`पिपक्षति` इत्यादि। पचियज्यो रूपे। `पिपासति` इति। पातेः, पिबतेर्वा। `लुलूषति` इति। `लूञ्? छेदने` (धातुपाठः-1483)। `इको झल्`
1|2|9 इति कित्त्वाद्गुणाभावः। `सनि ग्रहगुहोश्च`
7|2|12 इतीट्प्रतिषेधः। तपरकरणं किमर्थम्? पापच्यतेः सन्? पापचिषत इत्यत्र मा भूत्। किं पुनः कारणमत्र ह्यस्वो न भवति? दीर्घविधानसामथ्र्यात्। यदि `सनि योऽभ्यासः` इत्येवं विज्ञायेत, [विज्ञायते-प्रांउ। पाठः] ततो मुखसुखार्थम्॥