Page loading... Please wait.
7|2|101 - जराया जरसन्यतरस्याम्
॥ तस्मै पाणिनये नमः ॥
7|2|101
SK 227
जराया जरसन्यतरस्याम्   🔊
सूत्रच्छेदः
जराया (षष्ठ्येकवचनम्) , जरस् (प्रथमैकवचनम्) , अन्यतरस्याम् (सप्तम्येकवचनम्)
अनुवृत्तिः
 विभक्तौ  7|2|84 (सप्तम्येकवचनम्) , अचि  7|2|100 (सप्तम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
जरायाः अचि विभक्तौ जरस् अन्यतरस्याम्
सूत्रार्थः
जरा-शब्दस्य अजादिषु विभक्तेषु परेषु विकल्पेन "जरस्" आदेशः भवति ।
जरा (=वृद्धत्वम्) अयम् आकारान्त-स्त्रीलिङ्गः शब्दः । अस्य शब्दस्य अजादिषु विभक्तिप्रत्ययेषु परेषु विकल्पेन जरस्-इति आदेशः भवति । अनेकाल् शित् सर्वस्य 1|1|55 इत्यनेन अनेकाल्-आदेशः सम्पूर्ण-स्थानिनः स्थाने आगच्छति, अतः "जरस्" आदेशः "जरा" शब्दस्य स्थाने सर्वादेशरूपेण आगच्छति ।

यथा -
1. जरा + औ → जरस् + औ [जराया जरसन्यतरस्याम् 7|2|101 इति जरस्-आदेशः] → जरसौ
2. जरा + टा → जरस् + टा [जराया जरसन्यतरस्याम् 7|2|101 इति जरस्-आदेशः] → जरसा

जरस्-आदेशस्य अभावे माला-शब्दवदेव रूपाणि भवन्ति - जरा, जरे जराः - आदयः

अस्य सूत्रस्य विषये तिस्रः परिभाषाः ज्ञातव्याः -

1. पदाङ्गाधिकारे तस्य च तदन्तस्य च । अस्याः परिभाषायाः अर्थः अयम् - पदाधिकारे अङ्गाधिकारे च यत् किमपि कार्यम् प्रोक्तं अस्ति, तत् निर्दिष्टस्य शब्दस्य तु भवत्येव, परन्तु सः निर्दिष्टः शब्दः यस्य अन्ते अस्ति, तस्य "समस्तपदस्य" अपि भवति । वर्तमानसूत्रम् अङ्गाधिकारे अस्ति, अतः "जरा" शब्दस्य अनेन सूत्रेण निर्दिष्टः आदेशः "निर्जरा" शब्दस्यापि भवेत् । इयमेव "तदन्त" परिभाषा ।

2. निर्दिश्यमानस्य आदेशाः भवन्ति । अस्याः परिभाषायाः अर्थः अयम् - तदन्तपरिभाषया यद्यपि किञ्चन कार्यम् "तदन्त"स्य भवति, तथापि आदेशः तु केवलं सूत्रेण निर्दिश्यमान्यैव भवति, सम्पूर्णस्य समस्तपदस्य न । यथा, "जरा" शब्दस्य अनेन सूत्रेण निर्दिष्टः आदेशः यद्यपि "निर्जरा" शब्दस्यापि भवति, तथापि "जरा" इत्यस्यैव स्थाने "जरस्" आदेशः विधीयते, "निर्जरा" शब्दस्य स्थाने न ।

यथा - निर्जरा + टा → निर्जरसा, निर्जरया । अजरा + ङे → अजरसे, अजरस्यै ।

2. एकदेशविकृतमनन्यवत् । अस्याः परिभाषायाः अर्थः अयम् - कश्चन शब्दः एकस्मिन् भागे यद्यपि विकृतः / परिवर्तितः अस्ति, तथापि सः "अन्यवत्" न भवति, मूलशब्दवत् एव भवति । यथा, "जरा यस्या अस्ति सः" अस्मिन् अर्थे "जर" इति अकारान्तपुँल्लिङ्गः शब्दः सिद्ध्यति । अत्र गोस्त्रियोरुपसर्जनस्य 1|2|48 इत्यनेन ह्रस्वादेशे कृते "जर" इति सिद्ध्यति । अनया प्रक्रियया निर्मितः जर-शब्दः "जरा"शब्दस्य केवलम् आकारे परिवर्तनम् कृत्वैव जायते, अतः वर्तमानसूत्रे जरा-शब्दस्य अस्मिन् सूत्रे यत् कार्यम् उक्तम् अस्ति, तत् "जर" इति अकारान्त-शब्दस्य अपि भवति । अतः "जर" शब्दस्यापि अजादिषु विभक्तिषु परेषु वैकल्पिकः जरस्-आदेशः भवति । यथा - जरसौ, जरसः, जरसा - आदयः ।

