यत्र अस्मद् शब्देन लकारेण च समानः पदार्थः विवक्ष्यते, तत्र उत्तमपुरुषस्य प्रत्ययाः भवन्ति ।
तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः 1|4|101 अनेन सूत्रेण केषाञ्चन तिङ्-प्रत्ययानाम् "उत्तम"संज्ञा भवति । वर्तमानसूत्रेण एतेषाम् उत्तम-संज्ञकानाम् तिङ्-प्रत्ययानाम् प्रयोगः कुत्र भवति तस्मिन् विषये सिद्धान्तः प्रोक्तः अस्ति । अस्य सूत्रस्य पूर्णम् अर्थम् ज्ञातुम् आदौ अस्य सूत्रस्य द्वयोः अंशयोः अर्थं पश्यामः ।
1) "अस्मदि उपपदे समानाधिकरणे"
- इयम् सतिसप्तमी अस्ति । अतः "अस्मदि उपपदे समानाधिकरणे सति" इत्यर्थः ।
- समानाधिकरणम् इत्युक्ते समानकारकस्य निर्देशः । यथा - "उन्नतः रामः चलति" अस्मिन् वाक्ये सर्वे शब्दाः कर्तारं निदर्शयन्ति , अतः सर्वे शब्दाः समानाधिकरणे सन्ति इत्युच्यते ।
- कस्य समानाधिकरणम्? तिङ्-प्रत्ययस्य समानाधिकरणम् । कथं ज्ञायते? सूत्रे यः "उत्तमः" शब्दः प्रयुक्तः अस्ति, सः तिङ्-प्रत्यययानां विषये एव प्रयुज्यते ।
- उपपदम् इत्युक्ते समीपस्थम् पदम् ।
- अतः अस्य खण्डस्य अर्थः अयम् - अस्मद्-उपपदेन तिङ्-प्रत्ययस्य समानाधिकरणम् यदा उच्यते तदा.... ।
2) "अस्मदि उपपदे स्थानिनि अपि" -
- इयम् अपि सतिसप्तमी अस्ति । अतः "अस्मदि उपपदे स्थानिनि सत्यपि" इत्यर्थः
- "स्थानीनि अपि" इत्युक्ते स्थानी-सत्यपि, अस्थानी-सत्यपि । इत्युक्ते, प्रयुक्ते सति, अप्रयुक्ते वा सति ।
- अतः अस्य खण्डस्य अर्थः अयम् - अस्मद्-उपपदम् यत्र विवक्षितम् अस्ति तत्र प्रयुज्यमाने सति अप्रयुज्यमाने वा सति...।
इदानीम् सम्पूर्णस्य सूत्रस्य अर्थज्ञानम् भवितुं शक्यते -
अस्मद्-उपपदेन तिङ्-प्रत्ययस्य समानाधिकरणम् यदा उच्यते, तदा अस्मद्-उपपदम् प्रयुज्यमानम् अस्ति चेत् अपि / नास्ति चेत् अपि उत्तमपुरुषवाचिनः प्रत्ययाः प्रयुज्यन्ते ।
उदाहरणानि -
1. "अहं पठामि" अस्मिन् वाक्ये "अहम्" तथा "पठामि" उभयोः शब्दयोः कर्तुः निर्देशः क्रियते । अतः अत्र अस्मद्-उपपदस्य लकारस्य च सामानाधिकरण्यम् अस्ति । अतः अत्र उत्तमपुरुषस्य प्रत्ययस्य प्रयोगः क्रियते ।
2. "किमर्थं पठामि?" अस्मिन् वाक्ये "अहम्" अयं शब्दः विवक्षितः अस्ति, परन्तु प्रयुक्तः नास्ति । अत्रापि विवक्षितस्य अस्मद्-उपपदस्य लकारस्य च सामानाधिकरण्यम् अस्ति । अतः अत्र अपि उत्तमपुरुषस्य प्रत्ययस्य प्रयोगः क्रियते ।
3. "त्वं मां पश्यसि" अस्मिन् वाक्ये "माम्" इति अस्मद्-उपदपस्य लकारस्य च सामानाधिकरण्यम् नास्ति, यतः अत्र अस्मद्-उपपदेन कर्म निर्दिश्यते, लकारेण च कर्ता निर्दिश्यते । अतः अत्र तिङ्-प्रत्ययस्य उत्तमपुरुषवाची प्रत्ययः न भवति ।
4. "त्वया अहं दृश्ये" अस्मिन् वाक्ये "अहम्" इत्यनेन कर्मपदम् निर्दिश्यते, तथा "दृश्ये" इत्यनेन तिङन्तपदेन अपि कर्मपदम् निर्दिश्यते । इत्युक्ते, अत्र अस्मद्-उपपदस्य लकारस्य च सामानाधिकरण्यम् अस्ति । अतः अत्र उत्तमपुरुषसंज्ञकस्य तिङ्-प्रत्ययस्य प्रयोगः भवति ।
ज्ञातव्यम् - यत्र अस्मद्-तथा-युष्मद्- उभाभ्याम् शब्दाभ्याम् लकारस्य सामानाधिकरण्यम् निर्दिश्यते, तत्र एकसंज्ञाधिकारात् उत्तमसंज्ञावाचिनाम् तिङ्प्रत्ययानाम् एव प्रयोगः भवति । यथा - "अहं त्वम् सः च गच्छामः" । अस्मिन् वाक्ये यद्वपि अस्मद्/युष्मद्/तद् - सर्वेेषां शब्दानाम् लकारेण सामानाधिकरण्यम् अस्ति, तथापि अत्र उत्तमपुरुषस्यैव प्रत्ययः भवति ।