Page loading... Please wait.
7|1|61 - रधिजभोरचि
॥ तस्मै पाणिनये नमः ॥
7|1|61
SK 2302
रधिजभोरचि   🔊
सूत्रच्छेदः
रधि-जभोः (षष्ठीद्विवचनम्) , अचि (सप्तम्येकवचनम्)
अनुवृत्तिः
नुम्  7|1|59 (प्रथमैकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
रधि-जभोः अचि नुम्
सूत्रार्थः
रध्-धातोः जभ्-धातोः च अजादिप्रत्यये परे नुमागमः भवति ।
रधँ (हिंसासंराध्योः) इति दिवादिगणस्य धातुः । जभीँ (गात्रविनामे) इति भ्वादिगणस्य धातुः । एतयोः धात्वोः अजादि-प्रत्यये परे नुमागमः भवति । यथा -

1. रध् धातोः अनीयर्-प्रत्ययान्तरूपम् -
रध् + अनीयर् [तव्यत्तव्यानीयरः 3|1|96 इति तव्यत्-प्रत्ययः]
→ रन् ध् + अनीय [रधिजभोरचि 7|1|61 इति नुमागमः]
→ रं ध् + अनीय [नश्चापदान्तस्य झलि 8|3|24 इति अनुस्वारः]
→ रन्धनीय [अनुस्वारस्य ययि परसवर्णः 8|4|58 इति परसवर्णः मकारः]

2. जभ्-धातोः तव्यत्-प्रत्यये परे रूपम् -
जभ् + तव्यत् [तव्यत्तव्यानीयरः 3|1|96 इति तव्यत्-प्रत्ययः]
→ जभ् + इट् + तव्य [आर्धधातुकस्य इड्वलादेः 7|2|35 इति इडागमः]
→ जन् भ् + इ + तव्य [यदागमास्तद्गुणीभूताः तद्ग्रहणेन गृह्यन्ते अनया परिभाषया इट्-आगमः प्रत्ययस्यैव अवयवरूपेण कार्यम् करोति । अतः अत्र "इतव्य" इति अजादिप्रत्ययः अस्ति । अतः रधिजभोरचि 7|1|61 इति नुमागमः भवति ।]
→ जंभितव्य [नश्चापदान्तस्य झलि 8|3|24 इति अनुस्वारः]
→ जम्भितव्य [अनुस्वारस्य ययि परसवर्णः 8|4|58 इति परसवर्णः मकारः]

3. जभ् धातोः लट्-लकारस्य प्रथमपुरुषैकवचनम् -
जभ् + लट् [वर्तमाने लट् 3|2|123 इति लट्]
→ जभ् + त [तिप्तस्.. 3|4|78 इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् "त" प्रत्ययः]
→ जभ् + शप् + त [कर्तरि शप् 3|1|68 इति औत्सर्गिकम् विकरणम् शप्]
→ जन् भ् + अ + त [रधिजभोरचि 7|1|61 इति नुमागमः]
→ जन् भ् + अ + ते [टित आत्मनेपदानां टेरे 3|4|79 इति एकारः]
→ जं भ ते [नश्चापदान्तस्य झलि 8|3|24 इति अनुस्वारः]
→ जम्भते [अनुस्वारस्य ययि परसवर्णः 8|4|58 इति परसवर्णः मकारः]

4. रध्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -
रध् + लिट् [परोक्षे लिट् 3|2|115 इति लिट्]
→ रध् + रध् + लिट् [लिटिधातोरनभ्यासस्य 6|1|8 इति द्वित्वम्]
→ र रध् + लिट् [हलादि शेषः 7|4|60 इति अभ्यासस्य धकारलोपः]
→ र रध् + तिप् [तिप्तस्झि... 3|4|78 इति मध्यमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ र रध् + णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3|4|82 इति तिप्-प्रत्ययस्य णल्-आदेशः]
→ र र नुम् ध् + अ [रधिजभोरचि 7|1|61 इत्यनेन नुमागमः]
→ ररंध [नश्चापदान्तस्य झलि 8|3|24 इति अनुस्वारः]
→ ररन्ध [अनुस्वारस्य ययि परसवर्णः 8|4|58 इतो परसवर्णः नकारः]

