Page loading... Please wait.
7|1|6 - शीङो रुट्
॥ तस्मै पाणिनये नमः ॥
7|1|6
SK 2442
शीङो रुट्   🔊
सूत्रच्छेदः
शीङः (पञ्चम्येकवचनम्) , रुट् (प्रथमैकवचनम्)
अनुवृत्तिः
प्रत्ययस्य  7|1|2 (षष्ठ्येकवचनम्) , अत्  7|1|4 (षष्ठ्येकवचनम्, षष्ठ्या विपरिणम्यते)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
शीङः अङ्गात् झः अतः रूट्
सूत्रार्थः
शीङ्-धातोः परस्य झ-प्रत्ययस्य यः अत्-आदेशः भवति तस्य रुट्-आगमः भवति ।
शीङ् (स्वप्ने) इति अदादिगणस्य आत्मनेपदी धातुः । अस्मात् परस्य झ-प्रत्ययस्य आत्मनेपदेष्वनतः 7|1|5 इत्यनेन अत्-आदेशे कृते तस्य "रुट्" आगमः भवति । रुट्-इत्यत्र उकारः उच्चारणार्थः अस्ति, टकारः च इत्संज्ञकः अस्ति । टित्वात् आद्यन्तौ टकितौ 1|1|46 इति अयम् आद्यवयवः भवति । यथा, शी-धातोः लट्-लकारस्य प्रथमपुरुष-बहुवचनस्य प्रक्रिया इयम् -

शी + लट् [वर्तमाने लट् 3|2|123 इति लट्]
→ शी + झ [तिप्तस्झि.. 3|4|78 इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य प्रत्ययः "झ"]
→ शी + शप् + झ [कर्तरि शप् 3|1|68 इति ओत्सर्गिकं विकरणम् शप्]
→ शी + झ [अदिप्रभृतिभ्यः शपः 2|4|72 इति शपः लुक्]
→ शे झ [शीङः सार्वधातुके गुणः 7|4|21 इति अङ्गस्य गुणः]
→ शे + अत [आत्मनेपदेश्वनतः 7|1|5 इति झकारस्य अत्-आदेशः]
→ शे + रुट् अत [शीङो रुट् 7|1|6 इति रुट्-आदेशः]
→ शे + र् अते [टित आत्मनेपदानां टेरे 3|4|79 इति एकारः]
→ शेरते

ज्ञातव्यम् - यत्र झकारस्य "अत्" आदेशः न भवति, तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, शी-धातोः लृट्लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् -

शी + लृट् [लृट् शेषे च 3|3|13 इति लृट्]
→ शी + स्य + लृट् [स्यतासी लृलुटोः 3|1|33 इति विकरणप्रत्ययः "स्य"]
→ शी + स्य + झ [तिप्तस्झि.. 3|4|78 इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य प्रत्ययः "झ"]
→ शी + इट् + स्य + झ [आर्धधातुकस्य इड्वलादेः 7|2|35 इति इडागमः]
→ शे + इ + स्य + झ [सार्वधातुकार्धधातुकयोः 7|3|84 इति गुणः]
→ शे + इ + स्य + अन्त [झोऽन्तः 7|1|3 इति झकारस्य अन्त् -आदेशः]
→ शे + इ + स्य + अन्ते [टित आत्मनेपदानां टेरे 3|4|79 इति एकारः]
→ शयिस्यन्ते [एचोऽयवायावः 6|1|78 इति अयादेशः]
→ शयिष्यन्ते [आदेशप्रत्यययोः 8|3|59 इति षत्वम् ]

अत्र झ-प्रत्ययः अदन्तात् अङ्गात् परः आगच्छति, अतः अत्र आत्मनेपदेश्वनतः 7|1|5 इत्यस्य प्रसक्तिः नास्ति । अतः अत्र वर्तमानसूत्रेण रुट्-आदेशः अपि न भवति ।
One-line meaning in English
When the झ-प्रत्यय attached to the verb root शीङ् gets the आदेश अत्, then this आदेश also gets a आगम "रुट्".
