Page loading... Please wait.
7|2|70 - ऋद्धनोः स्ये
॥ तस्मै पाणिनये नमः ॥
7|2|70
SK 2366
ऋद्धनोः स्ये   🔊
सूत्रच्छेदः
ऋद्धनोः (षष्ठीद्विवचनम्) , स्ये (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ऋकारान्तानां धातूनां हन्तेश्च स्ये इडागमो भवति। करिष्यति। हरिष्यति। हनिस्यति। स्वरतेर् वेट्त्वातृद्धनोः स्ये इत्येतद् भवति विप्रतिषेधेन। स्वरिष्यति। तपरकरणं विस्पष्टार्थम्।
विभाषेति निवृत्तम्। ऋकारान्तानां हन्तेश्चानुदात्तत्वात्? `एकाचः` 7|2|10 इत्यादिना प्रतिषिद्धस्येदः स्ये विधानार्थमेतत्। अथ स्वरतेः स्वरत्यादिसूत्रेण 7|2|44 पक्ष इट्? अथानेन नित्यमित्याह--`स्वरतेः` स्ये विधानार्थमेतत्। अथ स्वरतेः स्वरत्यादिसूत्रेण 7|2|44 पक्ष इट्, अथानेन नित्यामित्याह--`स्वरतेः` इत्यादि। स्वरतेर्धातोर्यत्? स्वरत्यादि 7|2|44 सूत्रेण वेट्त्वं विहितं तस्मादनेन स्ये ऋकारान्तेभ्यो विधीयमानं नित्येट्त्वं भवति विप्रतिषधेन। अञ्चार्थः स्वरत्यादिसूत्र उक्तेऽपि विस्मरणशीलानामनुग्रहाय पुनरिहोच्यते। अथ तपरकरणं किमर्थम्? दीर्घाणां मा भूदिति चेत्? नैतदस्ति; उदात्तत्वाद्धि तेषां भवितव्यमेवेटा। एवं तह्र्रसति तपरकरणे यथा `स्मिपूङ्रञ्ज्वशां सनि` 7|2|74 इत्यत्र स्वरत्यादिसाहचर्यात्? `ऋः` इत्येतस्य धातोग्र्रहणम्, तथेहापि हन्तिना साहचार्यात्? `ऋ` इत्येतस्य धातोग्र्रहणं स्यात्। तपरत्वे तु सति वर्णग्रहणमेतद्विज्ञायते। वर्णनिर्देशे हि तपरत्वं प्रसिद्धम्। वर्णग्रहणे च वर्णग्रहणानि सर्वत्र तदन्तविधिं प्रयोजयन्तीति ऋकारान्तानामिट सिद्धो भवति॥
स्वरत्यादिसूत्रे यदुक्तम् - स्वरतेरेतस्माद्विकल्पादित्यादि, तदेव स्मारयति - स्वरतेर्वेट्त्वादिति । वाविकल्पित इड।ल्स्य स वेट्, तस्य भावो वेट्त्वम्, स पुनर्विकल्पितेट्सम्बन्धः ॥
सिद्धान्तकौमुदी
ऋतो हन्तेश्च स्यस्य इट् स्यात् । भरिष्यति ॥
ऋद्धनोः स्ये - लृटि स्ये इण्निषेधे प्राप्ते — ऋद्धनोः । ऋत् हन् अनयोद्र्वन्द्वात्पञ्चम्यर्ते षष्ठी ।स्ये॑षष्ठर्थे सप्तमी ।आद्र्धधातुस्ये॑डित्यत इडित्यनुवर्तते । तदाह — ऋत इत्यादिना । "एकाच" इतीणनिषेधस्यापवादः । भरिष्यतीति । भरिष्यते । भरतु भरताम् । अभरत् अभरत । भरेत् भरेत ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
ऋद्धनोः स्ये ।। स्वरतेर्वेट्त्वादृतः(1) स्ये (ःथ्द्य;ति(2)) विप्रतिषेधेन ।। स्वरतिलक्षणाद्वावचनादृतः स्य इत्येतद्भवति विप्रतिषेधेन । स्वरतिलक्षणस्य वावचवनस्यावकाशः स्वर्ता स्वरिता । ऋतः स्य इत्यस्यावकाशः ‐ करिष्यते हरिष्यते । इहोभयं प्राप्नोति ‐ स्वरिष्यति । अस्वरिष्यत् । ऋतः स्ये इत्येतद्भवति विप्रतिषेधेन ।।