Page loading... Please wait.
6|4|25 - दन्शसञ्जस्वञ्जां शपि
॥ तस्मै पाणिनये नमः ॥
6|4|25
SK 2396
दन्शसञ्जस्वञ्जां शपि  
सूत्रच्छेदः
दन्श-सञ्ज-स्वञ्जाम् (षष्ठीबहुवचनम्) , शपि (सप्तम्येकवचनम्)
अनुवृत्तिः
नलोपः  6|4|23 (प्रथमैकवचनम्) , उपधायाः  6|4|24 (षष्ठ्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22
सम्पूर्णसूत्रम्
दंश-सञ्ज-स्वञ्जाम् अङ्गस्य उपधायाः शपि नलोपः
सूत्रार्थः
दंश्, सञ्ज्, स्वञ्ज् - एतेषाम् धातूनाम् अङ्गस्य उपधा-नकारस्य शप्-विकरणप्रत्यये परे लोपः भवति ।
दन्शँ (दशने), षन्जँ (सङ्गे), तथा ष्वन्जँ (परिष्वङ्गे) एते त्रयः भ्वादिगणस्य धातवः । एतेभ्यः विहितस्य शप्-इत्यस्य गणविकरणस्य अनेन सूत्रेण लोपः भवति । यथा -

1. दन्श् इत्यस्य लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -
दन्श् + लट् [वर्तमाने लट् 3|2|123 इति लट् ]
→ दन्श् + तिप् [तिप्तस्.. 3|4|78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ दन्श् + शप् + ति [कर्तरि शप् 3|1|68 इति शप्]
→ दश् + अ + ति [शप्-प्रत्यये परे दन्शसञ्जस्वञ्जां शपि 6|4|25 इति उपधा-नकारस्य लोपः]
→ दशति ।

2. षन्ज्-धातोः शतृ-प्रत्ययान्तरूपम् -
षन्ज्
→ सन्ज् [धात्वादेः षः सः 6|1|64 इति षकारस्य सकारः]
→ सन्ज् + लट् [वर्तमाने लट् 3|2|123 इति लट् ]
→ सन्ज् + शतृ [लटः शतृशानचौ अप्रथमासमानाधिकरणे 3|2|124 इति शतृ-आदेशः]
→ सन्ज् + शप् + अत् [कर्तरि शप् 3|1|68 इति शप्]
→ सज् + अ + अत् [शप्-प्रत्यये परे दन्शसञ्जस्वञ्जां शपि 6|4|25 इति उपधा-नकारस्य लोपः]
→ सजत् [अतो गुणे 6|1|97 इति गुण-एकादेशः]

3. ष्वञ्ज्-धातोः शानच्-प्रत्ययान्तरूपम् -
ष्वन्ज्
→ स्वन्ज् [धात्वादेः षः सः 6|1|64 इति षकारस्य सकारः]
→ स्वन्ज् + लट् [वर्तमाने लट् 3|2|123 इति लट् ]
→ स्वन्ज् + शानच् [लटः शतृशानचौ अप्रथमासमानाधिकरणे 3|2|124 इति शानच्-आदेशः]
→ स्वन्ज् + मुक् + आन [आने मुक् 7|2|82 इति मुक्-आगमः]
→ स्वन्ज् + शप् + मान [कर्तरि शप् 3|1|68 इति शप्]
→ स्वज् + अ + मान [शप्-प्रत्यये परे दन्शसञ्जस्वञ्जां शपि 6|4|25 इति उपधा-नकारस्य लोपः]
→ स्वजमान

