Page loading... Please wait.
8|2|65 - म्वोश्च
॥ तस्मै पाणिनये नमः ॥
8|2|65
SK 2309
म्वोश्च   🔊
सूत्रच्छेदः
म्वोः (सप्तमीद्विवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
मकारवकारयोश्च परतः मकारान्तस्य धातोः नकारादेशो भवति। अगन्म तमसः पारम्। अगन्व। गमेर्लङि बहुलं छन्दसि इति शपो लुक्। जगन्वान्। विभाषा गमहनजनविदविशाम् 7|2|68 इति क्वसौ इडागमस्य अभावः। अपदान्तार्थः आरम्भः।
`अगन्म` इति। `स उत्तमस्य` 3|4|98 इति सकारलोपः। `जगन्वान्` इति। गमेर्लिट्, क्वसुः, हल्ङ्यादि 6|1|66 संयोगान्तलौपौ 8|2|23 , `सान्तमहतः` 6|4|10 इति दीर्घः, `गमहन` 6|4|98 इत्यादिनोपधालोपः। `छन्दस्युभयथा` 3|4|117 इति सार्वधातुकत्वं न भवति। चकारः `धातौः` इत्यनुकर्षणार्थः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
मान्तस्य धातोर्मस्य नकारादेशः स्यान्मकारे वकारे च परे णत्वम् । चक्षण्वहे । चक्षमिमहे । चक्षण्महे । क्षमिष्यते । क्षंस्यते । क्षमेत । आशिषि, क्षमिषीष्ट । क्षंसीष्ट । अक्षमिष्ट । अक्षंस्त । 443 कमु कान्तौ । कान्तिरिच्छा ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
म्वोश्च - कमु कान्तौ । अस्य णिङभावेउदितो वे॑ति क्त्वायामिड्विकल्पः । कमित्वा । कान्त्वा । निष्ठायां तुयस्य विभाषे॑ति निषेधात्कान्तः ।
लघुसिद्धान्तकौमुदी
मान्तस्य धातोर्नत्वं म्वोः परतः। जगन्वान्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.