ज्ञातव्यम् -
1. अस्मिन् सूत्रे रधिजभोः इत्यनेन उपरिनिर्दिष्टौ धातू एव ग्रहीतव्यौ । चुरादिगणे रधिँ (भाषायाम्) तथा जभिँ (नाशने) एतौ अपि धातौ स्तः, परन्तु एतयोः विषये इदितो नुम् धातोः 7|1|58 इत्यनेन नित्यमेव नुम् विधीयते, अतः तयोः विषये अस्य सूत्रस्य आवश्यकता नास्ति ।
2. "नुम्" अयम् आगमः मित्-आगमः अस्ति, अतः मिदचोऽन्त्यात्परः 1|1|47 इत्यनेन अन्त्यात् अचः परः आगच्छति ।
3. यस्मिन् विधिः तदादौ अल्ग्रहणे अनया परिभाषया "झलि" इत्यस्य अर्थः "झलादौ" इति क्रियते ।
4. रध्-धातोः सार्वधातुक-लकाराणाम् रुपेषु हलादि विकरणप्रत्ययः "श्यन्" आगच्छति, अतः तेषु अस्य सूत्रस्य प्रसक्तिः नास्ति ।
आर्धधातुक-प्रत्ययेषु परेषु रधादिभ्यश्च 7|2|45 इत्यनेन विकल्पेन इडागमे कृते, इडागमस्य उपस्थितौ अनेन सूत्रेण नुमागमे प्राप्ते नेट्यलिटि रधेः 7|1|62 इत्यनेन लिट्-लकारम् विहाय अन्यत्र सर्वत्र सः निषिध्यते ।
One-line meaning in English
The verb roots रध् and जभ् get a नुमागम when followed by an अजादि प्रत्यय.
काशिकावृत्तिः
रधि जभि इत्येतयोः अजादौ प्रत्यये नुमागमो भवति। रन्धयति? रन्धकः। साधुरन्धी। रन्धंरन्धम्। रन्धो वर्तते। जम्भयति। जम्भकः। साधुजम्भी। जम्भंजम्भम्। जम्भो वर्तते। परापि सती वृद्धिर्नुमा बाध्यते, नित्यत्वातचि इति किम्? रद्धा। जभ्यम्।
`रन्धयति` इति। `रध हिंसासंराद्ध्याः` (धातुपाठः-1193) हेतुमण्णिच्। `रब्धकः` इति ण्वुल। `साधुरन्धी` इति। `सुप्यजातौ णिनिस्ताच्छील्ये` 3|2|78 इति णिनिः। `रन्धंरन्धम्` इति। `आभीक्षण्ये। णमुल्` 3|4|22 , `आभीक्षण्ये द्वे भवतः` (वा।887) इति द्विर्वचनम्। `रन्धो वत्र्तते` इति। भावे घञ्। अथ रन्धयतीत्यादिषु परत्वात्? `अत उपधायाः` 7|2|116 इति वृद्धिः प्राप्नोति, सा कस्मान्न भवति? इत्यत आह--`परापि सती` इत्यादि। नित्यत्वं पनः कृताकृतप्रसङ्गित्वान्नुमः। स हि कृतायां वृद्धौ प्राप्नोत्यकृतायामपीति नित्यः; वृदधिस्तु नुमि कृते न प्राप्नोत्यकारस्यानुपधत्वादित्यनित्या। `रद्धा` इति। `झषस्तथोर्धोऽधः` 8|2|40 इति तकारस्य धकारः, धातुधकारस्य जश्त्वम्--दकारः॥
रध हिंसासंराध्योः जभ जृभी गात्रविनामे, इहास्य नुमोऽवकाशः - रन्धनम्, ररन्धतुरित्यादि, अत उपधायाः वृद्धेरवकाशः - पाचकः, पाठकः, रन्धकैत्यादावुभयप्रसङ्गे परत्वाद्वद्धिः प्राप्नोति तत्राह - परापि सतीति । वृद्धिस्तु नुमि कृते न प्राप्नोति, अकारस्यानुपधात्वादित्यनित्या । रद्धेति । रधादिभ्यश्च इति पक्षे इडभावः झपस्तथोर्धोऽधः इति तकारस्य धत्वम् । इह जभेरचि रधेलिटि च नेटि - इति सूत्रन्यासः कर्तव्यः तथा तु न कृतमित्येव ॥
सिद्धान्तकौमुदी
एतयोर्नुमागमः स्यादचि । जम्भते । जजम्भे । जम्भिता । जम्भिष्ट । जृम्भते । जजृम्भे । 390 शल्भ कत्थने । शशल्भे । 391 वल्भ भोजने । दन्त्योष्ठ्यादिः । ववल्भे । 392 गल्भ धाष्टर्थे । गल्भते । 393 श्रम्भु प्रमादे । तालव्यादिर्दन्त्यादिश्च । श्रम्भते । स्रम्भते । 394 ष्टुभु स्तम्भे । स्तोभते । विष्टोभते । तुष्टुभे । व्यष्टोभिष्ट ॥ अथ परस्मौपदिनः ॥ 395 गुपू रक्षणे
रधिजभोरचि - रधिजभोः ।रध हिंसाया॑मिति श्यन्विकरणस्य चतुर्थान्तस्य इका निर्देशः ।इदितो नुम् धातो॑रित्यतो नुमित्यनुवर्तते । तदाह — एतयोरिति । अनिदित्त्वान्नुम्विधिः । जम्भत इति । शपि नुम् ।जम्भिते॑त्यादाविटि अच्परकत्वान्नुम् । अचि किम् । रद्धा । जब्धम् । श्रम्भु इति । अकारमध्यः । ष्टुभु स्तम्भ इति । ष्टुत्वेन तकारस्य टः । षोपदेशोऽयम् । विष्टोभत इति ।उपसर्गात्सुनोती॑ति षत्वम् । व्यष्टोभिष्टेति ।प्राक्सितादड्व्यवायेऽपी॑ति षत्वम् । तिपृ इत्यादयः स्तोभत्यन्ता अनुदात्तेतो गताः । गुपू रक्,ण इति । ऊदिदयम् ।
रधिजभोरचि - रन्धयति । परापि वृद्धिर्नित्येन नुमा बाध्यते । अचीति किम् । रद्दा । जब्धा ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.