`तस्यौ` इति। `शर्पूर्वाः खयः`
7|4|61 इति खयः शेषः। `जग्लौ` इति। `कहोश्चुः`
7|4|62 इति चुत्वम्। इह `पा` इत्यादिभ्यो णलि परत्रवस्थिते युगपत्? त्रीणि कार्याणि प्राप्नुवन्ति--द्विवचनम्, एकादेशः, औत्वञ्च। तेषाञ्च तथा प्राप्तानां युगपत्प्रवृत्तिः सम्भवतीति सामथ्र्यात्? प्राप्तः क्रम आश्रीयते। तत्र येन क्रमेण तानि कत्र्तव्यानि, तं दर्शयितुमाह--`अत्र` इत्यादि। अत्रेत्यनेन पपवित्यादीन्युदहरणानि प्रत्ययमुश्यन्ते। यदि द्विर्वचनादेकादेशः पूर्वं क्रियते तदा `वृद्धिरेचि`
6|1|85 इति वृद्धावेकादेशे कृते निमित्तनिमित्तिनोविंशेषाभावाल्लिटि परतः पूर्वस्योचयमानं द्विवचनं न प्राप्नोतीति तस्य निरासायेदमुक्तम्--स्थानिवद्भावो द्विर्वचनमिति। केन पुनरत्र स्थानिवद्भावः? `द्विर्वचनेऽचि`
1|1|59 इत्यनेन? नैवम्; द्विर्वचननिमित्तेऽपि परतः पूर्वस्योच्यमानं द्विवचनं न प्राप्नोतीति तस्य निरासायेदमुक्तम्--स्थानिवद्भावो द्विर्वचनमिति। केन पुनरतर स्थानिवद्भावः? `द्विर्वचनेऽचि`
1|1|59 इत्यनेन? नैवम्; द्विर्वचननिमित्तेऽचि परतः पूर्वसय स्थानिवद्भाव उच्यते, न चात्र द्विर्वचननिमित्तं परमचं पश्यामः। अत्र क्चिदाहुः--अचीत्युपलक्षणम्, अचि य आदेशो दृष्टः स द्विर्वचने कत्र्तव्ये स्थानिवद्भवतीतीमं सूत्रार्थमाश्रित्यैतदुक्तम्। इह सम्प्रत्यनच्परत्वेऽप्येकादेशकरणकालेऽचः परस्य निमित्तभावेनश्रयणादच्ययमादेशः कृतः। तस्माद्भवितव्यं स्थानिवद्भावेन। अन्ये त्वाहु--`एकादेशः पूर्वविधौ स्थानिवद्भवतीति वक्तव्यम्` इत्यनयेष्टआ स्थानिवद्भावः। `द्विर्वचनेऽचि`
1|1|58 इति योगाविभागाद्वा स्थानिवद्भावः इत्यपरे। कथं पुनरयमेषां कार्याणां क्रम उपलभ्यते? इत्यत आह--`एकादेशात्` इत्यादि। पा+अ इति स्थितेऽकः सवर्णे दीर्घत्वं
6|1|97 प्राप्नोति, औत्वञ्च। तत्रैकादेशः--दण्डाग्रमित्यादौ सावकाशः, औत्वं तु न क्वचित्? सावकाशम्; अतस्तावदनवकाशत्वात्? प्रागौत्वं क्रियते, ततर कृते वृद्धिः प्रापनोति, द्ववचनञ्च, तत्र परत्वाद्वृद्धिर्भवति। द्विवचनं हि--पपाचेत्यादौ सावकाशम्, वृद्धेस्त्ववकाशः--खट्वैडकेत्यादौ। अतो वृद्धौ कृतायां पश्चाद्भवति द्विर्वचनं स्थानिवद्भावेन!`णलः` इति। णकारोच्चारणं प्रत्ययग्रहणं यथा स्यात्। णलो णकारोच्चारणे हि णल्प्रत्ययोऽस्तीति तस्य ग्रहणं भवति। तस्मश्चासत्यल इत्युच्यमाने सत्यल्प्रत्ययस्याभावात्? प्रत्याहारग्रहणं विज्ञायेत। लकारोच्चारणं `श्याद्व्यध`
3|1|141 इत्यादिना विहितस्य णप्रत्ययस्य ग्रहणं मा भूदित्येवमर्थम्। अथ `एकवचनस्य`
7|1|32 इत्यनुवत्र्तते? तथा सति मुखसुखार्थम्॥