एतासाम् तिसृणाम् परिभाषानाम् प्रयोगेन "निर्जर" इति अकारान्त-पुँल्लिङ्गशब्दस्यापि अनेन सूत्रेण अजादिविभक्तौ परे वैकल्पिकः जरस्-आदेशः विधीयते । यथा -

1. निर्जर + टा [तृतीयैकवचनस्य प्रत्ययः]
→ निर्जरस् + टा [जराया जरसन्यतरस्याम् 7|2|101 इति जर-शब्दस्य जरस्-आदेशः। टाङसिङसामिनात्स्याः 7|1|12 एतम् परत्वात् नित्यत्वात् च बाधित्वा अयम् आदेशः प्रथमः करणीयः]
→ निर्जरसा

एवमेव निर्जरसौ, निर्जरसः, निर्जरसे आदीनि रूपाणि सिद्ध्यन्ति ।
जरस्-आदेशस्य अभावे तु राम-शब्दवदेव रूपाणि भवन्ति - निर्जरौ, निर्जराः, निर्जरेण ।

अयम् आदेशः अजादिविभक्तेः विषये एव भवति, हलादिविभक्तेः विषये न । यथा - निर्जर + सुँ → निर्जरः ।

"अतिजर" शब्दस्य नपुँसकलिङ्गस्य रूपेषु अपि अनेन सूत्रेण अजादिषु विभक्तिषु परेषु वैकल्पिकः जरस्-आदेशः भवति । अत्र प्रक्रिया इयम् जायते -

1. अतिजर + औ / औट्
→ अतिजरस् + औ / औट् [जराया जरसन्यतरस्याम् 7|2|101 इति जरा-शब्दस्य जरस्-आदेशः]
→ अतिजरस् + शी [नपुँसकाच्च 7|1|19 इति शी-आदेशः]
→ अतिजरसी
जरस्-आदेशस्य अभावे "अजरे" इति फल-शब्दवत् रूपं भवति ।

2. अतिजर + जस् / शस्
→ अतिजरस् + जस् / शस् [जराया जरसन्यतरस्याम् 7|2|101 इति जरा-शब्दस्य जरस्-आदेशः]
→ अतिजरस् + शि [जश्शसोः शिः 7|1|20 इति प्रत्ययस्य शि-आदेशः]
→ अतिजर न् स् + इ [नपुँसकस्य झलचः 7|1|72 इति नुमागमः]
→ अतिजरान् सि [सान्तमहतः संयोगस्य 6|4|10 इति नकारस्य उपधादीर्घः]
→ अतिजरांसि [नश्चापदान्तस्य झलि 8|3|24 इति अपदान्त-नकारस्य अनुस्वारः]
जरस्-आदेशस्य अभावे "अतिजराणि" इति फल-शब्दवत् रूपं भवति ।

3. अतिजर + अम्
→ अतिजरस् + अम् [जराया जरसन्यतरस्याम् 7|2|101 इति जरा-शब्दस्य जरस्-आदेशः । अस्मिन् आदेशे प्राप्ते अग्रे स्वमोर्नपुँसकात् 7|1|22 इत्यनेन अम्-प्रत्ययस्य "लुक्" न क्रियते, यतः तथा कुर्मश्चेत् जरस्-आदेश-निमित्तका अजादि-विभक्तिः एव विनश्येत् , यत् सन्निपातलक्षणविधिः अनिमित्तकः तद्विघातस्य अनया परिभाषया न अनुमन्यते ।