काशिकावृत्तिः
शीङो ऽङ्गादुत्तरस्य झादेशस्य अतः रुडागमो भवति। शेरते। शेरताम्। अशेरत। रुडयं परादिः क्रियते। स यदि झकारस्य एव स्याददादेशो न स्यादित्यत एव अयम् आदेशस्य आगमो विधीयते। सानुबन्धग्रहणम् आङ्लुगर्थम्। तेन इह न भवति, व्यतिशेश्यते।
`झादेशस्यातो रुडागमो भवति` इति। ननु न चेहाद्ग्रहणमस्ति, यदपि प्रकृतं तदपि प्रथमान्तम्, षष्ठीनिर्देशेन चेहार्थः, तत्? कथं झादेशस्यातो रुडागमो भवतीति शक्यं विज्ञातुम्? नैतदस्ति; `तस्मादित्युत्तरस्य` 1|1|66 इति शीङ इत्येषा पञ्चमी अदित्यस्याः प्रथमायाः षष्ठीत्वं परिकलपयिष्यतीत्यदोषः। `शेरते` इति। `शूङः सार्वधातुके गुणः` 7|4|21 । ननु चात्र रुटा व्यवहितं सार्वधातुकम्, तत्कुतो गुणः, न ह्रयं सार्वधातुकभक्तस्तत्? कथं व्यवधायको न स्यात्, अचछब्दस्य सार्वधातुकावयवस्यायमवयव इति तद्ग्रहणेन गृह्रते, न सार्वधातुकग्रहणेन; अवयवावयवस्य समुदायानवयवत्वात्; तथा हि--`छे च` 6|1|73 इत्यत्रोक्तम्--`नावयवावयवः समुदायावयवो भवति` इति? नैष दोषः; अवयवावयवोऽपि समुदायावयवो भवत्येव। तथा हि--देवदत्तोऽलंक्तियतामित्युक्ते देवदत्तस्य येऽवयवा हस्तपादायस्तवयवाश्चङ्गुल्यादयोऽलंक्रियन्ते। तस्मात्? सार्वधातुकावयवस्याच्छब्दस्य योऽवयवो रुडागयः, सोऽपि सार्वधातुकावयव इति तद्ग्रहणेन गृह्रते, अतो नास्ति व्यवधानम्।यत्पुनः `छे च` 6|1|71 इत्यत्रोक्तम्--नावयवावयवः समुदायावयवो भवतीति, तत्? तत्सूत्रविहितमेव तुगागममभिप्रेत्योक्तम्, स तुगवयवावयवोऽपि समुदायग्रहणेन न गृह्रत इति कृत्वा। कस्मात्? पुनर्न गृह्रते? ह्यस्वानुकर्षणसामथ्र्यात्। तत्र हि चकारेण ह्यस्वोऽनुकृष्यते--ह्यस्वमात्रस्यागमित्वं यथा स्यात्, ह्यस्वन्तस्य मा भूदिति। यदि ह्यस्वान्तस्यागमित्वं स्यात्, चिच्छिदतुः, चिच्छिदुरित्यत्र तुकोऽभ्यासग्रहणेन ग्रहणाद्धलादिशेषेण निवृत्तिः स्यात्। यदि च तत्सूत्रविहितस्तुगवयवावयवः समुदायग्रहणेन न गृह्रते, तदा ह्यस्वमात्रस्यायमित्वे हलादिशेषेण निवृत्तिः स्यादेव; ह्यस्ववयवस्य तुकोऽभ्यासग्रहणेन ग्रहणात्। ततश्च ह्यस्वानुकर्षणमनर्थकं स्यात्। अथ किमर्थमदादेशस्य रुङ्? विधीयते, न झकारस्य विधीयताम्, तत्रायमर्थः--अत #इति षष्ठी प्रकल्पयितव्या न भवति; झ इत्यस्य षष्ठन्तस्य प्रकृतत्वात्? अत आह--`रुडयम्` इत्यादि। यदि ककारमनुबन्धमासन्य पूर्वान्तः क्रियत, तदा शेरत इत्यत्र गुणो न स्यात्; अनिगन्तत्वात्। तस्मान्मा भूदेष दोष इति रुडयं परादिः क्रियते; परादिरपि क्रियमाणो यदि झकारस्यैव स्यात्? किमनिष्टं स्यात्? इत्याह--`यदि` इत्यादि। झकारस्यैव रुट्? स्यात्? तदाऽदादेशो न स्यात्। ततो यथा शयान्तै--इत्यत्राटा व्यवहितत्वाददादेशो न भवति; तथा शेरते इत्यत्रापि न स्यात्; रुटा व्यवहितत्वात्। तस्मादस्य दोषस्य परिहारार्थम्--अत एव रुडागमो विधीयते, न झकारस्येति केचिद्व्याचक्षते, एतच्चासम्यक्; झकारस्य क्रियमाणो रुट्? तस्यैव भक्तो भवति, तत्कथं