Page loading... Please wait.
6|1|16 - ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च
॥ तस्मै पाणिनये नमः ॥
6|1|16
SK 2412
ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च   🔊
सूत्रच्छेदः
ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनाम् (षष्ठीबहुवचनम्) , ङिति (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ग्रह उपादाने, ज्या वयोहानौ, वेञो वयिः 2|4|41, व्यध ताडने, वश कान्तौ, व्यच् व्याजीकरणे, ओव्रश्चू छेदने, प्रच्छ ज्ञीप्सायाम्, भ्रस्ज पाके इत्येतेषां धातूनां ङीति प्रत्यये परतः चकारात् कति च संप्रसारणं भवति। ग्रह गृहीतः। गृहीतवान्। ङिति गृह्णाति जरीगृह्यते। ज्या जीनः। जीनवान्। ल्वादिभ्यः 8|2|44 इति निष्ठानत्वम्। ङिति जिनाति। जेजीयते। हलः 6|4|2 इति सम्प्रसारणदीर्घे कृते प्वादीनां इति ह्रस्वः क्रियते। वयि लिटि परतः वेञो वयिः आदेशः, तस्य ङिदभावात् किदेवोदाह्रियते। ऊयतुः। ऊयुः। यद्येवं वयिग्रहणम् अनर्थकम्, यजादिषु वेञ् पठ्यते? न एवं शक्यम्। लिटि तस्य वेञः 6|1|40 इति प्रतिषेधो वक्ष्यते, तत्र यथा एव स्थानिवद्भावाद् व्येर्विधिः एवं प्रतिषेधो ऽपि प्राप्नोति? न एष दोषः। लिटि वयो यः 6|1|38 इति यकारस्य संप्रसारणप्रतिषेधाद् वयेर्विधौ ग्रहणं प्रतिषेधे चाग्रहणमनुमास्यते? सत्यम् एतत्। एष एव अर्थः साक्षान् निर्देशेन व्येः स्पष्टीक्रियते। व्यध विद्धः। विद्धवान्। ङिति विध्यति। वेविध्यते। वश उशितः। उशितवान्। ङिति उष्टः। उशन्ति। व्यच विचितः। विचितवान्। ङिति विचति। वेविच्यते। व्यचेः कुटादित्वमनसि प्रतिपादितम्, तेन सर्वत्र अञ्णिति प्रत्यये सम्प्रसारणं भवति, उद्विचिता, उद्विचितुम्, उद्विचितव्यम् इति। व्रश्चेः वृक्णः। वृक्णवान्। अथ कथम् अत्र कुत्वं, व्रश्चभ्रस्ज इति हि षत्वेन भवितव्यम्? निष्ठादेशः षत्वस्वरप्रत्ययविधीड्विधिषु सिद्धो वक्तव्यः। तत्र ष्त्वं प्रति नत्वस्य सिद्धत्वाद् ज्ञलादिर् निष्ठा न भवति। कुत्वे तु कर्तव्ये तदसिद्धम् एव इति प्रवर्तते कुत्वम्। ङिति वृश्चति। वरीवृश्च्यते। प्रच्छ पृष्टः। पृष्टवन्। ङिति पृच्छति। परीपृछ्यते। प्रश्नः। नङि तु प्रश्ने च आसन्नकाले 3|2|117 इति निपातनादसंप्रसारणम्। भ्रस्ज भृष्टः। भृष्टवान्। ङिति भृज्जति। बरीभृज्यते। सकारस्य ज्ञलां जश् ज्ञशि 7|4|53 इति जश्त्वेन दकारः, स्तोः श्चुना श्चुः 8|4|40 इति श्चुत्वेन जकारः।