प्रश्नः - अतिजर + सुँ" इत्यत्र अजादिविभक्तिप्रत्ययः नास्ति, अतः वर्तमानसूत्रस्य सूत्रस्य प्रसक्तिः न भवति । परन्तु अतोऽम् 7|1|23 इत्यनेन सुँ-प्रत्ययस्य अम्-आदेशः क्रियते चेत् अजादित्वं लभ्यते । अस्याम् अवस्थायाम् "अतिजर" शब्दस्य "अतिजरस्" आदेशः भवति वा?
उत्तरम् - अत्र सुँ-प्रत्ययस्य अम्-आदेशः अङ्गस्य अजन्तत्वात् क्रियते, अतः सन्निपातलक्षणविधिः अनिमित्तकः तद्विघातस्य अनया परिभाषया अम्-आदेशेन अङ्गस्य अजन्तत्वस्य नाशः न क्रियते । अतः अत्र जरा-शब्दस्य जरस्-आदेशः न भवति ।
One-line meaning in English
The word जरा is optionally converted to the word जरस् when followed by an अजादि विभक्ति.
काशिकावृत्तिः
जरा इत्येतस्य जरसित्ययम् आदेशो भवति अन्यत्रस्याम् अजादौ विभक्तौ परतः। जरसा दन्ताः शीर्यन्ते, जरया दन्ताः शीर्यन्ते। जरसे त्वा परिदद्युः, जरायै त्वा परिदद्युः। अचि इत्येव, जराभ्याम्। जराभिः। नुमो विधानात् जरसादेशो भवति विप्रतिषेधेन। अतिजरांसि ब्राह्मणकुलानि। इह अतिजरसं ब्राह्मणकुलं पश्य इति लुग् न भवति, आनुपूर्व्या सिद्धत्वत्। अतिजर अम् इति स्थिते लुक्, अम्भावः, जरस्भावः इति त्रीणि कार्याणि युगपत् प्राप्नुवन्ति। तत्र लुक् तावदपवादत्वादम्भावेन बाध्यते, अम्भावो ऽपि परत्वाज् जरसादेशेन। न च पुनर् लुक्शास्त्रं प्रवर्तते, भ्रष्टावसरत्वात्, इति एवम् एव भवति अतिजरसं ब्राह्मणकुलं पश्य इति। प्रथमैकवचने तृतीयाबहुवचने च अतिजरं ब्राह्मणकुलं तिष्ठति, अतिजरैः इति च भवितव्यम् इति गोनर्दीयमतेन। किं कारणम्? सन्निपातलक्षणो विधिरनिमित्तं तद्विद्घातस्य इति। अन्ये तु अनित्यत्वातस्याः परिभाषायाः अतिजरसं ब्राह्मणकुलं तिष्ठति, अतिजरसैः इत्येवं भवितव्यम् इति मन्यन्ते।
`नुमो विधानाज्जरसदेशो भवति विप्रतषेधेन` इति। नुमोऽवकाशः--त्रपूणि जतूनि; जरसावेशस्यावकाशः--जरसौ; अतिजरांसि ब्राआहृणकुलानीतयत्रोभयप्रसह्गे विप्रतिषेधेन परो जरसादेशो भवति। यदि हि पूर्वं नुम्? स्यात्, नुमा व्यवहितत्वाज्जरसादेशो न लभ्यते, तथापि विहितविशेषणपाश्रयणेन लभ्यते। एवमपि `निर्दिश्यमानस्यादेशा भवन्ति` (व्या।प।106) इति जराशब्दस्यादेशे कृते सकारत्? परो नुम्? श्रूयेत। [`श्रूयते` मुद्रित पाठः] अथापि समुस्कस्यादेशः स्यात्? एवमपि कृतकार्यत्वान्नुम्शास्त्रस्य पुनरप्रवृत्तेरादेशे कृते पुनर्नम्न स्यात्, तथानिष्टं रूपं प्रसज्येत। अथेहातिजरसं ब्राआहृणकुलं पश्येति जरसादेशे कृते `स्वमोर्नपुंसकात्` 7|1|23 इति सुक्कस्मान्न भवति? इत्यत आह--`इह` इत्यादि। जरामतिक्रान्तमिति प्रादिसमासः, `ह्यस्वो नपुंसके प्रातिपदिकस्य` 1|2|47 इति ह्यस्वः, द्वितीयैकवचनमम्? इति स्थित एकदेशविकृतस्यानन्यत्वात्(व्या।