्ः, असम्भवात् । न चैवं तस्य परस्मैपदेऽपि प्रसङ्गः वलादेः इत्यधिकारात् । प्रावृषीष्टेत्यादौ उश्च इति कित्वम् ॥
सिद्धान्तकौमुदी
वृङ्वृञ्भ्यामॄदन्ताच्च परयोर्लिङ्सिचोरिड्वा स्यात्तङि ॥
लिङ्सिचोरात्मनेपदेषु - ॒इट् सनि वा॑ इत्यत इड्वेत्यनुवर्तते ।वृतो वे॑त्यतो "वृत" इति । तदाह — वृङ्वृञ्भ्यामित्यादिना ।
लिङ्सिचोरात्मनेपदेषु - लिङ्सिचोः ।वृत इत्यनुवर्तते । आत्मनेपदेषु किम् । अवारीत् । अवारिष्टाम् । अवारिषुः ।सिचि च परस्मैपदेषु॑ इति निषेधादिहवृतो वे॑ति न दीर्घः ।
लघुसिद्धान्तकौमुदी
वृङ्वृञ्भ्यामॄदन्ताच्च परयोर्लिङ्सिचोरिड् वा स्यात्तङि॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.