`गृहीतम्` इति। `ग्रहोऽलिटि` 7|2|37 इति दीर्घः। `जरीगृह्रते` इति। यङि सम्प्रसारणं द्विर्वचनम्। `रीगृदुपधस्य` 7|4|90 इति रीगागमः। वयिरयमस्त्येवात्मनेपदी--`अय वय गतौ (धातुपाठः-474,475) अस्ति च परस्मैपदी--`वेत्रो वयिः` 2|4|42 इति; तत्र ग्रह्रादिभिरनात्मनेपदिभिः साहचर्यादनात्मनेपदी गृह्रते? इत्याह--`वयिर्लिटि` इत्यादि। तस्माच्च परस्य लिटः `असंयोगाल्लिट्? कित्` 1|2|5 इति कित्त्वेन भवितव्यम्? इत्यत आह--`तस्य` इत्यादि। `यद्येवम्` इति। यदि वेञादेशस्य वयेग्र्रहणमित्यर्थः। `यजादिषु वेञ्? पठते` इति। ततश्च पूर्वसूत्रेणैव तस्य स्थानिवद्भावात्? सम्प्रसारणं सिद्धमित्यभिप्रायः। `नैवं शक्यम्` इति। विज्ञातुमिति शेषः। नानयोपपत्त्या वयिग्रहणमनर्थकं शक्यं विज्ञातुमित्यर्थः। किं कारणम्? इत्याह--`लिटि तस्य` इत्यादि। स्यादेतत्--विधिप्रतिषेधयोर्विरोधादेकत्र विधिरेव भविष्यति, न प्रतिषेध इति? अत आह--`अत्र यतैव` इत्यादि। स्यादेतत्--विधिप्रतिषेधयोर्विरोधादेकत्र विधिरेव भविष्यति, न प्रतिषेध इति? अत आह--`अत्र यथैव` इत्यादि। यदि विरोधादेकत्रासम्भवः, पर्यायोऽस्तु, न तु द्वयोरन्यत्र चरितार्थत्वादेकेनैव भवितव्यम्। नापरेणेत्येषोऽर्थो लभ्यत इति भवाः। `नैष दोषः` इति। कथं नैष दोषः? इत्यत आह--`लिटि` इत्यादि। `लिटि वयो यः` इति यकारस्य सम्प्रसारणप्रतिषेधो लिङ्गम्--विधो वेञोग्रहणेन वयिग्रहणं भवतीत्यस्यार्थस्य। असति विधौ ग्रहणे प्राप्तेरसम्भवात्? प्रतिषेधोऽनर्थकः स्यात्। वेञ इत्यत्र प्रतिषेधे वयेग्र्रहणं न भवतीति अत्राप्येतदेव प्रतिषेधवचनं लिङ्गम्। सति हि वेञ्ग्रहणे वेञ इत्यनेनैव प्रतिषेधस्य सिद्धत्त्वात्, पनः `लिटि वयो यः` 6|1|37 इति। अनन्तरोक्तमर्थमभ्यनुजानाति। यदि सत्यमेतत्, तर्हि किमर्थं वयिग्रहणम्? इत्याह--`एष एव` इत्यादि। तेन स्पष्टीकरणार्थं वयिग्रहणमित्याचष्टे। `विध्यति` इति। दिवादित्वाच्छ्यन्। `उष्टः` इति। तसन्तमेतत्, अदादित्वाच्छपो लुक्? व्रश्चादिसूत्रेण 8|2|36 षत्वम्, ष्टुत्वम्। `विचति` इति। तुदादित्वाच्छः।वृक्ण इति पूर्ववन्नत्वम्, `स्कोः` 8|2|29 इति सलोपः। `झलादिर्निष्ठा न भवति` इति। तेनात्र षत्वं न भवतीति भावः। झलाचौ हि तद्विधीयते; `झलो झलि` 8|2|26 इत्यतो झल्ग्रहणानुवृत्तेः। `कृत्वे तु कत्र्तव्ये तदसिद्धमेव` इति। न हि यथा षत्वादौ निष्ठादेशस्य सिद्धत्वमुच्यते, तथा कुत्वेऽपि, तेन तत्? प्रवर्तत एव। `वृश्चति` इति। पूर्ववच्छः। `वरीवृश्च्यते` इति। `रीगृत्वत इति वक्तव्यम्` (वा।880) इति रीगागमः। `पृष्टः` इति। पूर्ववत्? षत्वम्। `यजयाच` 3|3|90 इत्यादिना नङि विहिते प्रश्न इत्यत्र सम्प्रसारणं कस्मान्न भवति? इत्यत आह--`नङि` इत्यादि। `भृष्टः` इति। पूर्ववत्? षत्वम्। `भृज्जति` इति। पूर्ववच्छः। `बरीभृज्यते` इति। पूर्ववद् रीक्। `सकालस्य` इत्यादि। ननु स्खोः संयोगाद्योरन्ते च` 8|2|29 इति तस्य लोपेन भवितव्यम्?? नैतदस्ति; झलि पदान्ते च स उच्यत इति॥