पा।16)कृतेऽपि ह्यस्वत्वे लुक्, अम्भावः, जरस्भावः--इत्येतानि त्रीणि कार्यामि युगपत्? प्राप्नुवन्ति, तत्र लुगपवादत्वात्? `अतोऽम्` 7|1|24 इत्यम्भावेन बाध्यते, अम्भावोऽपि परत्वाज्जरसादेशेन। अथ कृते जरसादेशे लुक्? पुनः कस्मान्न भवति? इत्यत आह--`पुनर्लुक्शास्त्रम्` इत्यादि। न च लुक्शास्त्रं पुनः प्रवत्र्तते; भ्रष्टावसरत्वात्, तृतीयाबहुवचने किमतजरैब्र्राआहृणकुलैरित्येवं भवितव्यम्; आहोसविदतिजरसम्, अतिजरसैरित्येवम्? इत्यत आह--`अतिजरसम्` इत्यादि। `गोनर्द्दीयमतेन` इति। तथा हि भाष्ये उक्तम्--`गोदर्दीय आह--`इषटमेषैतत्? संगृहीतं भवतीति--अतिजरमतिजरैतिति भवितव्यम्` इति। का पुनरस्य युक्तिः? इत्यत आह--`सन्निपातलक्षण` इत्यादि। यद्यम्भावः, ऐस्भावश्च जरसादेशस्य निमित्तमात्रं स्यात्, अकारान्तताऽङ्गस्य ताभ्यां विहता स्यात्। एतच्चायुक्तम्; तस्मन्निपाते हि तावभिनिर्वृत्तौ नोत्सहेते सां विहन्तुम्। `अन्ये` इति। सूत्रकारमतानुसारिणः। कस्मात्? पुनस्त एवं मन्यन्ते? इत्यत आह--`अनित्यत्वादस्याः` इत्यादि। अनित्यत्वं पुनरस्याः--`अतो भिस ऐस्` 7|1|9 इत्यत्र प्रतिपादितम्॥
अतिजरांसीति । अतिजर - इ इति स्थिते यदि पूर्व नुमागमः स्यात्, सोऽङ्गभक्तोऽङ्गमेव न व्यावदध्यात् । तदवयवं तु जराशब्दं व्यवदधात्येवेति सत्यपि तदन्तविधौ निर्दिश्यमानस्यादेशा भवन्ति इति जरशब्दन्तस्याङ्गस्यावयोवो यो जराशब्दः तस्य विभक्त्यानन्तर्थे विधीयमानो जरसादेशो न प्राप्नोति । अथापि स्यात्, तथापि सकारात्परस्य नुमः श्रवणं स्यात् । तस्मात्परत्वात्पूर्वं जरसादेश एष्टव्यः । तत्र कृते झलन्तलक्षणो नुम । अतिजरसं प्रश्येत्यत्र अतिजर - अम् इति स्थिते एकदेशविकृतस्यानन्यत्वाज्जरशब्दस्य जरसादेशो कृते स्वमोर्नपुंसकात् इति लुक् प्राप्नोति । न च तदानीमम्भावस्य प्रसङ्गः अनदन्तत्वात् । ननु चातिजरशब्दस्यादन्तत्वातस्यामवस्थायामम्भावेन बाधितस्य लुकः पुनः प्रसङ्गो न युक्तः, भ्रष्टावसरत्वात् नैतदस्ति, नात्राम्भावः प्रवृतः परत्वान्नित्यत्वाच्च जरसादेशेन बाध्यते, तत्र कृते लुक्प्रसङ्गः । एवं तर्हि सन्निपातपरिभाषया लुग्न भविष्यति । अजादिसन्निपातेन जरसादेशो निष्पन्नो नोत्सहते तस्य लुको निमिततां प्रतिपतुम् । यद्येवम्, अतिजरसं ब्राह्मणकुलं तिष्ठति अतिजरसैरिति न सिद्ध्यति, कथम् सोर्भिसश्चाकारान्तसन्नपातेनाजाइदिरादेशः कृतोऽकारान्तत्वाविधातिनो जरसादेशस्य निमितं न स्यात् । इष्टमेवैतत्सङ्गहीतम् । अतिजरमतिजरैरिति भवितव्यम्, एष गोनर्दीयस्य पक्षः, तदिदमुच्यते - इहेत्यादि । इहेति वाक्योपान्यासे । अतिजरसं ब्राह्मणकुलमित्यादि भवितव्यमित्यन्तं गोनर्दीयस्य मतम् । न पुनर्लुवशास्त्रं प्रवर्तत