Page loading... Please wait.
7|2|63 - ऋतो भारद्वाजस्य
॥ तस्मै पाणिनये नमः ॥
7|2|63
SK 2296
ऋतो भारद्वाजस्य   🔊
सूत्रच्छेदः
ऋतः (पञ्चम्येकवचनम्) , भारद्वाजस्य (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ऋकारान्ताद् घातोः भारद्वाजस्य अचार्यस्य मतेन तासाविव नित्यानिटस्थलि इडागमो न भवति। स्मर्ता सस्मर्थ। ध्वर्ता दध्वर्थ। सिद्धे सत्यारम्भो नियमार्थः, ऋत एव भारद्वाजस्य, नान्येषां धातूनाम्। ययिथ। वविथ। पेचिथ। शेकिथ। तदयम् अर्थात् पूर्वयोः योगयोर्विकल्पः। तपरकरणम् ऋकारान्तस्य निवृत्त्यर्थम्। तथा हि सति विध्यर्थम् एतत् स्यात्।
`सस्मर्थ` इति। `स्मु चिन्तायाम्` (धातुपाठः-933)। `दध्वर्थ` इति। `ध्वृ हूर्छने` (धातुपाठः-939)। ननु यद्यप्यकारान्तानां मद्ये वृङ्वृञावुदात्तौ तत्रापि वृङस्थल्न सम्भवत्येव, आत्मनेपदितत्वात्। वृञस्तु `ववर्थेति निगमे` 7|2|64 निपातनाद्भाषायामिटा भवितव्यमेव, तस्मात्? तयोरिट्प्रतिषेधार्थमेतन्नोपपद्यते; ये त्वन्ये ऋकारान्ताः, तेषामनुदत्तत्वात्? तासौ नित्यमनिट्त्वामिति `अचस्तास्वत्? थल्यनिटो नित्यम्` 7|2|61 इतीट्प्रतिषेधः सिद्ध एव, परत्वाद्गुणे कृते रपरत्ये चानजन्तत्वान्न सिध्यतीत्येवमेतन्नाशङ्कनीयम्; उपदेशग्रहणस्य पुरस्तादनुकृष्टस्य `अचः` इत्यनेनाभिसम्भन्धात्; अथ वा--`अचः` इति विहितविशेषणा पञ्चमी, तत्रैवं विज्ञास्यामः--अजन्ताद्यो वहितस्थलिति, तस्मादचस्तास्वदित्यनेनैव ऋकारन्तेभ्यः प्रतिषेधः सिद्धः, तत्किमर्थोऽप्यमारम्भः? इत्याह--`सिद्धे सत्यारम्भो नियमार्थः` इति। `नान्येभ्यः` इति। के पुनस्ते? य ऋकारान्तादन्येऽजन्ताः, अनजन्ताश्चोपदेशेऽत्वन्तः। अथैवं कस्मान्नियमो न विज्ञायते--ऋतो भारद्वाज्यैव, नान्येषामाचार्याणामिति? एवं मन्यते--पूर्वसूत्रादयोऽत्वत इति चनुवत्र्तते, तदनुवृत्तेरेतदेव प्रयोजनम्--अनेन नियमेन सन्निधानात्? तस्यैवाजन्तस्यानुवृत्तस्यात्वतश्च प्रकृतस्य धातोः। तथा च तदनुवृत्तिरपार्थिका स्यात्। तस्मावृत एव भारद्वाजस्येत्ययमेव नियमो विज्ञायत इत्याह--`तत्` इत्यादि। तदिति हेतौ। यस्मादेवंविधोऽत्र नियमः--तस्मादृत एव भारद्वाजस्य प्रतिषेधो भवति, नान्येभ्यो धातुभ्य ति। तेन यद्यपि पूर्वयोगाभ्यां नित्यमिट्प्रतिषेधः कृतः, तथां च सामर्थ्थात्? पूर्वयोगयोरयं विकल्पो भवति। यद्यपि तत्र वाग्रहणम्, आचर्यग्रहणं च क्रियते, तथाप्यर्थाल्लभ्यते। अथ तपरकरणं किमर्थम्, न `उर्भारद्वाजस्य` इत्येवोच्येत? इत्याह--`तपरकरणम्` इत्यादि। यदि ह्रुरित्येवोच्येत, ततोऽण्? सवर्णान्? गृह्णातीति ऋकारान्तानामपि ग्रहणं