Page loading... Please wait.
8|3|74 - परेश्च
॥ तस्मै पाणिनये नमः ॥
8|3|74
SK 2399
परेश्च   🔊
सूत्रच्छेदः
परेः (पञ्चम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108 अपदान्तस्य मूर्धन्यः  8|3|55 इण्कोः  8|3|57
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
परिशब्दादुत्तरस्य स्कन्देः सकारस्य वा मूर्धन्यो भवति। परिष्कन्ता। परिष्कन्तुम्। परिष्कन्तव्यम्। परिस्कन्ता। परिस्कन्तुम्। परिस्कन्तव्यम्। पृथग्योगकरणसामर्थ्यातनिष्थायाम् इत्येतन् न अनुवर्तते। परिष्कण्णः, परिस्कन्नः।
`पृथग्योगकरणसामथ्र्यात्` इत्यादि। यदि परेरप्युत्तरस्या स्कन्देर्निष्ठायां मूर्धन्यो नाभिमतः स्यात्, ततः `विपराभ्यां स्कन्देरनिष्ठायाम्` इत्येकयोगमेव कुर्यादित्यभिप्रायः। चकारः स्कन्देरनुकर्षणार्थः॥
पृथग्योगकरणसामर्थ्यादिति । अन्यथा ठ्विपरिभ्यां स्कन्देरनिष्ठायाम्ऽ इत्येव ब्रूयात् ॥
सिद्धान्तकौमुदी
अस्मात्परस्य स्कन्देः सस्य षो वा । योगविभागादनिष्ठायामिति न संबध्यते । परिष्कन्दति । परस्कन्दति । परिष्कण्णः । पिरस्कन्नः । षत्वपक्षे णत्वम् । न च पदद्वयाश्रयतया बहिरङ्गत्वात्षत्वस्यासिद्धत्वम् । धातूपसर्गयोः कार्यमन्तरङ्मित्यभ्युपगमात् । पूर्वं धातुरुपसर्गेण युज्यते ततः साधनेनेति भाष्यम् । पूर्वं साधनेनेति मतान्तरे तु न णत्वम् । 980 यभ मैथुने । येभिथ । ययब्ध । यब्धा । यप्स्यति । अयाप्सीत् । 981 णम प्रह्वत्वे शब्दे च । नेमिथ । ननन्थ । नन्ता । अनंसीत् । अनंसिष्टाम् । 982 गम्लृ 983 सृप्लृ गतौ
परेश्च - परेश्च । ननुविपरिभ्यां स्कन्देरनिष्ठाया॑मित्येव सिद्दे सूत्रभेदो व्यर्थ इत्यत आह — योगेति । षत्वपक्षे इति । परिष्कन्द् त इति स्थितेअनिदिता॑मितिरदाभ्या॑मिति निष्ठातकारस्य, तत्पूर्वदकारस्य ष्टुत्वेन णत्वे "परिष्कण्ण" इति रूपमित्यर्थः । ननु दकारस्थानिकनकारस्य षकारनिमित्तकं णत्वमन्तरङ्गं, निमित्तनिमित्तिनोरेकपदस्थत्वात्,षत्वं तुपरी॑त्युपसर्गात्मकपदान्तरस्थमिणं निमित्तीकृत्य प्रवर्तमानं बहिरङ्गम् । ततश्च णत्वे कर्तव्ये बहिरङ्गस्य षत्वस्याऽसिद्धत्वात्षात्परत्वाऽभावात्कथं णत्वमित्याशङ्क्य निराकरोति — न चेति । पदद्वयाश्रयतया बहिरङ्गस्य षत्वस्याऽसिद्धत्वं यत्प्रसक्तं तन्न शङ्क्यमित्यन्वयः । कुत इत्यत आह — धातूपसर्गयोरिति पूर्वं धातुरिति । [पूर्वं] धातुरुपसर्गेण सह युज्यते = सन्ध्यादिकार्यं लभते । पश्चात् = धातूपसर्गकार्यप्रवृत्त्यनन्तरं साधनेन युज्यते । साधनशब्दः कारकवाची । इह तु तद्वाचकः प्रत्ययो लक्ष्यते । प्रत्ययेनेति यावत् । इदं चसंप्रसारमाच्चे॑त्यादसूत्रभाष्ये स्पष्टम् । तदाह — भाष्यमिति । मतान्तरे त्विति ।पूर्वं धातुः साधनेन युज्यते, पश्चादुपसर्गेणे॑ति पक्षे तु षत्वस्य बहिरङ्गतया असिद्धत्वान्न णत्वमित्यर्थः । यभधातुरनिट् । यभति । ययाभ येभतुः । थलि तु भारद्वाजनियमादिट्पक्षे पित्त्वेनाऽकित्त्वेऽपि "थलि च सेटि" इत्येत्त्वाभ्यासलोपं मत्वा आह — येभिथेति । ययब्धेति । थलि इडभावपक्षे पित्त्वेनाऽकित्त्वादेत्त्वाऽभ्यासलोपाऽभावे ययम् थ इति स्थितेझषस्तथो॑रिति थस्य धत्वे भस्य जश्त्वेन बकार इति भावः । येभथुः येभ । ययाभ — ययभ । क्रादनियमादिट् । येभिव । येभिम । यब्धेति । लुटि तासि तकारस्यझषस्तथो॑रिति धत्वम् । भकारस्य जश्त्वेन बकार इति भावः । यप्स्यतीति । स्ये भस्य चर्त्वेन पः । यभतु । अयभत् । यभेत् । यभ्यात् । अयाप्सीदिति । हलन्तलक्षणावृद्धिरिति भावः । अयप्स्यत् । णम् प्रह्त्रत्वे इति । अनिडयं णोपदेशश्च । केचित्त्विमं धातुमुदितं पठन्ति । तत्तु प्रामादिकम् । तथा सतिउदितो वे॑ति क्त्वायामिड्विकल्पस्य "यस्य विभाषा" इति निष्ठायामिड्विकल्पस्य चाऽ‌ऽपत्तेः । नमति । ननाम नेमतुः नेमुः । थलि तु भारद्वाजनियमादिट्पक्षे पित्त्वेनाऽकित्त्वेऽपिथलि च सेटी॑त्येत्त्वाभ्यासलोपं मत्वा आह — नेमिथ ननन्थेति । इडभावपक्षे पित्त्वेन अकित्त्वादेत्त्वाभ्यासलोपाऽभावे रूपम् । नेमथुः नेम । ननाम — ननम, नेमिव नेनिम । क्रादिनियमादिट् । नन्त#एति । मस्यानुस्वारपरसवर्णौ । नंस्यति । नमतु । अनमत् । नमेत् । नम्यात् । अनंसीदिति ।यमरमे॑ति सगिति भावः । अनंस्यत् । गम्लृ सृप्लृ गताविति । अनिटौ । सृपिरषोपदेशः ।
परेश्च - न संबध्यत इति । अत एव तिङन्तेऽपि षत्वमुदाहरति । परिष्कन्दतीति । णम् प्रह्वत्वे ।केचिदमुमुदितं पठन्ति, तत्प्रामादिकमित्याहुः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
परेश्च अथाऽनिष्ठायामिति(1)(2) वर्तते उताहो निवृत्तम्?।। निवृत्तमित्याह।। कथं ज्ञायते?।। योगविभागकरणसार्मथ्यात्(2)। इतरथा हि विपरिभ्यां च स्कन्देरनिष्ठायामित्येव ब्रूयात्।। (परेश्च)।।