इति यदुक्तम्, यच्चोक्तम् - अतिजरं ब्राह्मणकुलमित्यादि, तत्रोभयत्रापि हेतुः - सन्निपातलक्षण इति । न पुनर्लुक्शास्त्रम् इत्यत्र पुनः शब्दस्यायमर्थः - पूर्वं या लुक्प्राप्तिः, साम्भावेन बाधिता या तु जरसादेशे कृते नुनः प्राप्तिः, सापि सन्निपातपरिभाषया न भवतीति । अन्ये त्वित्यादि । एतच्च टाङसिङसामिनात्स्याः, अतो भिस ऐस् इत्यत्र व्याख्यातम् ॥
सिद्धान्तकौमुदी
जराशब्दस्य जरस् वा स्यादजादौ विभक्तौ । [(परिभाषा - ) पदाङ्गाधिकारे तस्य च तदन्तस्य च] । अनेकाल्त्वात्सर्वादेशे प्राप्ते । [(परिभाषा - ) निर्दिश्यमानस्यादेशा भवन्ति] । एकदेशविकृतस्यानन्यत्वात् जरशब्दस्य जरस् । निर्जरसौ । निर्जरसः । इनादीन्बाधित्वा परत्वाज्जरस् । निर्जरसा । निर्जरसे । निर्जरसः । पक्षे हलादौ च रामवत् । वृत्तिकृता तु पूर्वविप्रतिशेधेन इनातोः कृतयोः संनिपातपरिभाषाया अनित्यत्वमाश्रित्य जरसि कृते निर्जरसिन निर्जरसादिति रूपे न तु निर्जरसानिर्जरस इति केचिदित्युक्तम् । तथा भिसि निर्जरसैरिति रूपान्तरमुक्तम् । तदनुसारिभिश्च षष्ठ्येकवचने निर्जरस्येत्येव रूपं स्वीकृतम् । एतच्च भाष्यविरुद्धम् ॥
जराया जरसन्यतरस्याम् - अस्य निर्जरशब्दस्य विशेषं दर्शयितुमाह — जरायाः । "अष्टन आ विभक्तौ" इत्यतोविभक्ता॑वित्यनुवृत्तम्, "अचि र ऋतः" इत्यतोऽनुवृत्तेनअची॑त्यनेन विशेष्यते ।यस्मिन् विधि॑रिति तदादिविधिः । तदाह — जराशब्दस्येत्यादिना । ननु जराशब्दस्य विधीयमानो जरसादेशः कथं निर्जरशब्दस्य भवेदित्यत आह — पदेति । पदाधिकारे अङ्गाधिकारे च यस्य यद्विहितं तत्तस्य, तदन्तस्य च भवतीत्यर्थः । जरसादेशश्चाऽयमङ्गाधिकारस्थत्वाज्जराशब्दस्य, तदन्तस्य च भवति, जरसावित्यादौ तु व्यपदेशिवद्भावेन तदन्तत्वं बोध्यम् । यद्यपि "जराया" इत्यस्याऽङ्गविशेषणत्वादेव तदन्तविधिः सिद्धः, तथापियेन विधि॑रित्यस्य प्रपञ्चभूतेयं परिभाषेत्यदोषः । अत एव पदमङ्गं च विशेष्यं, विशेषणेन च तदन्तविधि॑रिति प्रौढमनोरमायामुक्तम् । ननु जराशब्दान्तस्य विधीयमानो जरसादेशो निर्जरशब्दस्य कृत्स्नस्य स्यात्, अनेकाल्त्वादित्याक्षिप्य समाधत्ते — अनोकाल्त्वादिति । निर्दिश्यमानस्येति । प्रत्यक्षनिर्दिशय्मानस्यैवेत्यर्थः । अनया परिभाषया जराशब्दस्यैव जरस् । जराशब्द एव ह्रत्र स्थानी प्रत्यक्षनिर्दिष्टः । जराशब्दान्तस्य तु निर्द्देशस्तदन्तविधिलभ्यत्वादानुमानिक इति भावः । इयञ्च परिभाषाषष्ठी स्थानेयोगे॑ति सूत्रसिद्धार्थकथनपरेति तत्रैव भाष्ये स्पष्टम् । ननु निर्जरशब्दस्य जराशब्दान्तत्वाऽभावात्कथमिह जरसादेश इत्यत आह — एकदेशेति ।