स्यात्। ततस्तन्निवृत्त्यर्थं तपरकरणम्। किं पुनः स्याद्यद्युकारान्तानां ग्रहणं न स्यात्? इत्यत आह--`तथा हि` इत्यादि। तथेत्येवमर्थे। हिशब्दो यस्मादर्ये। एवं यस्मात्? तपरकरणमन्तरेणापि ऋकारानातानां ग्रहणे सति विध्यर्थमेतत्? सम्भाव्येत। असति हि विधेये नियमो भवति। ऋकारान्तानां ग्रहणे सति तेषामेव प्रतिषेधो विधेयः स्यात्, न हि तेषां पूर्वेण प्रतिषेधः सिद्धः। सर्वेषामृकारान्तानां तासौ नित्यम्; सेट्त्वात्?। तपरकरणे तु सति तकारेण दीर्घनिवृत्तौ कृतायां विधेयताभावान्नियमोऽयं सम्पद्यते॥
सस्मर्थेति । स्मृ चिन्तायाम् । दध्वर्थेति । ध्वृ हूर्छने । सिद्धे सतीत्यादि । अदन्तानां वृङ्वृञावुदातौ । तत्रापि वृङ्स्थल् न सम्भवति, आत्मनेपदित्वात् । वञस्तु ववर्थेति निपातनाद्भाषायामिटां भाव्यम् । तस्मातयोरिट्प्रतिषेधार्थं तावदेतन्नोपपद्यते । अन्येऽदन्तास्तासौ नित्यानिटः इति अचस्तास्वत् इत्यनेनैव सिद्धः प्रतिषेधः । ननु च परत्वाद् गुणे कृते रपरत्वे चानजन्तत्वान्न सिद्ध्यति, पूर्वसूत्रेणाप्यसिद्धिरेव, न ह्यकारान्ता उपदेशेऽत्वन्तः, तस्मान्नियमानुपपतिः अस्तु तर्हि दध्वर्थेत्यादौ विध्यर्थमेव । यद्येवम्, स्थायापचिप्रभृतिषु पूर्वयोगाभ्यां नित्यं थलि प्रतिषेधप्रसङ्गः, जहर्थेत्यादौ भारद्वाजस्येति वचनाद्विकल्पेप्रसङ्गः एवं अचस्तास्वत् इत्यज्ञैव भारद्वाजग्रहणं करिष्यते, तदेवानन्तरयोगेऽप्यनुवर्तिष्यते, इह तु निवर्तिष्यते सत्यम्, अयं तु भारद्वाजः स्वस्मान्मतात्प्रच्यावितो भवति । तस्य मतम् - ऋकारान्तदन्यत्र ययिथ, पेचिथेतीड्भवति, अकारान्ते नेति । त्वदुक्ते तु न्यासे मतविपर्ययः कृतो भवति । एवं तर्ह्युपदेशग्रहणस्य अचस्तास्वत् इत्यत्रापकर्षादुपदेशेऽजन्तत्वात्सिद्धः प्रतिषेध इति मन्यते । ऋत एव भारद्वाजस्येति । विपरीतस्तु नियमो न भवति - ऋतो भारद्वाजस्यैवेति । यदि स्यान्नियमाश्रयणनर्थकं स्यात्, पूर्वोक्तेन प्रकारेण विध्यर्थत्वमेवाश्रयणीयं स्यात् । पूर्वयोर्योगयोरिति । ऋकारान्तेषु अनन्तरस्य विधिर्वा भवति इति न्यायस्य तावदसम्भवः । यस्य तर्हि प्रसङ्गः अचस्तास्वत् इति, तस्यैव नियमो युक्तः, तत्कथं पूर्वयोर्योगयोर्द्वयोरपि विकल्पः एवं मन्यते - द्वयोरनन्तरमस्यारम्भातासौ नित्यमनिटां मध्ये ऋत एव भारद्वाजस्य एनान्येषाम् - इत्येवं सामान्याकारेण नियम आश्रयणीय इति । तथा हि सतीति । असति तपरकरणे आञ्कारान्तनामप्यत्र ग्रहणं स्यात्, तेषां च तासौ सिद्धत्वाद् अतस्तास्वत् इत्यस्याप्रसङ्गे विध्यर्थमेवेदं स्यात्, न ह्रस्वग्रहणेन नियमार्थम्, विधिनियमसम्भवे विधेरेव ज्यायस्त्वादित्यर्थः ॥
