Page loading... Please wait.
7|2|4 - नेटि
॥ तस्मै पाणिनये नमः ॥
7|2|4
SK 2268
नेटि   🔊
सूत्रच्छेदः
(अव्ययम्) , इटि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
इढादौ सिचि हलनतस्य अङ्गस्य वृद्धिर् न भवति। अदेवीत्। असेवीत्। अकोषीत्। अमोषीत्। हलन्तस्य इत्येव, अलावीत्। ननु च एतदप्यन्तरङ्गत्वात् गुणावादेशयोः कृतयोः हलन्तं भवति? न एतदेवम्। अन्तरङ्गम् अपि गुणम् वचनारम्भसामर्थ्यात् सिचि वृद्धिर् बाधते इत्युक्तम्।
हलन्तस्याच इति या वृद्धिः प्राप्ता सा हलन्तलक्षणा वृद्धिरनेन प्रतिषिध्यते `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या।प।19) इति कृत्वा। `अदेवीत्, असेवीत्` इति। `दिवु क्रीडादो` (धातुपाठः-1107), `सिवु तन्तुसन्तानेट [`षिवु`--दा।पा।] (धातुपाठः-1108)। वृद्धौ प्रतिषिद्धायां `पुगन्तलघूपधस्य` 7|3|86 इति गुणः। `अकोषीदमोषीत्` इति। `कुष निष्कर्णे` (धातुपाठः-1518), `मुष स्तेये` (धातुपाठः-1530)। `नन्वत्रैतदन्तरङ्गत्वात्`[नन्वत्रैतदप्यन्तरङ्गत्वात्--कीशिका] इति चोद्यम्। `नैतदेवम्` इति परिहारः। उभयञ्चैतद्गतार्थम्॥
उदाहरणेषु - दिवु क्रीडादौ , सिवु तन्तुसन्ताने, कुष निष्कर्षे, मुष स्तेये इति धातवः । ननुचेत्यादि चोद्यम् । नैतदेवमित्यादि परिहारः । उभयमप्येतत् सिचिवृद्धिसूत्रे व्याख्यातम् ॥
सिद्धान्तकौमुदी
इडादौ सिचि प्रागुक्तं न स्यात् । मा भवानतीत् । अतिष्टाम् । अतिषुः । 39 चिती संज्ञाने । चोतति । चिचेत । अचेतीत् । अचेतिष्टाम् । अचेतिषुः । 40 च्युतिर् आसेचने । सेचनभार्द्रीकरणम् । आङीषदर्थेऽभिव्याप्तौ च ॥ ।इर इत्संज्ञावाच्या (वार्तिकम्) ॥ च्योतति । चुच्योत ॥
नेटि - नेटि । प्रागुक्तं नेति । "वदव्रजहलन्तस्याच" इत्युक्तं नेत्यर्थः । ततर् वदव्रजयोर्विशिष्य विधानाद्धलन्तलक्षणाया एव वृद्धेर्निषेधोऽयम् । हलन्तलक्षणा वृद्धिस्तुअधाक्षीदित्यादावनिडादौ सिचि चरितार्था । नन्वातीदित्यातौ अकारस्य वृद्धौ सत्यामसत्यां च आटा एकादेशे सति रूपे विशेषाऽभावात्क तन्निषेधेनेत्याशङ्क्याह — मा भवानतीदिति । माङ्योगे आडभावे सति वृद्धिनिषेधः सफल इति भाव- । चितीति । ईदित्त्वम्आईदितो निष्ठाया॑मिति इण्निषेधार्थम् । चेततीति । शपि लघूपधगुणः । चिचेतेति । तिबादेशणलः पिच्वेन असंयोगादिति कित्त्वस्याऽप्रवृत्तेर्न गुणनिषेधः । चिचिततुरित्यादौ तु कित्त्वान्न गुणः । अचेतीदिति ।इट ईटी॑ति सलोपः । अचेतिष्टामिति । अपृक्तत्वाऽभावादीडभावान्न सिज्लोपः । नेटीति निषेधान्न हलन्तलक्षणा वृद्धिः । च्युतिरिति । च्युतिरिति । अत्र इकारस्य रेफस्य च प्रत्येकमित्संज्ञायामिदित्त्वानुमि प्राप्ते आह — इर इत्संज्ञति । तथा च इरिति समुदायस्य इत्संज्ञकत्वादिदित्त्वाऽभावान्न नुमिति भावः । च्योततीति । लघूपधगुणः । चुच्योतेति । णलः पित्त्वेन कित्त्वाऽभावान्न गुणनिषेध इति भावः । चुच्युततुरित्यादौ तु कित्त्वान्न गुणः । लुङि च्लेः स#इचि प्राप्ते ।
नेटि - नेटि । प्रागुक्तं नेति । हलन्तत्वादेव सिद्धे वदव्रजोर्विशिष्य विधानान्न निषेधः, किंतु हलन्तलक्षणा या एव वृद्धेर्निषेधः तस्या अनिडादौ सिचि चारितार्थतत्वात् । अमुमेवार्थ मनसि निधाय क्वचित्पुस्तकेषुहलन्तलक्षणा वृद्धिर्ने॑इत्येव पठते । इर इत्संज्ञेति । इकारस्यउपदेशेऽजनुनासिकः॑ इति, रेफस्य तुहलन्त्य॑मिति प्रत्येकमित्संज्ञायाम्इदित॑ इति नुम् स्यादिति भावः । एतस्य वैयथ्र्यंचक्षिङ् व्यक्ताव्यां वाची॑त्यत्र स्फुटीभविष्यति ।
लघुसिद्धान्तकौमुदी
इडादौ सिचि हलन्तस्य वृद्धिर्न। अगोपीत्, अगौप्सीत्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.