तेन व्यवधानं भवेत्! न हि स्वावयवेन व्यवदधात्येव। तस्मादसद्व्याख्यनमेतदित्यन्यथा व्याख्यायते--अदादेशो न स्यादित्यत्र झकारस्येत्येतदपेक्षते, तदयमर्थो भवति--यदि रुडागमो झकारस्यैव स्यात्? तदादादेशस्तस्यैव न स्यात्। कस्य तर्हि स्यात्? तस्यैव रुटः स्यात्; `आदेः परस्य` 1|1|53 इति वचनात्। अनेकाल्त्वेऽपि सर्वादेशो न भवति; रुट आनर्थक्यप्रसङ्गात्। रुटो विधानसामथ्र्यान्न भविष्यतीति चेत्? नैतदस्ति; उत्तरार्थ रुङविधानंस्यात्। `बहुलं छन्दसि` 7|1|8 इत्यत्र रुजागमो यथा स्यात्। न ह्रदृश्रन्नित्यतटा सिध्यति। तस्माज्ताकश्रवणं रुङ्विधेः प्रयोजनम्। तदेतस्य दोषस्य निरासायादादेशस्य रुङ्विधीयते; न झकार्सय। `शीङः` इत्यनुबन्धेन निर्देशे यङ्लुग्निवृत्त्यर्थः--व्यतिशेस्यत इति॥
झादेशस्यात् इति । ननु च नेहाद्ग्रहणमस्ति, यदपि प्रकृतं तदपि प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः, शीङ् इत्येषा पञ्चमी अदिति प्रथमायाः षष्ठआआ प्रकल्पयिष्यति, तस्मादित्युतरस्य इति । शेरत इति । सार्वधातुकावयवस्य झस्यादादेशस्तदागमो रुट् तद्ग्रहणेन गृह्यते । अवयवस्य समुदायं प्रत्यवयवत्वं लोकेऽपि दृश्यते, यथा - देवदतस्याङ्गुलिरिति । सार्वधातुकस्याप्यवयवो रुडिति शीडः सार्वधातुके गुणः इति गुणो भवति । किं पुनः कारणं रुडागमो झदेशस्यातो विधीयते, नझकारस्यैव वधीयते, एवं हि न षष्ठी प्रकल्प्या एभवति अत आह - रुडयमिति । यदि तु ककारासञ्जनेन पूर्वान्तः क्रियेत, शेरत इत्यत्र गुणो न स्याद् अनिगन्तत्वात् । तस्मात् परादिरेव वक्तव्यः । स यदिच झकारस्यैव स्यात्, ततो यथा शयान्तै इत्यत्राटा व्यवहितत्वाज्झस्यादादेशो न भवति, तथा शेरते इत्यत्रापि न स्यात् रुटा व्यवहितत्वात् । ननु च युक्तमाटा व्यवधानम्, स हि सार्वधातुकभक्तस्तदेव न व्यवदध्यात्, झकारं तु व्यवदधात्येव, रुट् पुनर्झकारभक्तः स कथं तस्य व्यबधायकः उच्यते गृह्यता तावतद्ग्रहथणेन , तथापि निर्द्दिश्यमानस्यादेशा भवन्ति इति यदत्र निर्द्दिश्यते झ इति विशिष्ट्ंअ रुपं न तदनन्तरम्, यश्चानन्तरो रेफझकारसमुदायो न स निर्द्दिश्यत इति न स्यादेवादेशः । अपर आह - आदेशो न स्यादिति, कोऽर्थः झस्य न स्यादिति, कस्य तर्हि स्यात् आदेः परस्य इति रुट एव स्यात् । न च रुटेः वैयर्थ्यं स्यात्, झकारस्य श्रवणार्थत्वात् इति, तच्चिन्त्यम् अनेकाल्त्वात्सर्वादेशः प्राप्नोति । सर्वादेशे रुटो वैयर्थ्यमिति चेत् किं कुर्मः मा भूदादेशः । शीङ्ः इत्यनुबन्धोच्चारणं यङ्लुग्निवृत्यर्थम् - व्यतिशेश्यते । गुणोऽपि न भवति तत्राप्यनुबन्धनिर्द्दशात् ॥
सिद्धान्तकौमुदी
शीङः परस्य झादेशस्यातो रुडागमः स्यात् । शेरते । शेषे । शेध्वे । शये । शेवहे । शिश्ये । शयिता । अशयिष्ट ॥ अथ स्तौत्यन्ताः परस्मैपदिनः । ऊर्णुस्तूभयपदी । 1033 यु मिश्रणेऽमिश्रणे च
