Page loading... Please wait.
8|4|36 - नशेः षान्तस्य
॥ तस्मै पाणिनये नमः ॥
8|4|36
SK 2518
नशेः षान्तस्य   🔊
सूत्रच्छेदः
नशेः (षष्ठ्येकवचनम्) , षान्तस्य (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
न इति वर्तते। नशेः षकारान्तस्य णकारादेशो न भवति। प्रनष्टः। परिनष्टः। षान्तस्य इति किम्? प्रणश्यति। परिणश्यति। अन्तग्रहणं षान्तभूतपूर्वमात्रस्य अपि यथा स्यात्, प्रनङ्क्ष्यति। परिनङ्क्षयति।
`उपसर्गादसमासे` 8|4|14 इत्यादिना प्राप्तस्य णत्वस्य प्रतिषेधः क्रियते। `प्रनष्टः` इति। `णश अदर्शने` (धातुपाठः-1194), तस्मान्निष्ठा, मस्जिनशोर्झलि` 7|1|60 इति नुम्, `अनिदितां हल उपधायाः क्ङिति` 6|4|24 इति नलोपः; व्रश्चादिसूत्रेण 8|2|36 षत्वम्। `प्रणश्यति` इति। दिवादित्वाच्छ्यम्। अथान्तग्रहणं किमर्थम्; यावता `नशेः षः` इत्युच्यमान नशो विशिष्यमाणे `येन विधिस्तदन्तस्य` 1|1|72 इति तदन्तविधौ षान्तस्य णत्वप्रतिषेधो भविष्यति? इत्याह--`अन्तग्रहणम्` इत्याह। `प्रनङ्क्ष्यति` इति। पूर्ववत्? षत्वे `षढोः कः सि` 8|2|41 इति कत्वम्। अत्र यद्यन्तग्रहणं न क्रियेत, कत्वे षान्तता नास्तीति प्रतिषेधो न स्यात्। अस्मस्तु सति कत्वेऽपि कृते भवति। एतदेव हि तस्य प्रयोजनम्--भूतपूर्वेऽपि षान्ते प्रतिषेधो यथा स्यात्॥
प्रनष्ट इति । ठ्मश्जिनशोर्झलिऽ इत्यागतस्य नुमः ठनिदिताम्ऽ इति नलोपः, व्रश्चादिषत्वम् । । नशेरशः । । अशकारान्तस्य नशेरिति वक्तव्यम्, न तु षान्तस्येति, इहापि यथा स्यात्---प्रनङ्क्ष्यतीति, ठ्षढोः कः सिऽ इति कत्वं भवति । ततर्हि तथा वक्तव्यम् ? नेत्याह---अन्तग्रहणमिति । षकारेण नशेर्विशेषणात् ठ्षन्तस्यऽ इति सिद्धे पुनरन्तग्रहणसामर्थ्याद्यः सम्प्रति षान्तो यश्च भूतपूर्वः, तस्य भवति प्रतिषेधः ॥
सिद्धान्तकौमुदी
णत्वं न स्यात् । प्रणंष्टा । अन्तग्रहणं भूतपूर्वप्रतिपत्त्यर्थम् । प्रनङ्क्ष्यति । नशिष्यति । 1195 तृप प्रीणने । प्रीणनं तृप्तिस्तर्पणा च । नाग्निस्तृप्यति काष्ठानाम् । पितॄनतार्प्सीदिति भट्टिः । इत्युभयत्र दर्शनात् । ततर्पिथ । तत्रप्थ । ततर्प्थ । तर्पिता । तर्प्ता । त्रप्ता ॥ स्पृशमृशकृषेति सिज्वा । अतार्प्सीत् । अत्राप्सीत् । अतर्पीत् । अतृपत् । 1196 दृप हर्षमोहनयोः । मोहनं गर्वः । दृष्यतीत्यादि । रधादित्वादिमौ वेट्कावमर्थमनुदात्तता । 1197 द्रुह जिघांसायाम् । वा द्रुहमुह---(कौमुदी-327) इति वा घः । पक्षे ढः । दुद्रोग्ध । दुद्रोढ । दुद्रोहिथ । द्रोहिता । द्रोग्धा । द्रोढा । द्रोहिष्यति । ध्रोक्ष्यति । ढत्वघत्वयोस्तुल्यं रूपम् । अद्रुहत् । 1198 मुह वैचित्ये । वेचित्यमविवेकः । मुह्यति । मुमोहिथ । मुमोग्ध । मुमोढ । मोग्धा । मोढा । मोहिता । मोहिष्यति । मोक्ष्यति । अमुहत् । 1199 ष्णुह उद्गिरणे । स्नुह्यति । सुष्णोह । सुष्णोहिथ । सुष्णोग्ध । सुष्णोढ । सुष्णुहिव । सुष्णुह्व । स्नोहिता । स्नोग्धा । स्नोढा । स्नोहिष्यति । स्नोक्ष्यति । अस्नुहत् । 1200 ष्णिह प्रीतौ । स्निह्यति । सिष्णेह । वृत् । रधादयः समाप्ताः । पुषादधस्तु आ गणान्तादिति सिद्धान्तः । 1201 शमु उपशमे
