Page loading... Please wait.
7|4|26 - च्वौ च
॥ तस्मै पाणिनये नमः ॥
7|4|26
SK 2120
च्वौ च   🔊
सूत्रच्छेदः
च्वौ (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
च्विप्रत्यये परतो ऽजन्तस्य अङ्गस्य दीर्घो भवति। शुचीकरोति। शुचीभवति। शुचीस्यात्। पटूकरोति। पटूभवति। पटूस्यात्।
`शुचीकरोति` इति। `उभूततद्भावे` 5|4|50 इत्यादिना च्विः। चकारः पूर्वापेक्षया समुच्चयार्थः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
च्वौ परे पूर्वस्य दीर्घः स्यात् । शुचीभवति । पटूस्यात् । अव्ययस्य दीर्घत्वं नेति केचित्तन्निर्मूलम् । स्वस्ति स्यादिति तु महाविभाषया च्वेरभावात्सिद्धम् । स्वस्तीस्यादित्यपि पक्षे स्यादिति चेदस्तु । यदि नेष्यते तर्ह्यनभिधानात् च्विरेव नोत्पद्यते इत्यस्तु । रीङृतः (कौमुदी-1234) । मात्रीकरोति ॥
च्वौ च - अथशुचीभवती॑तिवक्ष्यन्नाह — च्वौ च । दीर्घः स्यादिति ।अकृत्सार्वधातुकयो॑रित्यतस्तदनुवृत्तेरिति भावः । अव्ययस्येति । अव्ययस्यच्वौ चे॑ति दीर्घो नेत्यर्थः । तेन स्वस्तिस्यादित्यत्र च्वौ न दीर्घ इति भावः । तन्निरमूलमिति । भाष्यावदृष्टत्वादिति भावः । तर्हिस्वस्ति स्या॑दिति न स्यात्, दीर्घप्रसङ्गादित्यत आह — स्वस्ति स्यादिति त्विति । ननु महाविभाषया दीर्घाऽभावे स्वस्ति स्यादिति सिद्धावपि, कदाचित्स्वस्ती स्यादिति दीर्घो दुर्वार इति शङ्कते — स्वस्तीस्यादित्यपि पक्षे स्यादिति । इष्टापत्तिरित्याह — अस्त्विति ।दीर्घतदभावाभ्यां रूपद्वय॑मिति शेषः । प्रामाणिकत्वादुभयमप्यादर्तव्यमिति । भावः । ननु शिष्टानङ्गीकारात्कथं दीर्घपाठादर इत्यत आह-यदि नेष्यते इत्यादि । मातृशब्दाच्च्विप्रत्यये विशेषमाह — रीङृत #इति ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
च्वौ परे पूर्वस्य दीर्घः स्यात्। अग्नीभवति॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.