ज्ञातव्यम् - एतेषु त्रिषु धातुषु मूलरूपेण नकारः एव अस्ति । तस्य अनुस्वारपरसवर्णौ त्रिपादीसूत्रैः प्रक्रियायाः अन्ते भवतः ।
One-line meaning in English
The उपधा-नकार of the verbs दंश्, सञ्ज् and स्वञ्ज् is removed in presence of the विकरणप्रत्यय शप् ।
काशिकावृत्तिः
दंश सञ्ज ष्वञ्ज इत्येतेषाम् अङ्गानां शपि परत उपधाया नकारस्य लोपो भवति। दशति। सजति। परिष्वजते।
`दंश दंशने` (धा।प।989), `ष्वन्ज परिष्वङ्गे (धातुपाठः-976)। `परिष्वजते` इति। `उपसर्गात्? सुनोति` 8|3|65 इत्यादिना षत्वम्॥
परिष्वजत इति । ष्वञ्ज परिष्वङ्गे, अनुदातेत्, उपसर्गात्सुनोति इत्यादिना षत्वम् ॥
सिद्धान्तकौमुदी
Text Unavailable. Please use feedback link below to provide the text if you have.
दन्शसञ्जस्वञ्जां शपि - दंशसञ्ज । रञ्जेश्च । व्याख्यासौकर्याय सूत्रद्वयमुपात्तम् । नलोप इति । नकारस्य लोप इत्यर्थः, "श्नान्नलोपः" इत्यतस्तदनुवृत्तेरिति । परिष्वजते इति । "परिनिविभ्यः" इति षत्वमिति भावः । संयोगात्परत्वाल्लिटः कित्त्वेऽप्राप्ते आह — श्रन्थीति । व्याकरणान्तरमिदं पाणिनीयैरपि ग्राह्रमित्याह — दभतुरिति । "अत एकहल्मध्ये" इति सूत्रभाष्येदेभतु॑रित्युदाह्मतम् ।सदेः परस्य लिटी॑ति सूत्रभाष्येसस्वजे॑इत्युदाह्मतम् । ततश्च एकदेशानुमत्याश्रन्थिग्रन्थी॑त्यादिवाक्यं कृत्स्नं व्याकरणान्तरस्थं भाष्यानुमतमिति विज्ञायत इत्यर्थः । सदेरिति ।सदेः परस्य लिटी॑ति षत्वनिषेधसूत्रे स्वञ्जेरपि ग्रहणमित्यर्थः । ततश्च स्वदिस्वञ्ज्योरुत्तरखण्डस्य सस्य षत्वं न स्यादिति लब्धम् । तदाह — अतोऽभ्यासात्परस्येति । परिषस्वजे परिषस्वञ्जे इति ।परस्ये॑त्युक्तेरुत्तरखण्डस्यैव षत्वनिषेधो न त्वभ्यासस्य । कित्त्वपक्षे नलोपः । सस्वञ्जाते । सस्वजाते । सस्वजिरे । क्रादिनियमादिडित्याह — सस्वजिषे सस्वञ्जिषे इति । सस्वञ्जाथे — सस्वजाथे । सस्वञ्जिध्वे — सस्वजिध्वे । सस्वञ्जे — सस्वजे ।सस्वञ्जिवहे — सस्वजिवहे । सस्वञ्जिमहे — सस्वजिमहे । स्वङ्क्तेति । स्वञ्ज् — ता इति स्थिते जकारस्य कुत्वेन गकारे सति श्चुत्वसंपन्नञकारस्य निवृत्तौ नकारस्याऽनुस्वारे तस्य परसवर्णेन ङकारे गकारस्य चर्त्वे रूपम् । एवमग्रेऽपि । स्वजेतेति ।दंशसञ्जे॑ति शपि नलोप इति भावः । ननुप्रत्यष्वह्क्ते॑त्यत्र अटा व्यवधानादुपसर्गस्थादिणः परत्वाऽभावात् कथम्उपसर्गात्सुनोती॑ति षत्वमित्यत आह — प्राक् सितादिति.परिनिविभ्यस्त्विति ।परस्य स्वञ्जे॑रिति शेषः । ननु परिनिविभ्यः परस्यापि स्वञ्जेःपरिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जा॑मिति नित्यमेव षत्वमुचितं,प्राक्सिता॑दिति सूत्रविषयत्वादित्यत आह — तदर्थमेवेत्यादि । परिनिवीति । नित्यषत्वविधौ स्वञ्जिरप्युपात्तः । ततःउपसर्गात्सुनोती॑त्येव तस्य षत्वे सिद्धे पुनरुपादानंसिवादीनां वाऽड्व्यवायेऽपी॑त्युत्तरसूत्रे षत्वविधौ अनुवृत्त्यर्थमेव संपद्यते । परिनिविभ्यः परस्य स्वञ्जेःसिवादीनां वे॑ति षत्वविकल्पार्थं पूर्वसूत्रेपरिनिविभ्यः सेवे॑त्यत्र स्वञ्जिग्रहणमिति पर्यवस्यतीत्यर्थः । हद । अनिडयम् । क्रादिनियमादिट् — जहदिषे । जहदिध्वे । जहदिवहे जहदिमहे । हत्तेति । लुटि तासि दस्य चत्र्वम् । अहत्तेति ।झलो झली॑ति सिज्लोपः । गुपादयोऽष्टानुदात्तेतो गताः । अथ परस्मैपदिन इति । "कित निवासे" इत्यन्ता॑ इति शेषः । ञि ष्विदेति । ञिराकारश्च इत् । सेट् ।स्वेदति । सिष्वेद स्विष्विदतुः । स्वेदेत् । स्विद्यात् । अस्वेदीत् । अस्वेदिष्यत् । स्कन्दिरिरित् । अनिट् । भारद्वाजनियमात्थलि वेडित्याह — चस्कन्दिथ चस्कन्त्थेति । अनिट्पक्षे चस्कन्द् थ इति स्थितेखरि चे॑ति दकारस्य तकारः । चस्कन्दिव चस्कन्दिम । स्कन्त्तेति । लुटि तासि चर्त्वेन दस्य तः । स्कन्त्स्यतीति । स्ये दस्य चत्र्वम् । स्कदन्तु । अस्कन्दत् । स्कन्देत् । आशीर्लिङि विशेषमाह — नलोप इति । इरः समुदायस्य इत्त्वेन धातोरनिदित्त्वादाशीर्लिङि नकारस्य लोप इत्यर्थः । अस्कददिति । लुङि अङि सति ङित्त्वान्नलोप इति भावः । अङभावे आह — अस्कान्त्सीदिति । अनेकहल्व्यवधानेऽपि हलन्तलक्षणा वृद्धिः प्रवर्तत इति निरूपितमक्षूधातौ । अतोऽत्र वृद्धौ दस्य चर्त्वेन त । अस्कान्त्तामिति । हलन्तलक्षणवृद्धौझलो झली॑ति सिज्लोपे दस्य चत्र्वम् । अस्कान्त्सुरिति । उसि सिचि वृद्धौ दस्य चत्र्वम् । अस्कान्त्सीः अस्कान्त्तम् अस्कान्त्त । अस्कान्त्सम् अस्कान्त्स्व । अस्कान्त्स्म ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.