छिन्नेऽपि पुच्छे आआ औव, न चाआओ नच गर्दभ॑ इति न्यायादिति भावः । निर्जरसा । निर्जरस इति । प्रथमाद्वितीययोर्द्विवचने बहुवचने च रूपम् । अमिनिर्जरस॑मित्युदाहार्यम् । ननु तृतीयैकवचने पञ्चम्येकवचने च्, निर्जर-आ, निर्जर-अस् इति स्थिते इनाऽ‌ऽतोः कृतयोर्जरसादेशे निर्जरसिन निर्जरसादिति प्राप्तं, तथा चतुर्थ्येकवचने षष्ठएकवचने च-निर्जर ए, निर्जर अस्-इति स्थिते, यादेशे, स्यादेशे च सत्यजादिविभक्त्यभावाज्जरसादेशाऽभावे निर्जराय निर्जरस्येति प्राप्तं, तत्राह — इनादीनिति । इन-य-आत्-स्येत्यादेशान्-नुटं च परत्वाद्बाधित्वा जरसादेशः । ततस्च अदन्तत्वाऽभावादिनादयो न भवतीत्यर्थः । निर्जरसेति । तृतीयैकवचनम् । निर्जसरे इति — चतुर्थ्येकवचनम् । निर्जरस इति — पञ्चम्येकवचने षष्ठएकवचने च रूपम् । निर्जरसोः, निर्जरसां, निर्जरसीत्यप्युदाहार्यम् । पक्ष इति । जरसादेशाऽभावपक्ष इत्यर्थः । हलादौ चेति । भिस ऐसादेशे "निर्जरै" रित्येव रूपं न तु जरसादेशे निर्जरसैरिति । अदन्तमङ्गमाश्रित्य प्रवृत्तस्यैसः संनिपातपरिभाषया तद्विघातकजरसादेशनिमित्तत्वाऽयोगात् ।अत वृत्तिकुदुत्प्रेक्षितं मतान्तरं दूषयितुमनुवदति — वृत्तिकृता त्वित्यादिना ।पूर्वविप्रतिषेधेनेत्यादि केचि॑दित्यन्तो वृत्तिग्रन्थः । वृत्तिकृता तु इनातोः कृतयोर्जरसि कृते निर्जरसादिति रूपं, न तु निर्जरस इति केचिदित्युक्तमित्यन्वयः । ननु इनादेशमादादेशं च परत्वाद्बाधित्वा जरसि कृते ।ञदन्तत्वाऽभावात्कथमिनातौ स्यातामित्यत आह — पूर्वविप्रतिषेधेनेति । विप्रतिषेधे पूर्वस्य प्रवृत्तिर्यत्र बोध्यते तत् पूर्वप्रतिषेधं=॒विप्रतिषेधे परं कार्य॑मिति सूत्रं तेनेत्यर्थः । तत्र परशब्दस्येष्टवाचित्वमाश्रित्य विप्रतिषेधे क्वचित्पूर्वस्य कार्यस्य प्रवृत्त्यभ्युपगमेनेति यावत्॥ नन्विनातोः कृतयोः कतं जरसादेशः, संनिपातपरिभाषाविरोधादित्यत आह — संनिपातपरिभाषाया इति । तथेति । भिस ऐसादेशे जरसादेशाऽभावपक्षे निर्जरैरिति रूपम् । संनिपातपरिभाषाया अन्त्यत्वाज्जरसि कृते तु निर्जरसैरिति रूपान्तरमुक्तमित्यर्थः । तदनुसारिभिति । निर्जरसिनेत्यादि रूपं यैरुक्तं तदनुसारिभिरित्यर्थः । निर्जरस्येत्येवेति । पूर्वविप्रतिषेधेन स्यादेशे कृतेऽजादिविभक्त्यभावान्न जरस् । इनातोः पूर्वविप्रतिषेधे आश्रिते सति एकसूत्रोपात्तत्वात्स्यादेशविषयेऽपि पूर्वविप्रतिषेध आश्रयितुमुचितः । अतो निर्जरस्येत्येकमेव रूपं,न तु "निर्जरस" इत्यपीति भावः ।एतच्चेति । वृत्तिकृदुत्प्रेक्षितं केषांचिन्मतं, तदनुसारिमतं चेत्यर्थः । भाष्यविरुद्धमिति ।टाङसिङसामिनात्स्याः॑ इत्यत्र नादेश एव विधेयः, इकारोच्चारणं मास्तु । तथा अदादेश एव विधेयो नतु दीर्घ आदिति । रामेणेत्यत्र एकारस्तु योगविभागाद्भवति, तथाहि "बहुवचने झल्येत्" "ओसि च" "आङि चापः"संबुद्धौ चे॑ति सूत्रक्रमः । तत्र आङीति योगविभागः क्रियते । अत एकारः स्यादङि । रामेण ।