Page loading... Please wait.
1|1|33 - प्रथमचरमतयाल्पार्धकतिपयनेमाश्च
॥ तस्मै पाणिनये नमः ॥
1|1|33
SK 226
प्रथमचरमतयाल्पार्धकतिपयनेमाश्च   🔊
सूत्रच्छेदः
प्रथम-चरम-तय-अल्प-अर्ध-कतिपय-नेमाः (प्रथमाबहुवचनम्) , च (अव्ययम्)
अनुवृत्तिः
सर्वनामानि  1|1|27 (प्रथमाबहुवचनम्) , सर्व-आदीनि  1|1|27 (प्रथमाबहुवचनम्) , जसि  1|1|32 (सप्तम्येकवचनम्) , विभाषा  1|1|32 (प्रथमैकवचनम्)
अधिकारः
-
सम्पूर्णसूत्रम्
प्रथमचरमतयाल्पार्धकतिपयनेमाः जसि विभाषा सर्वनामानि
सूत्रार्थः
"प्रथम", "चरम", "अल्प", "अर्ध", "कतिपय", "नेम" - एते शब्दाः, तथा च "तयप्" प्रत्ययान्तशब्दाः जस्-प्रत्यये परे विकल्पेन "सर्वनाम"संज्ञकाः भवन्ति ।
Additional description will be added soon.
One-line meaning in English
The words - प्रथम, चरम, अल्प, अर्ध, कतिपय, and नेम ; and also the words ending in the "तयप्" प्रत्यय are optionally called सर्वनाम when followed by the जस् प्रत्यय.
काशिकावृत्तिः
विभाषा जसि 1|1|32 इति वर्तते । "द्वन्द्वे" इति निवृत्तम् । प्रथम, चरम, तय, अल्प, अर्ध, कतिपय, नेम - इत्येते जसि विभाषा सर्वनामसंज्ञा भवन्ति । प्रथमे, प्रथमाः ; चरमे, चरमाः ; द्वितये, द्वितयाः ; अल्पे, अल्पाः ; अर्धे, अर्धाः ; कतिपये, कतिपयाः ; नेमे, नेमाः । "तय" इति तयप् प्रत्ययः । शिष्टानि प्रातिपदिकानि । तत्र "नेम" इति सर्वादिषु पठ्यते, तस्य प्राप्ते विभाषा, अन्येषाम् अप्राप्ते । "उभय"शब्दस्य तयप्प्रत्ययान्तस्य गणे पाठात् नित्या सर्वनामसंज्ञा, इह अपि जस्कार्यं प्रति विभाषा । काकचोर्यथायोगं वृत्तिः ॥
उभयशब्दस्य तयप्प्रत्ययान्तस्य` इति। `संख्याया अवयवे तयप्` 5|2|42 इत्युभशब्दाद्विहितस्य तयपो यद्यपि`उभादुदात्तो नित्यम्` 5|2|44 इत्ययजादेशो विधीयते, तथापि स्थानिवद्भावात् तद्ग्रहणेन गृह्रत इत्युभयशब्दस्तयप्प्रत्ययान्तो भवति।`तस्य गणे पाठान्नित्या सर्वनामसञ्ज्ञा`इति। न त्वनेन योगेन परेणापि पाक्षिकी। एतच्च व्यवस्थितविभाषात्वाल्लभ्यते। `काकचोर्यथायोगं वृत्तिः`इति। तेनोभय- नेम-शब्दयोः सर्वादित्वान्नित्यमकचो वृत्तिः, प्रथमादिभ्यस्तु कप्रत्ययस्य- इत्येष यथा-योगार्थः॥
उभयशब्दस्येत्यादि । उभाववयवावस्य "उभादुदातो नित्यम्" इति तयपोऽयजादेशः । स्थानिवद्भावाद्भवत्ययं तयबन्तः, तथापि गणे पाठाद् नित्यैव संज्ञा भवति । ननु गणे पाठस्योभयस्मिन्नुभयेषामित्यादिरवकाशः, इह तयब्ग्रहणस्य द्वितये द्वितया इति, उभयशब्दाज्जस्युभयप्रसङ्गे परत्वादियमेव विभाषा प्राप्नोति, नैष दोषः; अन्तरङ्गा नित्या संज्ञा विभक्त्यनपेक्षत्वादिति सैव प्रवर्तते । काकचोर्यथायोगं वृत्तिरिति । नेमशब्देऽकचो वृत्तिः, अन्येषु कस्येत्येष यथायोगार्थः । कः पनर्दोषो नेमशब्दे, यदि जसः कार्यं प्रति न स्यात्, पक्षे कोऽपि स्यात् ? अस्तु; नेमके, नेमकाः"-नित्येऽप्यकचि तस्य तद्ग्रहणेन ग्रहणादस्मिन् विकल्पे सति एतद्रूपद्वयं भवत्येव, सत्यम्; प्रथमादिषु पक्षेऽकज्न भवतीत्येवम्परो ग्रन्थः ॥
सिद्धान्तकौमुदी
