Page loading... Please wait.
7|2|38 - वॄतो वा
॥ तस्मै पाणिनये नमः ॥
7|2|38
SK 2391
वॄतो वा   🔊
सूत्रच्छेदः
वॄतः (पञ्चम्येकवचनम्) , वा (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वृ इति वृङ्वृञोः सामान्येन ग्रहणम्। तस्मादुत्तरस्य ऋ̄कारान्तेभ्यश्च इटो वा दीर्घो भवति। वरिता, वरीता। प्रावरिता, प्रावरीता। ऋ̄कारान्तेभ्यः तरिता, तरीता। आस्तरिता, आस्तरीता। वृ̄तः इति किम्? कर्ष्यति। हरिष्यति। अलिटि इत्येव, ववरिथ। तेरिथ।
Text Unavailable. Please use feedback link below to provide the text if you have.
अत्र यदि वृ वरणे इत्येतस्य तसिला निर्द्देशः स्यात् व्रः इत्येव निर्दिश्येत, यथा ग्रो यङ् ईति । अथ तस्य ऋकारान्तानां च ग्रहणम् एवमपि तस्य पृथग्ग्रहणमनर्थकम्, ऋकारान्तत्वात् । अथ तस्य ऋकारान्तानां एच तथा च सति ऋतश्च संयोगादेः इत्यत्र ऋतः इति न वक्तव्यम् अस्यैवानुवृतेः । अथ वृङ्वृञोः ऋकारान्तानां च तथापि वृग्रहणमनर्थकमृकारान्तत्वात् । तस्माद्वृत्तिकारोपदर्शितानामेव ग्रहणम् । वृत इति किमिति । उः इति वक्तव्यमिति मन्यते ॥
सिद्धान्तकौमुदी
वृङ्वृञ्भ्यामॄदन्ताञ्चेटो दीर्घो वा स्यान्न तु लिटि । तरीता । तरिता । अलिटीति किम् । तेरिथ । हलि च (कौमुदी-354) इति दीर्घः । तीर्यात् ॥
वॄतो वा - वृतो वा । वृ ॠत् इत्यनयोः समाहारद्वन्द्वात्पञ्चम्येकवचनम् । वृ इति वृङ्वृञोग्र्रहणम् ।आद्र्धधातुकस्ये॑डित्यत इडित्यनुवृत्तं षष्ठआ विपरिणम्यते ।ग्रहोऽलिटि दीर्घ इत्यनुवर्तते । तदाह — वृङ्वृञ्भ्यामित्यादि । तरिता तरीतेति । इटो दीर्घविकल्पः ।गुणे रपरत्वम् । तरिष्यति । तरतु । अतरत् । तरेत् । हलि चेति । आशीर्लिङि कित्त्वादृकारस्य गुणनिषेधे, इत्त्वे, रपरत्वे "हलि चे" ति दीर्घे, तीर्यादिति रूपमित्यर्थः । अतारीत् अतारिष्टामित्यादौ "वृतो वा" इति दीर्घे प्राप्ते — सिचि च । अत्रेति । परस्मैपदपरके सिचि वृङ्वृञ्भ्यामृद्नताच्च परस्य इटो दीर्घो नेत्यर्थः ।न लिङी॑त्यतो नेत्यनुवर्तते । अतारिष्टामिति । अतारिषुः । अतारिषम् अतारिष्व अतारिष्म.अतरिष्यत् । गुप गोपने इति । गोपनं — रक्षणम् । तिज निशाने इति । निशानं — तीक्ष्णीकरणम् । मान पूजायाम् । बध बन्धने इति । एते चत्वारोऽनुदात्तेत इति स्थितिः ।
वॄतो वा - वृतो वा । इहआद्र्धधातुकस्ये॑डित्यत इडित्यनुवर्तते,ग्रहो लिटी॑त्यतो लिटि दीर्घ इति च । तदाह — — इटो दीर्घो वेत्यादि ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.