शीङो रुट् - शीङो रुट् । "झोऽन्तः" इत्यतो झ इत्यनुवर्तते । "अदभ्यस्ता" दित्यतोऽदित्यनुवृत्तं षष्ठआ विपरिणम्यते । तदाह — शीङः परस्येति । रुटि उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । शेध्वे इति ।षीध्वंलुङ्लिटा॑मित्युक्तेर्न ढः । शिश्ये इति । शिश्यिषे । शिश्यिढ्वे — शिश्यिध्वे । शयितेति । शयिष्यते । शेताम् शयाताम् शेरताम् । सेष्व शयाथाम् शेध्वम् । शयै शयावहै शयामहै । अशेत अशयाताम् अशेरत । अशेथाः अशयाथाम् ।अशेध्वम् । अशयि अशेवहि अशेमहि । शयीत । शयिषीष्ट । अशयिष्टेति । अशयिष्यतेत्यपि ज्ञेयम् । स्तौत्यन्ता इति ।ष्टुञ् स्तुता॑वित्यतः प्राक्तना इत्यर्थः । ऊर्णुस्तूभयपदीति । ञित्त्वादिति भावः । यु मिश्रणेऽमिश्रणे चेति । अमिश्रणं पृथग्भावः । सेडयम् ।
शीङो रुट् - शीङो रुट् ।झोऽन्तः॑ इत्यतोझ॑ इत्यनुवर्तते ।अदभ्यस्ता॑दित्यतोऽदिति च । तथा चेष्टानुरोधेनाऽदिति प्रथमान्तस्य षष्ठन्तत्वमाश्रित्य व्याचष्टे झादेशस्याऽत इति । झस्यैव रुडागमे तु अदादेशो दुर्लभ इत्यदित्यस्याप्यनुवृत्तिः कृता । शिश्ये इति ।एरनेकाचः॑ इति यण् । शेताम् । शयाताम् । शेरताम् । शेध्वम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
शीङो रुट् ।। रुटि दृशिगुणप्रतिषेधः ।। रुटि दृशिगुणः प्राप्नोति । अदृशन्नस्य केतव इति, -तस्य प्रतिषेधो वक्तव्यः ।। न वक्तव्यः, परस्मिन्निति क्ङितिचेति प्रतिषेधो भविष्यति ।। एवमदृश्रमस्य केतव इत्यत्रापि प्राप्नोति ।। एवं तर्हि पूर्वान्तः करिष्यते ।। पूर्वान्ते शीङो गुणविधिः ।। पूर्वान्ते शीङो गुणो विधेयः शेरते ।। (सिध्द्यत्येवं(1)) सूत्रं च भिद्यते ।। यथान्यासमेवास्तु ।। ननु चोक्तं रुटि दृशिगुणप्रतिषेध इति ।। पूर्वान्तेप्येष दोषः ।। कथम् ? ।। अयं दृशिगुणः प्रतिषेधविषय आरभ्यते स यथा क्ङिति चेत्येतं प्रतिषेधं बाधते एवमनुपधाया अपि प्रसज्येत । तस्मादुभाभ्यामेव दृशोरक्प्रत्ययान्तरं वक्तव्यं, पितरं च दृशेयं मातरं च दृशेयमित्येवमर्थम् ।। झादेशादाड्लेटि ।। झादेशादाड् लेटि भवति विप्रतिषेधेन । झादेशस्यावकाशः ‐ लुनते । लुनताम् । अलुनत । आटोऽवकाशः ‐ पताति दिद्युत् । उदधिं च्यावयाति । इहोभयं प्राप्नोति- अपि नः श्वो विजनिष्यमाणाः पतिभिः सह शयान्तै । आड् लेटि भवति विप्रतिषेधेन ।। स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ? ।। न वा नित्यत्वादाटः ।। न वा वक्तव्यः ।। किं कारणम् ? ।। नित्यत्वादाटः । नित्य आडागमः ।। स कथं नित्यः ? ।। यद्यनकारान्तग्रहणं झकारविशेषणम् ।। अथ हि प्रत्ययविशेषणम् ? ।। झादेशोपि नित्यः । । अन्तरङ्गलक्षणत्वाच्च । । अन्तरङ्गः खल्वपि आडागमः ।। कथमन्तरङ्गः ? ।। यदि प्राग्लादेशाद्धात्वधिकारः ।। अथ हि लादेशे धात्वधिकारोऽनुवर्तते उभयं समानाश्रयम् ।। यद्येव अनकारान्तग्रहणं प्रत्ययविशेषणम्, अथापि लादेशे धात्वधिकारोऽनुवर्तते उभयथापि पूर्वविप्रतिषेधेन नार्थः ।। कथम् ? ।। बहुलं छन्दसीत्येवमत्र शपो लुङ्ग भविष्यति । तत्राऽनत इति प्रतिषेधो भविष्यति ।। (शीङो रुट्)