सिद्धान्तकौमुदी
तासौ नित्यानिट ऋदन्तादेव थलो नेट् भारद्वाजस्य मतेन । तेनान्यस्य स्यादेव । अयमत्र संग्रहः ॥ अजन्तोऽडकारवान्वायस्तास्यनिट् थसि वेडयम् । ऋदन्त ईदृङ्नित्यानिट् क्राद्यन्यो लिटि सेड्भवेत् ॥ 1 ॥ न च स्तुद्र्वादीनामपि थलि विकल्पः शङ्कयः । अचस्तास्वत्--(कौमुदी-2294) इति उपदेशेऽत्वतः (कौमुदी-2295) इति च योगद्वयप्रापितस्यैव हि प्रतिषेधस्य भारद्वाजनियमो निवर्तकः । [(परिभाषा - ) अनन्तरस्य] इति न्यायात् । विवयिथ । विवेथ । आजिथ । विव्यथुः । विव्य । विवाय । विवय । विव्यिव । विव्यिम । वेता । अजिता । वेष्यति । अजिष्यति । अजतु । आजत् । अजेत् । वीयात् ॥
ऋतो भारद्वाजस्य - ऋतो भा । तासौ नित्यमनिट इति, थलीति, नेति, इडिति चानुवर्तते । भारद्वाजस्य मते ऋदन्ताद्धातोः परस्य थलो नेडिति फलितं । ह्मञ्धृञादौअचस्तास्व॑दित्येव सिद्धम् । अतो नियमार्थमिदमित्याह — ऋदन्तादेवेति । अनृदन्तात्परस्य तु थल इट् स्यादेवेत्येवकारार्थः । तदाह — अन्यस्य स्यादेवेति । ऋदन्तभिन्नात्परस्य थल इट् स्यादेवेत्यर्थः । तथा च ऋदन्तभिन्नाद्धातोः परस्य थलो नेण्निवृत्तिरति भारद्वाजमते फलतीति न वैयथ्र्यमिति भावः । तथा च अनृदन्ताद्धातोः परस्य थलो भारद्वाजमते इट्,मतान्तरे तु अचस्तास्वदिति उपदेशेऽत्वत ति च तत्र नेडति विकल्पः फलतीति भावः । तद्यथा — पपिथ-पपाथ । पेचिथ- पपक्थ । अयमत्रेति । कृसृभृवृस्तुद्रुरुआउश्रुवो लिटी॑ति,अचस्तास्वत्थल्यनिटो नित्य॑मिति, "उपदेशेऽत्वत" इति,ऋतो भारद्वाजस्ये॑ति च सूत्रचतुष्टयस्य विषयाणां सङ्ग्रहो वक्ष्यत इत्यर्थः । अजन्त इति । यो धातुः ऋदन्तभिन्नाऽजन्तो ह्यस्वाकारवान् वा तासौ नित्याऽनिट् नित्याऽनिडित्यर्थः ।अचस्तास्व॑दिति पाणिनिमतेऋतो भारद्वाजस्ये॑ति भारद्वाजमतेऽपि तस्य अनिट्कत्वादिति भावः । क्राद्यन्य इति । क्राद्यष्टभ्योऽन्यो धातुर्लिटि नित्यं सेडित्यर्थः । क्राद्यष्टभ्य एव परस्य लिटि नेडिति कृसृभृवृ इति सूत्रेण नियमितत्वादिति भावः । नन्वत्र क्राद्यन्य इत्युक्त्या क्रादीनामष्टानां लिटि नित्यानिट्कत्ववगतं तदनुपपन्नं, स्तुद्रुरुआउश्रुवामृदन्तभिन्नत्वेन तेभ्यस्थलि अचस्तास्वदिति निषेधस्य भारद्वाजमतेऽप्रवृत्त्या इड्विकल्पस्य दुर्वारत्वात् । नचैवं सति कृसृभृवृ इति सूत्रे स्तुद्रुरुआउश्रुग्रहणमनर्थकमिति वाच्यं, तुष्टुव तुष्टुमेत्यादौ वमादिषु क्रादिनियमप्राप्तस्य इटो निवृत्त्या चरितार्थत्वादित्याशङ्क्य निराकरोति — न चेति । कुत इत्यत आह — अचस्तास्वदिति । ऋदन्तादेव परस्य थल इण्निषेधः, अनृदन्तात्परस्य तु थल इण्निषेधो नेति भारद्वाजीयं मतम् । अयं च इण्निषेधस्य निषेधः "अचस्त्वास्व" दिति "उपदेशेऽत्वत" इतिच सूत्रद्वयप्राप्तस्यैव इण्निषेधस्य पक्षे निवर्तको न तुक्रादिसूत्रप्राप्तस्य इट् प्रतिषेधस्यापीत्यर्थः । कुत इत्यत आह — अनन्तरस्येति ।