पूर्वं रेफवकारान्तस्य घातोर्दीर्घत्वविधानादरेफवकारान्तार्थमिदम्। उपधायामिति सुब्व्यत्ययेन षष्ठीद्विवचनस्य स्थाने सप्तम्येकवचनम्। `उपधाभूतौ` इति। उपधात्वं प्राप्तावित्यर्थः। अलोऽन्त्यात्? पूर्वौ इति यावत्। `हल्परो` इति। हल्? पर आभ्यामिति बहुव्रीहिः। स पुनर्हल्? धात्ववयव एव वेदितव्यः। यत्र हि प्रत्ययावयवो रेफवकाराभ्यां हल्परस्तत्र पूर्वेणैव सिद्धः। `हूर्छिता` इति। `हुच्र्छ कौटिल्ये` (धातुपाठः-211)। `मूच्छता` इति। `मुच्र्छा मोहसमुच्छ्राययोः` (धातुपाठः-212)। ननु च `अचो रहाभ्यां द्वे`
8|4|46 इति द्विर्वचने कृते रेफोऽत्रोपधा न भवति? नैतदस्ति; दीर्घत्वे कत्र्तव्ये द्विर्वचनस्यासिद्धत्वाच्छकारोऽत्रैक एव हलिति भवत्येवोपधात्वं रेफस्य। `चिरिणोति, जिरिणोति` इति। `रि क्षि चिरि जिरि दाश दृ हिंसायाम्` (धातुपाठः-1275-1280) स्वादित्वात्श्नुः`।इह `री गतौ` (धातुपाठः-1500), `धी गतिप्रजनादिषु` (धातुपाठः-1048)-एताभ्यां लिट्, अतुसि, उसि च, `एरनेकाचः`
6|4|82 इति यणादेशः; तस्य स्थानिवद्भावाद्द्विर्वचने कृते `रिर्यतुः, रिर्युः; विव्यतुः विव्यु` इति स्थितेऽभ्यासेकारस्य दीर्घस्य प्राप्नोति, हल्परयो रेफवकारयोरुपधाभूतत्वात्। एतत्कस्मान्न भवति? इत्याह--`रिर्यतुः, रिर्यः` इत्यादि। स्थानिवद्भावः `अचः परस्मिन्`
1|1|56 इत्यादिना। ननु च `न पदान्त`
1|1|57 इत्यादिना दीर्घविधौ प्रतिषिध्यते स्थानिवद्भावः, तत्? कुतस्तस्येह सम्भवः? नैतदस्ति; परिगणनं हि तत्र क्रियते--`स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत्` (का।वृ।1.1.59) इतिः `असिद्धत्वाद्वा` इत्यादि। अत्र बहिरङ्गत्वं यणादेशस्य; अङ्गाधिकारे विधीयमानस्य प्रत्ययाश्रितत्वात्। दीर्घत्वस्य त्वन्तरङ्गत्वम्; प्रकृत्याश्रयत्वात्। `असिद्धञ्च बहिरङ्गमन्तरङ्गे` (व्या।प।42) इति दीर्घत्वे कत्र्तव्ये यणादेश स्यासिद्धत्वाद्रेफवकारौ हल्परौ न भवतिः, तत्कुतो दीर्घत्वस्य प्राप्तिः। इह तर्हि चतुर्यितेति दीर्घत्वं कस्मान्न भवति, अत्र हि `चतुर्य` इत्यस्य क्यजन्तस्य धातोस्तृचि परतः `अतो लोपः`
6|4|48 इत्यकारलोपे कृत उपधाभूतो रेफो हल्परो भवतीत्यस्ति दीर्घत्वस्य प्राप्तिः, इत्याह--`चतुर्यितेत्यत्रापि` इत्यादि। बहिरङ्गत्वमतो लोपस्यार्थधातुकाश्रय स्यात्। दीर्घस्यान्तरङ्गत्वं पूर्ववत्। तर्हि प्रतिदीव्नेत्यत्रापि दीर्घत्वं न स्यात्। यथैव हि चतुर्यितेत्यत्र धातोरुपधा रेफो न भवति, तथा प्रतिदीव्नेत्यत्रापि वकारः। तथा हि--दीव्येत्येतावान्? धातुः, नकारस्तु प्रत्यय सम्बन्धी; न च दिवेर्धातोर्वकर उपधाभूतः, किं तर्हि? अन्तभूतः? इत्यत आह--`प्रतिदीव्नेत्यत्र` इत्यादि। प्रतिपूर्वाद्दिवः `कनिन्? युवुषितक्षि` (द।उ।6।51) इत्यादिना कविन्, `अल्लोपोऽनः`
6|4|134 इत्यकारलोपः। ननु च `अचः परस्मिन्? पूर्वविधौ`
