Page loading... Please wait.
7|3|111 - घेर्ङिति
॥ तस्मै पाणिनये नमः ॥
7|3|111
SK 245
घेर्ङिति   🔊
सूत्रच्छेदः
घेः (षष्ठ्येकवचनम्) , ङिति (सप्तम्येकवचनम्)
अनुवृत्तिः
 सुपि  7|3|102 (सप्तम्येकवचनम्) , गुणः  7|3|108 (प्रथमैकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
घेः अङ्गस्य ङिति सुपि गुणः
सूत्रार्थः
घि-संज्ञकस्य अङ्गस्य ङित्-प्रत्यये परे गुणादेशः भवति ।
ये ह्रस्व-इकारान्त-उकारान्तशब्दाः नदीसंज्ञां न प्राप्नुवन्ति, तेषां शेषो घ्यसखि 1|4|7 अनेन सूत्रेण घिसंज्ञा भवति । यथा - मुनि, साधु आदयः । ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दानाम् (यथा - मति), तथा ह्रस्व-उकारान्तस्त्रीलिङ्गशब्दानाम् (यथा धेनु) अनेनैव सूत्रेण विकल्पेन घि-संज्ञा भवति ।

घिसंज्ञकस्य अङ्गस्य ङित्-प्रत्यये परे (इत्युक्ते ङे / ङसिँ / ङस् प्रत्यये परे) गुणादेशः भवति । इत्युक्ते, इकारस्य एकारः तथा उकारस्य ओकारः आदेशः भवति । यथा -

1) मुनि + ङे
→ मुने + ए [घेर्ङिति 7|3|111 इति गुणः]
→ मुनये [एचोऽयवायावः 6|1|78 इति अयादेशः]

2) साधु + ङसिँ
→ साधो + अस् [घेर्ङिति 7|3|111 इति गुणः]
→ साधोः [ङसिँङसोश्च 6|1|110 इति पूर्वरूप-एकादेशः । विसर्गनिर्माणम् ।]

ज्ञातव्यम् -

1) यद्यपि सप्तम्येकवचनस्य प्रत्ययः ङित्-अस्ति, तथापि तस्मिन् परे अस्य सूत्रस्य अपवादरूपेण अच्च घेः 7|3|119 इत्यस्य प्रसक्तिः भवति । अत्र इदम् सूत्रम् केवलं ङे / ङसिँ / ङस् -प्रत्ययानाम् उपस्थितौ एव प्रयुज्यते ।

2) ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दाः ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दाः ह्रस्व-उकारान्तस्त्रीलिङ्गशब्दाश्च ङिति ह्रस्वश्च 1|4|6 इत्यनेन ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञां प्राप्नुवन्ति । अतः -
(अ) नदीसंज्ञापक्षे तेभ्यः परस्य ङित्-प्रत्ययस्य आण्नद्याः 7|3|112 इत्यनेन आट्-आगमः भवति । अतः मति + ङे = मत्यै इति रूपं सिद्ध्यति । एवमेव पञ्चमी-षष्ठी-एकवचनस्य "मत्याः" रूपमपि सिद्ध्यति ।
(आ) नदीसंज्ञायाः अभावपक्षे तेषाम् शेषो घ्यसखि 1|4|7 इत्यनेन घि-संज्ञा भवति, अतः तेषाम् अङ्गस्य ङित्-प्रत्यये परे घेर्ङिति 7|3|111 इत्यनेन गुणादेश भवति । अतः मति + ङे = मयते इति अपि रूपं सिद्ध्यति । एवमेव पञ्चमी-षष्ठी-एकवचनस्य "मतेः" रूपमपि सिद्ध्यति ।
One-line meaning in English
A घि-संज्ञक अङ्ग gets a गुणादेश in presence of a ङित्-प्रत्यय.
काशिकावृत्तिः
घ्यन्तस्याङ्गस्य ङिति प्रत्यये परतो गुणो भवति। अग्नये। वायवे। अग्नेरागच्छति। वायोरागच्छति। अग्नेः स्वम्। वायोः स्वम्। घेः इति किम्? सख्ये। पत्ये। ङिति इति किम्? अग्निभ्याम्। सुपि इत्येव, पट्वी। कुरुतः।
`सख्ये, पत्ये` इति। सखिपतिशब्दौ घिसंज्ञकौ न भवतः; `शेषो ध्यसखि` 1|4|7 इति पर्युदासात्; `पतिः समास एव` 1|4|8 इति नियमाच्च। `पट्वी` इति। `वोतो गुणवचनात्` 4|1|44 ङीषु। अत्र गुणो न भवति; `सुपि च` 7|3|102 इत्यतः सुपीत्यनुवृत्ते `कुरुतः` इति। करोतेस्तस्, उप्रत्ययः, धातोर्गुणः, रपरत्वम्, `अत उत्? सार्वधातुके` 6|4|110 इत्युत्त्वम्। अत्रापि सुपीत्यनुवृत्तेस्तसि परतो विकरणान्तसय न भवति गुणः॥
ध्यन्तस्याङ्गस्येति । ठ्वर्णमात्रस्य घिसंज्ञाऽ इत्याश्रित्येदमुक्तम् । ठ्तदन्तस्य संज्ञाऽ इत्यत्र तु पक्षे घ्येकदेशे वर्णे घिशब्दो द्रष्टव्यः । एतेन नद्यन्तादिति व्याख्यातम् । सुपीत्येवेति । ठ्सुपि चऽ इत्यतः । पट्वीति । ठ्वातो गुणवचनात्ऽ इति । कुरुत इति । यस्य नदीसंज्ञा नास्ति स सर्वोऽपि घिसंज्ञः, न लिङ्गवदेवेति । कुरुशब्दस्य घिसंज्ञा, तस्य तसि ङिति गुणो न भवति । एतच्च ङ्च्छिब्दे बहुव्रीहिमाश्रित्योच्यते । यदि तु ङ्श्चासाविच्चेति कर्मारयस्तदा नैवात्र प्रसङ्गः, ठ्सार्वधातुकमपित्ऽ इत्यनेन हि बहुव्रीहौ ङितो यित्कार्यं तदतिदिश्यते, न चैतावता तसेण्Çóकार आदिर्भवति ॥
सिद्धान्तकौमुदी
घिसंज्ञकस्य ङिति सुपि गुणः स्यात् । हरये । घेः किम् । सख्ये । ङिति किम् । हरिभ्याम् । सुपि किम् । पट्वी । घेर्ङिती (कौमुदी-245)ति गुणे कृते ॥
घेर्ङिति - घेर्ङिति ।सुपि चे॑त्यतःसुपी॑तिह्यस्वस्ये॑त्यतो "गुण" इति चानुवर्तते । तदाह-घिसंज्ञकस्येत्यादिना । यणोऽपवादः । हरये इति । गुणे यादेशः । सुपि किं पट्वीति ।वोतो गुणवचना॑दिति ङीष् । तस्य ङित्त्वेऽपि सुप्त्वाऽभावात्तस्मिन् परतो न गुण इत्यर्थः । नचघेङी॑त्येव सूत्र्यताम्, इद्ग्रहणं न कर्तव्यम्,यस्मिन् विधि॑रिति परिभाषया ङकारादौ सुपीत्यर्थलाभादिति वाच्यम्, एवं सति "आण्नद्याः" इत्यत्रापि ङीत्येवानुवृत्तौ ङकारादेराम आङ्विधीयेत । ततश्चमत्या॑मित्यत्र आण्न स्यात् । आमो ङादित्वाऽभावात् । नच स्थानिवद्भावेन ङादित्वं शङ्क्यम् । अल्विधित्वात् । स्थानिनो ङेर्ङकारस्य इत्संज्ञालोपाभ्यामपह्मतत्वेन आम्स्थान्यल्त्वाऽभावात्, अनुबन्धानामनेकान्तत्वात् । एकान्तत्वपक्षे ।ञपि अल्ग्रहणेन अनुबन्धस्य ग्रहणं न भवति,अनेकाल्शित्सर्वस्ये॑त्यत्र शिद्ग्रहणाज्ज्ञापकात् । अन्यथा "इदम इ" शित्यादिशितां शकारेणानुबन्धेन सहानेकाल्त्वादेव सिद्धे किं तेन । अतएव तिबाद्यादेशेषु पित्त्वादि सिध्यति । अत एव तिबाद्यादेशेषु पित्त्वादि सिध्यति । अत एवसेह्र्रपिच्चे॑त्यत्र अपिदित्यर्थवत् । अन्यथा पित्कार्यस्याऽल्विध#इत्वात्तत्र स्थानिवद्भावस्यैवाऽप्रसक्त्या हेः पित्त्वस्यैवाऽप्रसक्तौ किं तन्निषेधेन । तदिदं स्थानिवत्सूत्रे शब्देन्दुशेखरे प्रपञ्चितम् । गुणे कृते इति ।ङसिङसो॑रिति शेषः । हरे-अस् इति स्थितेऽपदान्तत्वात्एङः पदान्ता॑दिति पूर्वरूपे अप्राप्ते, अयादेशे प्राप्ते — ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
घिसंज्ञस्य ङिति सुपि गुणः। हरये। हरिभ्याम्। हरिभ्यः॥
महाभाष्यम्
घेर्ङिति घेर्ङितिगुणविधाने ङीसार्वधातुके प्रतिषेधः घेर्ङितिगुणविधाने ङीसार्वधातुके प्रतिषेधो वक्तव्यः । पट्वी मृद्वी कुरुत इति सुबधिकारात्सिद्धम् (सुबधिकारात्सिद्धम्) । सुबिति वर्तते ।। क्व प्रकृतम् ? ।। सुपि च बहुवचने झल्येदिति ।। (घेर्ङिति) ।।