अचस्तास्व॑दिति "उपदेशेऽत्वत" इतिऋतो भारद्वाजस्ये॑तिच सूत्रक्रमः । कृसृभृवृ इति सूत्रं तु ततः प्राग्बहुव्यवहितमिति भावः । किंच "नेड्वशि कृती" त्यादिप्रतिषेधकाण्डोत्तरम्आद्र्धधातुकस्येड्वलादे॑ रिति विधिकाण्डारम्भसामथ्र्यादपि स्तुद्रुस्रुश्रुवामिण्निषेधो भारद्वाजनियमं बाधत इति "नेड्वशि कृती" त्यत्र ,वस्वेकाजाद्धसा॑मित्यत्र च भाष्ये स्पष्टम् । ततश्च प्रकृते अजेस्थलि वीभावे तस्य अजन्तत्वात्तासौ नित्याऽनिट्त्त्वाच्च इड्विकल्प इति सिद्धं । तदाह — -विवयिथ विवेथेति । सिबादेशस्य थलः पित्त्वादसंयोगादिति कित्त्वाऽभावाद्गुणः । इट्पक्षेऽयादेशः । आजिथेति ।वलादावाद्र्धधातुके वेष्यते इति वीभावाऽभावपक्षे अजधातोरनुदात्तोपदेशबहिर्भूतत्वादिट् । द्वित्वम् । हलादिः शेषः ।अत आदे॑रिति दीर्घः । विव्यथुरिति । अथुसि वीभावे द्वित्वे अभ्यासह्यस्वे असंयोगादिति कित्त्वाद्गुणाऽभावे इयङपवादे "एरनेकाच" इति यणि रूपम् । विव्येति । थस्य अकारे वीभावादि । विवाय विवयेति ।णलुत्तमो वे॑ति णित्त्वविकल्पाद्वृद्धिविकल्पः । विव्यिव विव्यिमेति ।क्राद्यन्यो लिटि सेड्भवे॑दिति नित्यमिटि यण् । वेता अजितेति । लुटि तासि वीभावविकल्पः । वेष्यति अजिष्यतीति । लृटि स्ये वीभावविकल्पः । वीयादिति । आशीर्लिङादेशस्य आद्र्धधातुकत्वाद्वीभावः ।
ऋतो भारद्वाजस्य - ऋतो भारद्वाजस्य । तपरकरणात्कृगृप्रभृतिषु दीर्घान्तेषु नायं निषेधः प्रवर्तते । ह्यस्वान्तेषु ह्मञ्धृञादिषुअचस्तास्व॑दित्येव सिद्धं, वृरञ्वृङौ तु यद्यपि सेटौ, तथापि वृङः थलेव नास्ति, आत्मनेपदित्वात्, वृञस्तु छन्दसिववर्थे॑ति निपातनाद्ववरिथेति भाषायमिटा भाव्यम् । त्समान्नियमोऽयमित्याह — - ऋदन्तादेवेति । जहर्थ । दधर्थ । अन्यस्य स्यादेवेति । एवं च भारद्वाजमते स्यादन्यमते न स्यादिति विकल्पः फलितः । पपिथ । पपाथ । पेचिथ । पपक्थ । इयजिथ । इयष्ठ । अकारवानिति । ह्यस्वाऽकारवानित्यर्थः । ईदृगिति । यस्तास्यनिट् स ऋदन्तस्थलि नित्याऽनिड्भवतीत्यर्थः । ननु स्तुद्रुरुआउश्रुवामपि थलि भारद्वाजनियमादिट् स्यात् । न चैवं क्रादिसूत्रे तेषां पठनं निरर्थकं स्यादिति वाच्यं, तत्पठनस्य वमादिष्विण्निवृत्त्यर्थतया सफलत्वात् । अन्यथा क्रादिनियमात्तत्र इडागमो दुर्वारः स्यादित्याशङ्क्याह — न चेति । योगद्वयेति । क्रादियोगप्रापितस्य तु न