1|1|56 इत्यल्लोपस्य स्थाविवद्भावाद्धलि परतो वकारान्तोऽत्र धातुर्न भवति। तत्कथं `हलि च`
8|2|77 इति दीर्घत्वम्? इत्याह--`दीर्घविधौ` इत्यादि। स्थानिवद्भावप्रतिषेधस्तु `न पदान्त`
1|1|57 इत्यादिना। नन्वेवमपि बहिरङ्गलक्षणसिद्धत्वादल्लोपस्य नैवात्र हलि परतो वकारान्तो धातुरुपपद्यते? इत्याह--`असिद्धं बहिरङ्गम्` इत्यादि। अनाश्रयणस्य तु हेतुरनित्यत्वमस्याः परिभाषायाः। अनित्यत्वं तु `नलोपः सुप्स्वर`
8|2|2 इत्यादौ सूत्रे तुग्विधिग्रहणाज्ज्ञापितम्। अथ जिव्रिः, किर्योरित्यादौ `हलि च`
8|2|77 इति दीर्घत्वं कस्मान्न भवति जिव्रिशब्दोऽप्ययमे वं व्युत्पाद्यते, `जीर्यतेः क्रिन्? रश्च वः` (द।उ।1-80) इति। `जृष्? [`जृष`-धातुपाठः-] झृष्? [`झृष`--धातुपाठः-] वयोहानौ` (धातुपाठः-1130,1131) इत्यस्मात्? क्रिन्प्रत्ययः; `ऋत इद्धातोः`
7|1|100 इतीत्त्वम्, रपरत्वम्, रेफस्य वकार आदेशः--इत्येवं व्युत्पत्तौ जिव्रिरित्येतस्य वकारान्तस्य धातो रेफे हलि परतः `हलि च`
8|2|77 इत्यस्ति दीर्घत्वस्य प्राप्तिः। किरिः गिरिरित्येवमादीनामपि शब्दानामेवं व्युत्पत्तिः क्रियते। `अच इः` (द।उ। 1-67) इत्यत इप्रत्ययेऽनुवत्र्तमाने `भुजेः किच्च` (द।उ। 1-71) इति च `कृगृशृपृकुटिभिदिच्छिदिभ्यश्च` (द।उ। 1-72) इतिकिरतिप्रभृतिभ्यो धातुभ्य इप्रत्ययं विधाय व्युत्पाद्यन्त एते। एवं हि व्युत्पत्तावोसि यणादेशे कृते यकारे हलि परतो रेफान्तानां किरिप्रभृतीनां `हलि च`
8|2|77 इति दीर्घत्वं प्राप्नोति? इत्यत आह--`उणादयोऽव्युत्पन्नानि` इत्यादि। ननु च किर्योः, गिर्योरित्यत्र व्युत्पत्तिपक्षेऽपि दीर्घत्वं न प्रसजति, न ह्रत्र हलि परतः किरतिगिरती रेफान्तौ, दीर्घत्वे कत्र्तव्ये यणादेशस्य स्थानिवद्भावात्? स्वराविलोपेषु हि लोपाजादेशो न स्थानिवत्, अन्यस्तु स्थानिवदेव? सत्यमेतत्; अभ्युपगम्येवं परिहार उक्तः। एवं मन्यते--भवत्यविशेषेण स्थानिवद्भावप्रतिषेधः, तथापि नैवात्र दीर्घत्वं प्रसज्येत; अव्युत्पन्नत्वादुणादीनामिति। यद्युणादयोऽव्युत्पन्नानि प्रातिपदिकानीति, न हि तत्रैव सूत्रे व्युत्पत्तिपक्षश्चाश्रयितुं युक्तः, योऽपि `आतो मनिन्क्वनिब्वनियश्च`
3|2|74 इति `अन्येभ्योऽपि दृश्यन्ते` (3।2 75) इति क्वनिप्प्रत्ययान्त प्रतिदिवञ्शब्दं व्युत्पादयेत तस्यापि नैव दीर्घत्वं सिध्यति, `लोपोव्योर्वलि`
6|1|66 इति वकारलोपे कृते धातोरवकारान्तत्वादिति? कत्र्तव्योऽत्र यत्नः। एव क्रियते-`हलि च`
8|2|77 इत्यत्र `व्याक्तः पदार्थः` इत्येतद्दर्शनमाश्रीयते। अस्मश्च दर्शने प्रतिलक्ष्यं लक्षणभेदो भवतीति यावन्ति लक्ष्याणि तावन्त्येव लक्षणाम्युपदिशन्ति, तत्र भिन्नेषु लक्ष्यानुरोधात्? क्वचित्? प्रतिदीव्नेत्यादौ व्युत्पत्तिपक्ष आश्रीयते; क्वचित्? पुनर्जिव्रिः, किर्योः, गिर्योरित्यादावव्युत्पत्तिपक्ष इति। चकारो हलोत्यनुकर्षणार्थः॥