एते जसः कार्यं प्रत्युक्तसंज्ञा वा स्युः । प्रथमे । प्रथमाः । शेषं रामवत् । तयो प्रत्ययस्ततस्तदन्ता ग्राह्याः । द्वितये । द्वितयाः । शेषं रामवत् । नेमे । नेमाः । शेषं सर्ववत् ॥ ।विभाषाप्रकरणे तीयस्य ङित्सूपसङ्ख्यानम् (वार्तिकम्) ॥ द्वितीयस्मै । द्वितीयायेत्यादि । एवं तृतीयः । अर्थवद्ग्रहणान्नेह । पटुजातीयाय ॥ निर्जरः ॥
प्रथमचरमतयाल्पार्धकतिपयनेमाश्च - प्रथमचरम ।विभाषा जसी॑त्यनुवर्तते,सर्वनामानी॑ति च । तदाह — एते इति । प्रतमादय इत्यर्थः । उक्तसंज्ञा इति । सर्वनामसंज्ञका इत्यर्थः । तत्र नेमशब्दस्य जसि सर्वनामसंज्ञा गणे पाठान्नित्या प्राप्ता । तद्विकल्पोऽत्र विधीयते । नेमशब्दव्यतिरिक्तानां प्रथमादिशब्दानां तु गणे पाठाऽभावादप्राप्तैव सर्वनामसंज्ञा जसि विकल्पेन विधीयते । अतो नेमशब्दव्यतिरिक्तानां प्रथमादिशब्दानां जसोऽन्यत्र न सर्वनामकार्यमित्याह-शेषं रामवदिति । ॒तय॑ शब्दो न प्रातिपदिकमित्याह — तयप्प्रत्यय इति ।संख्याया अवयवे तयबिति विहित॑ इति शेषः । तत इति । तस्मात् प्रत्ययत्वाद्धेतोः प्रत्ययग्रहणपरिभाषया, तदन्ताः=तयबन्ता ग्राह्रा इत्यर्थः । द्वितये द्वितया इति । द्ववयववावस्येत्यर्थे तयप् । यद्यप्यवयवसमुदायोऽवयवी तयवर्थः, तस्य चैकत्वादेकवचनमेव युक्तन्तथापि यदोध्भूतावयवभेदः समुदायस्तयबर्थः, उद्भूतत्वं च विवक्षितसङ्ख्याकत्वं, तदाऽवयवबहुत्वाभिप्रायमवयविनोऽवयवाऽभेदाभिप्रायं वा बहु वचनमिति न दोषः । अत्र च तयब्ग्रहणमेव प्रमाणम् । अन्यथा तयबन्ताज्जस एवाऽभावात्कतेन । चरमे चरमाः । अल्पे अल्पाः । अर्धे अर्धाः । कतिपये कतिपयाः-इत्यपि प्रथमशब्दवदुदाहार्यम् । अर्धशब्दस्त्वेकदेशवाची पुंलिङ्गः । समांशवाची तु नपुंसकलिङ्गः ।वा पुंस्यर्धोऽर्धं समेंऽशके॑ इति कोशात् । शेषं सर्ववदिति । नेमशब्दस्य सर्वादिगणे पाठादिति भावः । विभाषाप्रकरण इति ।विभाषा जसी॑त्यधिकारे तीयान्तस्य ङे-ङसि-ङस्#Hङि-इत्येतेषु ङित्सु परेषु सर्वनामसंज्ञावचनं कर्तव्यमित्यर्थः । द्वितीयस्मै द्वितीयायेति । द्वयोः पूरणो द्वितीयः । "द्वेस्तीय" इति पूरणे तीयप्रत्ययः । इत्यादीति । द्वितीयस्मात्, द्वितीयात् । द्वितीयस्मिन्, द्वितीये इत्यादिशब्दार्थः । एवं तृतीय इति । "ङित्सूदाहार्य" इति शेषः ।त्रेः संप्रसारणं चे॑ति पूरणे तीयप्रत्ययः । रेफस्य संप्रसारणमृकारः ।संप्रसारणाच्चे॑ति पूर्वरूपम् । ननुप्रकारवचने जातीयर् इति पटुशब्दाज्जातीयरिपटुजातीय॑शब्दः, तस्यापि तीयान्तत्वान्ङित्सु सर्वनामत्वविकल्पः स्यादित्यत आह — अर्थवदिति ।अर्थवद्ग्रहणे नानर्थकस्ये॑ति परिभाषयाऽर्थवानेन तीयोऽत्र गृह्रते । जातीयरि तु समुदायस्यैवार्थवत्त्वं न तु तदेकदेशस्येति भावः । निष्क्रान्तो जराया निर्जरः ।निरादयः क्रान्ताद्यर्थे॑ इति समासः "गोस्त्रियोः" इति ह्यस्वत्वम् । निर्जरा जरा यस्मादिति बहुव्रीहिर्वा ।
प्रथमचरमतयाल्पार्धकतिपयनेमाश्च - प्रथमचरम । नेमशब्दस्य नित्यं प्राप्तेऽन्येषामप्राप्ते चायमारम्भः । तयः प्रत्यय इति ।सङ्ख्याया अवयवे तय॑बिति विहितः । तीयस्येति ।द्वेस्तीयः॑,त्रेः सम्प्रसारणं चेतिविहितस्य ।
लघुसिद्धान्तकौमुदी
एते जसि उक्तसंज्ञा वा स्युः। प्रथमे, प्रथमाः॥ तयः प्रत्ययः। द्वितये, द्वितयाः। शेषं रामवत्॥ नेमे, नेमाः। शेषं सर्ववत्॥ (तीयस्य ङित्सु वा)। द्वितीयस्मै, द्वितीयायेत्यादि। एवं तृतीयः॥ निर्जरः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.