Page loading... Please wait.
7|3|55 - अभ्यासाच्च
॥ तस्मै पाणिनये नमः ॥
7|3|55
SK 2430
अभ्यासाच्च   🔊
सूत्रच्छेदः
अभ्यासात् (पञ्चम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अभ्यासादुत्तरस्य हन्तिहकारस्य कवर्गादेशो भवति। जिघांसति। जङ्घन्यते। अहं जघन। अभ्यासनिमित्ते प्रत्यये हन्तेरङ्गस्य यो ऽभ्यासः तस्मादेव एतत् कुत्वम्। इह न भवति, हननीयितुम् इच्छति जिहननीयिषति।
`जिघांसति` इति। सन्, `अज्झनगमां सनि` 6|4|16 इति दीर्घः, द्विर्वचनम्, `कुहोश्चुः` 7|4|62 इति चुत्वम्--झकारः; `अभ्यासे चर्च` 8|4|53 इति जश्त्वम्--जकारः, `सन्यतः` 7|4|79 इत्तीत्त्वम्। `जङ्घन्यते` इति। `नुगतोऽनुनासिकान्तस्य` 7|4|85 इति नुक्। जघान` इति। उत्तमपुरुषेणलि यदा णित्वं नास्ति तदेदमुदाहरणम्। णित्त्वपक्षे तु पूर्वेणैव सिद्धम्। अग्र हननशब्दात्? क्यचि कृते तदन्तात्? सनि जिहननीयिषतीत्यत्र कस्मान्न भवतीति, भवति ह्रवाभ्यासात्? परो हन्तिहकरः? इत्याह--इहाभ्यासनिमित्तप्रत्यये` इत्यादि। इह `हन्तेः` 7|3|54 इत्यनुवत्र्तते, अङ्गस्येति च। अभ्यासेनाभ्यासनिमित्तं प्रत्ययः सन्निधापितः, तस्य प्रत्ययः विशेषनिमित्तत्वात्, तत्र तेनाभ्यासनिमित्तेन प्रत्ययेन हन्तेरङ्गं विशिष्यते। `अभ्यासनिमित्ते[अभ्यासनिमित्ते प्रत्येये हन्तेरङ्गस्य--काशिका] प्रत्यये यदङ्गं हन्तिः` इति। तेनाप्येवंविधेन हन्तिनाभ्यासो विशिष्यते। यथोक्तविशेषणविशिष्टस्य हन्तेरङ्गस्य योऽभ्यासः--इत्येवं विशेषणविशेष्यभावे सत्यभ्यासनिमित्ते सनादौ प्रत्यये हन्तेरङ्गस्य योऽभ्यासस्तस्मादेव कुत्वेन भवितव्यम्। `तेनेह [`तेन` नास्ति--काशिका] न भवति--`जिहननीयिषति` इति। न ह्रतराभ्यासनिमित्ते प्रत्यये सनि हन्तिरङ्गम्, किं तर्हि? हननीयशब्दः। यस्मस्तु हन्तिरङ्गम्, ल्युटि स नाभ्यासनिमित्त्म्॥
अहं जघनेति । णित्वाभावे उदाहरणम् । णित्वपक्षे पूर्वेणैव सिद्धम् । एवं जघनिथ, जघन्थ, जघन्वानित्युदाहरणम् । अभ्यासनिमिते प्रत्यय इत्यादि । अङ्गाधिकारेणाभ्यासेन च प्रत्ययस्याक्षेपादयमर्थो लभ्यते । जिहननीयिषतीति । अत्र यस्मिन्हनिरङ्गं ल्युटि न तस्याभ्यासनिमितत्वम्, यश्चाभ्यासस्य निमितं सन् न तस्मिन् हन्तिरङ्गम् ॥
सिद्धान्तकौमुदी
अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात् । जघनिथ-जघन्थ । हन्ता । ऋद्धनोः-- (कौमुदी-2366) इतीट् । हनिष्यति । हन्तु । हतात् । घ्नन्तु ॥
अभ्यासाच्च - अभ्यासाच्च ।हो हन्ते॑रित्यनुवर्तते ।चजोः कु घिण्ण्यतो॑रित्यतः कुग्रहणं च । तदाह — अभ्यासात्परस्येत्यादिना । जघनिथ जघन्थेति । इडभावे नस्याऽनुस्वारपरसवर्णौ । जघ्नथुः । जघ्न । जघान — जघन, जघ्निव जघ्निम । लृटि स्ये इण्निषेधमाशङ्क्याह — ऋद्धनोरिति । हन् हि इति स्थिते "हुझल्भ्यः" इति धित्वे प्राप्ते — ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात्। जघनिथ, जघन्थ। जघ्नथुः। जघ्न। जघ्निव। जघ्निम। हन्ता। हनिष्यति। हन्तु, हतात्। हताम्। घ्नन्तु॥
महाभाष्यम्
अभ्यासाच्च अभ्यासात्कुत्वमसुपः अभ्यासात्कुत्वमसुप इति वक्तव्यम् । इह मा भूत् ‐ हननमिच्छति हननीयति, हननीयतेः सन् जिहननीयिषतीति ।। तत्तर्हि वक्तव्यम् ? ।। न वक्तव्यम् । हन्तेरभ्यासादित्युच्यते न चैष हन्तेरभ्यासः ।। हन्तेरेषोऽभ्यासः(2) ।। कथम् ? ।। एकाचो द्वे प्रथमस्येति ।। एवं तर्हि हन्तेरङ्गस्य योऽभ्यासस्तस्मादित्युच्यते न चैष हन्तेरङ्गस्याऽभ्यासः ।। हन्तेरङ्गस्यैषोऽभ्यासः ।। कथम् ? ।। एकाचो द्वे प्रथमस्येति ।। एवं तर्हि यस्मिन् हन्तिरङ्गं तस्मिन्योऽभ्यासस्तस्मादित्युच्यते, यस्मिंश्चाऽत्र हन्तिरङ्गं न तस्मिन्नभ्यासो, यस्मिंश्चाभ्यासो(3) न तस्मिन्हन्तिरङ्गं भवति । ( अभ्यासाच्च ) ।।