आपः संबुद्धौ चे॑ति सूत्रक्रमः । तत्र आङीति योगविभागः क्रियते । अत एकारः स्यादाङि । रामेण ।आपः संबुद्धौ चे॑त्यन्यो योगः । एकारः स्यात्सम्बुद्धौ आङि ओसि च । हे रमे रमया रमयोः । ङसेरदादेशे अकारोच्चारणसामथ्र्यात् "अतो गुणे" इति न पररूपमित्यादि टाङसिङसामिति सूत्रे भाष्ये स्थितम् । निर्जरसिन निर्जरसादिति रूपसत्त्वे एतद्भाष्याऽसङ्गति स्पष्टैव । अत्र इकारस्य आकारस्य च श्रवणाय इनादेशे इकारोच्चारणावश्यकत्वात् । किंचगोनर्दीयस्त्वाह-अतिजरैरित्येव भवितव्यं संनिपातपरिभाषया॑ इतिजराया जरसन्यतरस्या॑मिति सूत्रे भाष्ये स्थितम् । निर्जरसैरिति रूपाभ्युपगमे #एतदसङ्गतिः स्पष्टैव । अतः पूर्वविप्रतिषेधेनेत्यादि मतान्तरमशुद्धमित्यर्थः ।
जराया जरसन्यतरस्याम् - जराया जर ।अष्टन आ विभक्तौ॑ इत्यतोविभक्ता॑वित्यनुवर्त्त्यअचि र ऋतः॑ इत्यतो ।डनुवृत्तेनाचीत्यनेन विशेष्यते, विशेषणेनेह तदादिविधिः,यस्मिन् विधिस्तदादावल्ग्रहणे॑ इत्यस्य तदन्तविधेरपवादत्वादित्याशयेनाह — अजादौ विभक्ताविति । अजादौ किम् जराभ्याम् । जराभिः । विभक्ताविति किम् । जराया इदं जारम् । न चजराया असु॑ङेवाऽस्त्विति वाच्यम् । जराशब्दात्तत्करोती॑ति णिचिणाविष्टवत् — ॑ इति टिलोपे ततः क्विपि णिलोपे चैकदेशविकृतस्यानन्यतयाज॑रित्यस्य जराशब्दत्वादसुङि सतिङिच्चे॑त्यन्त्यस्य प्रवृत्त्याजसौ॑ इति रूपापत्तेः । इष्यते त्वत्रापिजरसौ॑जरस॑ इति । न च णिलोपस्य स्थानिवद्भावाद्विभक्तिपरत्वाऽभावेनजरसा॑वित्यादि न सिध्यतीति वाच्यम्,क्वौ लुप्तं न स्थानिव॑दिति निषेधात् । यद्यपिक्वौ लुप्तं न स्थानिव॑दिति क्वाचित्कं, तथापीह तदाश्रयणेजर॑सिति गुर्वादेशकरणमेव मानमित्यवधेयम् ।पदाङ्गाधिकार इति । परिभाषेयंयेन विधि॑रित्यस्य प्रपञ्चभूता । अतएव मनोरमायां पदमङ्गं च विशेष्यं, विशेषणेन च तदन्तविधि॑रित्युक्तम् ।विशेष्य॑मिति तु प्रायेणेति बोध्यम् । तेनअल्लोपोऽनः॑ इति सूत्रेअङ्गावयवो योऽ॑निति वक्ष्यमाणग्रन्थः [स्वरसतः] सङ्गच्छते । अत्र नव्याः — ॒नन्वाकारेतस्य तदुत्तरपदस्य चे॑ति प्रचुरः पाठः ।तदन्तस्य चे॑ति पाठे तु बहुच्पूर्वकेषु न प्रवर्तन्त इत्याशयेन फलितार्थकथनपरतयातदुत्तरपदस्य चे॑ति पठितं न त्विदमपूर्वं वचन॑मिति । सोपसर्गस्य सर्वस्य स्थाने जरसादेशमाशङ्क्याह ।निर्दिश्येति । ननु तदन्तविधिनाऽपि जराशब्दान्तं यदङ्गं तत्रैव निर्दिश्यमानजराशब्दे जरसादेशेन भवितव्यं, न त्वन्यत्रेत्यत आह-एकदेशविकृतस्येति । पदाधिकारेऽपि तदन्तविधाबुदाहरणं — तदन्तस्यापि रुत्वरत्वेदीर्घाहा निदाघ॑ इति वक्ष्यति ।अलुगुत्तरपदे॑ इत्ययमुत्तरपदाधिकारोऽपि पदाधिकारग्रहणेन गृह्रते । तत्फलं तु तत्रैव स्फुटीकरिष्यति । पक्षे इति । जरसादेशभावे ।