Page loading... Please wait.
7|4|52 - ह एति
॥ तस्मै पाणिनये नमः ॥
7|4|52
SK 2250
ह एति   🔊
सूत्रच्छेदः
हः (प्रथमैकवचनम्) , एति (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तासस्त्योः सकारस्य हकारादशो भवति एति परतः। कर्ताहे। अस्तेः व्यतिहे।
`कत्र्ताहे` इति। कृञो लुट्, आत्मनेपेदम्, उत्तमपुरुषैकवचनम्, इट्, टे#एत्त्वम्। अत्र सकारस्यानेन हः। `व्यतिहे` इति। अस्तेः `कत्र्तरि कर्मव्यतिहारे` 1|4|14 इत्यात्मनेपदम्, पूर्ववदकारलोपः। `एति` इति। तपरकरणं सप्तम्यामयादेशपरीहारार्थम्। अयादेशे हि सति सन्देहः स्यात्--कस्यायं निर्देश इति--किमयादेशस्य? अथैकारस्य॥
एशि हकारो न भवति---एधामासे इति, किं कारणम् ? तासेर्य एकारः सम्भवति तत्रेवास्तेरपि । कश्च तासेः सम्भवति ? उतमैकवचनम् । अपर आह---उतमैकवचनम्, सार्वधातुकं चेति; तेन सुप्तोऽहं त्वां प्रेक्षामासे, उतमेऽप्यार्धदातुके न भवतीति ॥
सिद्धान्तकौमुदी
तासस्त्योः सस्य हः स्यादेति परे । एधिताहे । एधितास्वहे । एधितास्महे ॥ एधिष्यते । एधिष्येते । एधिष्यन्ते । एधिष्यसे । एधिष्येथे । एधिष्यध्वे । एधिष्ये । एधिष्यावहे । एधिष्यामहे ॥
ह एति - अथ लुट इडादेशे एत्वे तासि इटि एधितास्, ए इति स्थिते — ह एति । "ह" इति प्रथमान्तम् । अकार उच्चारणार्थः । सः स्यार्धधातुक इत्यतः स इति, तासस्त्योर्लोप #इत्यतस्तासस्त्योरिति चानुवर्तते । तदाह — तासस्त्योरिति । तासः सस्य हकारे "एधिताहे" इति रूपम् । एधितास्वहे इति । लुटो वहिभावः । टेरेत्वं । तास् । इट् । एवम् — एधितास्महे इति । तत्र महिभावो विशेषः । इति लुट्प्रक्रिया । एधिष्यत इति । लृटस्तादेशे टेरेत्वम् ।स्यतासी॑इति शबपवादः स्यः ।इट् । प्रत्ययावयवत्वात्षत्वम् । एधिष्येते इति । आताम् । टेरेत्वं । स्यः । इट् । "आतो ङित" इत्याकारस्य इय् । लोपो व्योरिति यलोपः । आद्गुणः । षत्वम् । एधिष्यन्त इति । झस्य टेरेत्वं । झकारस्य अन्तादेशः । स्यः ।इट् । पररूपं । षत्वम् । थासादावपि लटीव सुयोजमिति मत्वा रूपाणि न प्रदर्शितानि । तत्र थासः से ।स्यः । इट् । षत्वम् । एधिष्यसे इति रूपम् । एधिष्येते इतिवदाथामि एधिष्येथे इति रूपम् । ध्वम एत्वे स्यः । इट् । षत्वम् । एधिष्यद्वे इति रूपम् । इट एत्वे स्यः । इडागमः । षत्वम् । अतोगुण इति पररूपम् । एधिष्ये इति रूपम् । वहिमह्रोष्टेरेत्वम् । स्यः । इट् । अतो दीर्घः । एधिष्यावहे एधिष्यामहे इति रूपे । इति लृट्प्रक्रिया ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.