नशेः षान्तस्य - नशे षान्तस्य ।रषाभ्या॑मित्यतो ण इति, "न भाभूपू" इत्यतो नेति चानुवर्तते इत्यभिप्रेत्य शेषं पूरयति — णत्वं न स्यादिति । षान्तस्येति किम् । प्रणश्यति । भूतपूर्वेति । पूर्वं षकारस्य सत इदानीमादेशवशेन षान्तत्वाऽभावेऽपि णत्वनिषेधप्राप्त्यर्थमन्तग्रहणमित्यर्थः । प्रनङ्क्ष्यतीति । अत्र षस्य कत्वे कृतेऽपि भूतपूर्वगत्या षान्तत्वान्न णत्वमिति भावः । तृप प्रीणने । तृप्तिस्तर्पणं चेति । आद्येऽकर्मकः । द्वितीये सकर्मकः । रधादित्वाद्वेडिति मत्वाह — ततर्पिथ ततर्प्थेति । तत्रप्थेति च ।अनुदात्तस्य चर्दुपधास्ये॑त्यमिति भावः । ततृपिव — ततृप्व.सिज्वेति । पक्षे पुषाद्याङिति भावः । रधादित्वादिड्विकल्पः । तत्र सिचि इट्पक्षे आह — अतर्पीदिति । इडभावपक्षे आह — -अतार्प्सीदिति । रहलन्तलक्षणा वृद्धिरिति भावः ।अनुदात्तस्य चे॑त्यम्पक्षे आह — -अत्राप्सीदिति । पुषाद्यङ्पक्षे आह — अतृपदिति । ङित्त्वान्न गुण इति भावः । दृप हर्षे इति । तृपधातुवत् । ननु रधादित्वादेव वेट्कत्वादनिट्कारिकासु तृप्यतिदृप्यत्योः पाठो व्यर्थ इत्यत आह — रदादित्वादिमौ वेट्कावमर्थमनुदात्ततेति । द्रुह जिघांसायाम् । अनुदात्तत्वाऽभावेऽपि रदादित्वाद्वेट् । तत्र इडभावे आह — वा द्रुहमुहेति । ध्रोक्ष्यतीति ।वा द्रुहे॑ति घत्वपक्षे दकारस्य भषि घस्य चर्त्वे सस्य षत्वे रूपम् । ढत्वपक्षेऽपिषढो॑रिति कत्वे एतदेव रूपम् । तदाह — ढत्वघत्वयोस्तुल्यं रूपमिति । अद्रुहदिति । पुषादित्वादङिति भावः । मुहदातुरनुदात्तत्वाऽभावेऽपि रधादिद्वेट् ।मुमोहिथेति । इट्पक्षे रूपम् । अनिट्पक्षे तुवा द्रुहमुहे॑ति घत्वं मत्वाऽ‌ऽह — मुमोग्धेति । ढत्वपक्षे आह — मुमोढेति । मोक्ष्यतीति । घत्वढत्वयोस्तुल्यं रूपम् । ष्णुह ष्णिहेति । षोपदेशौ । तदाह — - सुष्णोह सिष्णेहेति । थलादावनिट्पक्षेवा द्रुहे॑ति घत्वविकल्पः । पक्षे ढः । इतिरधादयः । आ गणान्तादिति । दिवादिगणसमाप्तिपर्यन्ताः पुषादय इत्यर्थः । सिद्धान्त इति । माधवादिभिस्तथाऽभ्युपगमादिति भावः । उपशमे इति । उपशमो — नाशः, इन्द्रियनिग्रहश्च ।
नशेः षान्तस्य - नशेः ।न बाभूपूकमिगनी॑त्यतो नेत्यनुवर्तते । तदाह — णत्वं न स्यादिति ।षस्ये॑त्युक्तेऽपि पदस्येत्यस्य विशेषणेन षान्तस्येति लाभादन्तग्रहणं व्यर्थं सज्ज्ञापयतीत्याह — - भूतपूर्वेति । काष्ठानामिति । करणस्य शेषत्वविवक्षायां षष्ठी । तत्रप्थेति ।अनुदात्तस्य चर्दुपधस्ये॑ति विकल्पेनाऽमागमः । रधादय इति । रधनशतृपदृपद्रुहमुहष्णुहष्णिह इत्यर्थः । उदित्तवाक्त्वायां वेट् । शमित्वा । शान्त्वा ।यस्य विभाषे॑ति निष्ठायामनिट् । शान्तः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
नशेः षान्तस्य ।। नशेरशः।। नशेरश इति वक्तव्यम्। इहापि यथा स्यात्- प्रनङ्क्ष्यति। परिनङ्क्ष्यति।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। इह पुनर्नशेः(4) ष इतीयता सिद्धं, सोऽयमेवं सिद्धे सति यदन्तग्रहणं करोति तस्यैतत्प्रयोजनं षान्तभूतपूर्वस्यापि यथा स्यात्।।(नशेः षान्तस्य)।।