गृहीतः, यद्यपि प्रथमं ङिति प्रत्यये परतः सम्प्रसारणं चकारात्किति चेति क्रमो व्याक्यातः, तथाप्यनास्थया प्रथमं कित्युदाहृतम्। विजादेशो गृह्यत इति। पूर्वपरसाहचर्याद्यस्य वपेः परस्मैपदसंभवस्तस्य ग्रहणं न्याय्यम्, यस्तु ठय वच गतौऽ इति वयिः, सोऽनुदातेदात्मनेपदी। यद्येवमिति। वेञादेशस्य ग्रहणमित्यर्थः। यजादिषु वेञ् पठ।ल्त इति। ततश्च पूर्वेणैव सम्प्रसारणं सिद्धिमिति भावः। नैवं शक्यमिति। विज्ञातुमिति शेषः। नानयोपपत्या वयिग्रहणमनर्थकं शक्यं विज्ञातुमित्यर्थः। एवं प्रतिषेधोऽपि प्राप्नोतीति। नात्राविशब्देन समुच्चय उच्यते, किं तर्हि? यथा स्थानिवद्भावाद्विधिः प्राप्यते, तथा प्रतिपेधोऽपि प्राप्नोति, तत्रापि स्तानिवद्भावस्य तुल्यत्वात् इति हेतोस्तुल्यत्वमपिशब्देन द्योत्यते, तेन प्रतिषेध एव भवेदित्यर्थः। उष्ट इति। तसन्तम्। व्यधिर्दिवादिः, व्यचिप्रभृतयस्तुदादयः। वृक्ण इति। ठ्स्कोः संयोगाद्योःऽ इति सलोपः, पूर्ववन्निष्ठानत्वम्। वरीवृश्च्यत इत्यादौ ठ्रीगृत्वतःऽ इति रीग्भावः ॥
सिद्धान्तकौमुदी
एषां किति ङिति च संप्रसारणं स्यात् । इति यकारस्य प्राप्ते ॥
ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छति- भृज्जतीनां ङिति च - ग्रहिज्या । चकारेणवचिसवपियजादीना॑मित्यतः कितीति समुच्चीयते ।ष्यङः संप्रसारण॑मित्यनुवर्तते ।तदाह — एषामित्यादि । अत्र परस्मैपदिग्रह्रादिसाहचर्यात् "अय वय पय [गतौ]" इति पठितस्यात्मनेपदिनो वयेर्न ग्रहणम् । यजादित्वादेव वयेः संप्रसारणे सिद्धे अत्र वयग्रहणं स्पष्टार्थमिति भाष्ये स्पष्टम् [इति] यकारस्य प्राप्ते इति ।न संप्रसारणे संप्रसारण॑मिति लिङ्गादन्त्यस्य यणः पूर्वं संप्रसारणमिति विज्ञानाद्यकारस्य संप्रसारणे प्राप्ते सतीत्यर्थः ।
ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छति- भृज्जतीनां ङिति च - ग्रहिज्यावयि । गृह्णाति । गृह्णीतः । जिनाति । जिनीतः । जीनः । ङिति वयेरुदाहरणं नास्ति । किति तुवचिस्वपियजादीना॑मिति सिद्धम्, यजादिषु वेञः पाठात् । अत एवाऽभ्याससंप्रसारणमपि सिद्धम् ।वेञ॑ इति संप्रसारणनिषेधस्तुलिटि वयो य॑ इति निषेधारम्भान्न प्रवर्तते । तस्माद्ग्रहिज्यादिषु वयिग्रहणं स्पष्टार्थमेवेति बोध्यम् ।