निवर्तक इति भावः । कुत इत्याकाङ्क्षायामाह — अनन्तरस्येति । न चैवम्उपदेशेऽत्वतः॑ इत्यस्यैव बाधः स्यादिति वाच्यम्, अत्वत्सु धातुषु ऋदन्तत्वाऽदर्शनेन यद्यत्वतस्थलि इण्निषेधस्तर्हि ऋदन्तादेवेति नियन्तुमशक्यत्वात् । ननु तर्हिअचस्तास्व॑दित्यस्यैव बाधोऽस्तु, तत्कथंयगोद्वयप्रापितस्ये॑त्युक्तम् । अत्राहुः — उपदेशेऽचस्तास्व॑दित्येव सूत्रे कृतेऽपि तास्वत्थलीत्यादिपदानामिवोपदेशपदस्याप्यनुवृत्तिसंबवे अत्वत इति सूत्रे उपदेशपदस्य, अच इति पूर्वसूत्रे तु तास्वत्थलीत्यादेश्च करणादुभयोः समानयोगक्षेम इति ज्ञायते । तस्मादिष्टानुरोधाच्च योगद्वयमपि भारद्वाजनियमेन बाध्यते । यदि तुउपदेशेऽत्वतोऽचस्तास्वत्थल्यनिटो नित्य॑मिति एको योगः स्वीक्रियते तदात्र नास्त्येव शङ्कालेशोऽपीति बोध्यमिति । अन्ये तु व्याचक्षते — अचस्तास्व॑दिति सूत्रानन्तरमेवऋतो भारद्वाजस्ये॑ति पठनीयं । द्वयोरनन्तरमस्यारम्भादिहतास्वत्थल्यनिटो नित्यं॑तासी॑त्यनुवर्त्त्य योऽयं तासि नित्यानिटस्थलि इण्निषेधः स बाधकमस्तु, पुरस्तात्प्रतिषेधकाण्डारम्भसामथ्र्यात् । अनाश्रितविधानविशेषमिण्मात्रमनारभ्याधीतेन प्रतिषेधेन यथा बाधेतेत्येतदर्थो हि स आरम्भः । अमुमेवार्थं सिद्धवत्कृत्यततश्चतुर्णां थलि भारद्वाजनियमप्रापितस्य वमादिषु क्रादिनियमप्रापितस्य चेटो निषेधार्थर॑मिति मूलेऽप्युपनिबद्धमिति । विव्यिव । विव्यिमेति । क्रादिनियमान्नित्यमिट् ।
लघुसिद्धान्तकौमुदी
तासौ नित्यानिट ऋदन्तादेव थलो नेट् भारद्वाजस्य मते। तेन अन्यस्य स्यादेव। अयमत्र संग्रहः
महाभाष्यम्
ऋतो भारद्वाजस्य किमर्थमिदमुच्यते न अचस्तास्वत्थल्यनिटो नित्यमित्येव सिद्धम् ।। एवं तर्हि नियमार्थोयमारम्भः ‐ ऋत एव भारद्वाजस्य नान्यतो भारद्वाजस्येति ।। क्व मा भूत् ? ।। ययिथ(1) वविथेति ।। ऋतो भारद्वाजस्येति नियमानुपपत्तिरप्राप्तत्वात्प्रतिषेधस्य(2)।। ऋतो भारद्वाजस्येति नियमानुपपत्तिः ।। किं कारणम् ? ।। अप्राप्तत्वात्प्रतिषेधस्य। गुणे कृते रपरत्वे चाऽनजन्तत्वात्प्रतिषेधो न प्राप्नोति ।। असति नियमे को दोषः ? ।। तत्र पचादिभ्य इड्वचनम् ।। तत्र पचादिभ्य इड्वक्तव्यः ‐ पेचिथ शेकिथेति ।। यदि पुनरयं(3) भारद्वाजः पुरस्तादपकृष्येत(4) ‐ -अचस्तास्वत्थल्यनिटो नित्यं भारद्वाजस्य । उपदेशेऽत्वतः । तत ऋतः । भारद्वाजस्येति निवृत्तम् ? ।। सिध्यत्येवमयं तु भारद्वाजः स्वस्मान्मतात्प्रच्यावितो भवति ।। एवं तर्हि, ‐ -।। योगविभागात्सिद्धम्(1) ।। योगविभागः करिष्यते । अचस्तास्वत्थल्यनिटो नित्यमुपदेशे । ततः ‐ अत्वतः । अत्वतश्चोपदेश इति ।। ( ऋतो भारद्वाजस्य ) ।।