तदनुसारिभिरिति । ये तुनिर्जरसिने॑त्यादि व्याचक्षते तन्मतानुसारिभिरित्यर्थः । निर्जरस्येत्येवेति । पूर्वविप्रतिषेधेन स्यादेशे कृते जरसादेशो न प्रवर्तत इत्येकमेव रूपमिति तेषामाशयः । अतएववीतजन्मजरसः परं शुचिब्राहृणः पद॑मिति भारविप्रयोगमसमञ्जसं मत्वावीतजन्मरजसः॑ इति पठनीयमिति तैरुक्तम् । एतच्चेति । भाष्यकृताहिटाङ्सी॑ति सूत्रे इनातौ प्रत्याख्याय, नादेशमदादेशं च विधाय, नादेशे परे एत्वम्आङि चे॑ति योगं विभज्य साधितम् । तथा च निर्जरसिनः॑ निर्जरसा॑दित्येतद्भाष्यविरुद्धमिति स्पष्टमेव । न च नादेशे कृते हलि लोपप्रवृत्त्याअनेने॑त्येतन्न सिध्यतीति शङ्क्यम्, नशब्दे परतो विशिष्याऽनादेशविधानात् । तथाहिअनाप्यकः; इत्यत्रअन्-नापि॑ इति पदच्छेदः । नपुंसकत्वात्सोर्लुकि नलोपः ।नापी॑ति समाहारद्वन्द्वात्सप्तम्येकवचनम् । न च ङसेरदादेशे कृते पररूपं स्यादित्यपि शङ्क्यम् , अकारोच्चारणसामथ्र्याद्दीर्घसंभवात् । तथाजराया जरसन्यतरस्या॑मित्यस्मिन्नेव सूत्रे भाष्ये उक्तम्-॒अतिजरैरिति भवितव्यं संनिपातपरिभाषये॑ति । ततश्चनिर्जरसै॑रित्यपि बाष्यविरुद्धमेव । एतेनअतो भिसः॑ इति सूत्रेए॑सिति वक्तव्ये ऐस्करणंनिर्जरसै॑रिति रूपार्थमिति केषांचिद्व्याख्यानं प्रामादिकमिति स्पष्टमेव ।
लघुसिद्धान्तकौमुदी
अजादौ विभक्तौ। (प।) पदाङ्गाधिकारे तस्य च तदन्तस्य च। (प।) निर्दिश्यमानस्यादेशा भवन्ति। (प।) एकदेशविकृतमनन्यवत्, इति जरशब्दस्य जरस्। निर्जरसौ। निर्जरस इत्यादि। पक्षे हलादौ च रामवत्॥ विश्वपाः॥
महाभाष्यम्
जराया जरसन्यतरस्याम् (।। नुमोऽनङ्जरसौ (2)।।) नुमोऽनङ्जरसौ भवतो विप्रतिषेधेन । नुमोऽवकाशः-त्रपुणी जतुनी तुम्बुरुणी । अनङोऽवकाशः ‐ प्रियसक्थ्ना ब्राह्मणेन । इहोभयं प्राप्नोति ‐ दध्ना(1) सक्थ्ना(2) । जरसोऽवकाशः ‐ - जरसा जरसे । नुमोऽवकाशः ‐ कुण्डानि वनानि ।। इहोभयं प्राप्नोति ‐ अतिजरांसि ब्राह्मणकुलानि ।। अनङ्जरसौ नुमो भवतो विप्रतिषेधेन ।। अथेह लुक्कस्मान्न भवति ‐ अतिजरसं पश्येति ?।। किं पुनः कारणं द्वितीयैकवचनमेवोदाह्रियते न पुनः प्रथमैकवचनमपि ‐ -अतिजरसं तिष्ठतीति ? ।। अस्त्यत्र विशेषो ‐ नाऽत्राऽकृतेऽम्भावे जरस्भावः प्राप्नोति ।। किं कारणम् ? ।। अचीत्युच्यते । यदा( 3) च जरस्भावः कृतस्तदा लुङ्न भविष्यति सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति यद्येवमतिजरसमतिजरसैरित्यत्र न प्राप्नोति, अतिजरमतिजरैरिति भवितव्यम् ।। गोनर्दीय आह ‐ इष्टमेवैतत्सङ्गृहीतं भवति । अतिजरमतिजरैरिति भवितव्यं सत्यामेतस्यां(1) परिभाषायां ‐ सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति ।। (जरायाजरस्) ।।