लघुसिद्धान्तकौमुदी
एषां सम्प्रसारणं स्यात्किति ङिति च। विध्यति। विव्याध। विविधतुः। विविधुः। विव्यधिथ, विव्यद्ध। व्यद्धा। व्यत्स्यति। विध्येत्। विध्यात्। अव्यात्सीत्॥ पुष पुष्टौ॥ 10॥ पुष्यति। पुपोष। पुपोषिथ। पोष्टा। पोक्ष्यति। पुषादीत्यङ्। अपुषत्॥ शुष शोषणे॥ 11॥ शुष्यति। शुशोष। अशुषत्॥ णश अदर्शने॥ 12॥ नश्यति। ननाश। नेशतुः॥
महाभाष्यम्
ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (245) (पदकृत्यभाष्यम्) वयिग्रहणं किमर्थं न वेञ् यजादिषु पठ्यते, वेञ्ञश्च वयिरादेशः क्रियते ? तत्र यजादीनां कितीत्येव सिद्धम् । तत्रैतत्स्यात् ‐ - ङिदर्थोऽयमारम्भ इति । तच्च न । लिट्यमादेशः, लिट् च किदेव ।। अत उत्तरं पठति ‐ - (6024 पदकृत्यवार्तिकम् ।। 1 ।।) - वयिग्रहणं वेञ्ञः प्रतिषेधात् - वयिग्रहणं क्रियते, वेञ्ञः प्रतिषेधात् । वेञ्ञो लिटि प्रतिषेधं वक्ष्यति, स वयेर्मा भूदिति ।। यथैव हि वेञ्ञ्ग्रहणाद्विधिः प्रार्थ्यते एवं प्रतिषेधोऽपि प्राप्नोति ।। (6025 आक्षेपवार्तिकम् ।। 2 ।।) - न वा यकारप्रतिषेधो ज्ञापकोऽप्रतिषेधस्य - न वा एष दोषः । किं कारणम् ? यदयं लिटि वयो यः 6|1|38 इति वयेर्यकारस्य संप्रसारणस्य प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यः ‐ - न वेञ्ञ्ग्रहणाद्वयेः संप्रसारणप्रतिषेधो भवतीति ।। नैतदस्ति ज्ञापकम्, पित्यभ्यासार्थमेतत्स्यात् । वयेः पित्सु वचनेष्वभ्यासयकारस्य संप्रसारणं मा भूदिति । ननु च वेञ्ञ्ग्रहणादेव वयेः पित्स्वपि वचनेष्वभ्यासयकारस्य संप्रसारणप्रतिषेधः सिद्धः । न सिध्यति । किं कारणम् ? कितीति तत्रानुवर्तते ।। एवमपि वयेः पित्सु वचनेष्वभ्यासस्य यकारस्य संप्रसारणं न प्राप्नोति । किं कारणम् ? हलादिः शेषेण बाध्यते । नात्र हलादिः शेषः प्राप्नोति । किं कारणम् ? वक्ष्यति ह्येतत् ‐ - अभ्याससंप्रसारणं हलादिशेषाद्विप्रतिषेधेनेति ।। स एष वयेर्यकारस्य संप्रसारणप्रतिषेधः पित्यभ्यासार्थः, न ज्ञापकार्थो भवति ।। (6026 समाधानवार्तिकम् ।। 3 ।।) - पित्यभ्यासार्थमिति चेन्नाविशिष्टत्वात् - पित्यभ्यासार्थमिति चेत् तन्न । किं कारणम् ? अविशिष्टत्वात् । अविशेषेण प्रतिषेधः, निवृत्तं तत्र कितीति । आतश्चाविशेषेण वेञ्ञोऽपि हि पित्सु वचनेष्वभ्यासस्य संप्रसारणं नेष्यते ‐ - ववौ, वविथेति । विकृतिग्रहणं खल्वपि प्रतिषेधे क्रियते, न च विकृतिः प्रकृतिं गृह्णाति ।।