Page loading... Please wait.
5|3|114 - आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात्‌
॥ तस्मै पाणिनये नमः ॥
5|3|114
SK 2067
आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात्‌   🔊
सूत्रच्छेदः
आयुधजीविसङ्‍घात् (पञ्चम्येकवचनम्) , ञ्यट् (प्रथमैकवचनम्) , वाहीकेषु (सप्तमीबहुवचनम्) , अब्राह्मण-राजन्यात् (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
वाहीकेषु आयुधजीविसङ्‍घात् अब्राह्मण-राजन्यात् ञ्यट्
सूत्रार्थः
वाहीकेषु आयुधजीविनाम् सङ्घस्य निर्देशकाः ये शब्दाः, तेभ्यः स्वार्थे ञ्यट् प्रत्ययः भवति । परन्तु ब्राह्मणवाचिभ्यः शब्देभ्यः तथा च "राजन्य" शब्दस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति ।
"वाहीक" इति कस्यचन देशस्य नाम । अस्मिन् देशे ये सङ्घाः आयुधजीविनः सन्ति (इत्यक्ते, ते सङ्घाः येषां जनाः शस्त्राणाम् साहाय्येन मृगयादीनि कार्याणि कृत्वा जीविकाम् अर्जयन्ति - people who earn their living using weapons, E.g. by hunting etc) तेषाम् निर्देशार्थम् आयुधजीविनां सङ्घवाचिभ्यः शब्देभ्यः (यथा - कुण्डिबृस, क्षुद्रक - आदिभ्यः शब्देभ्यः) स्वार्थे "ञ्यट्" प्रत्ययः भवति । कानिचन उदाहरणानि एतानि -
1. कुण्डिबृसः इत्येव = कुण्डिबृस + ञ्यट् → कौण्डिबृस्यः ।
2. क्षुद्रकः इत्येव = क्षुद्रक + ञ्यट् → क्षौद्रक्यः ।
3. मालवः इत्येव = मालव + ञ्यट् → मालव्यः ।
विशेषः - समर्थानां प्रथमात् वा 4|1|86 इत्यस्मात् "वा" इत्यस्य अधिकारः अत्र प्रचलति, अतः अनेन सूत्रेण उक्तः "ञ्यट्" प्रत्ययः विकल्पेनैव विधीयते । अतः "कुण्डिबृसः" इत्यपि साधु रूपम्, "कौण्डिबृस्यः" इत्यपि च साधु एव ।

स्मर्तव्यम् -ञ्यट्-प्रत्ययः टित् अस्ति, अतः तस्मात् स्त्रीत्वे विवक्षिते टिड्ढाणञ्... 4|1|15 इत्यनेन ङीप्-प्रत्ययः भवति । यथा -
1. कुण्डिबृसः इत्येव परिषद्
= कुण्डिबृस + ञ्यट् + ङीप्
→ कौण्डिबृस + य + ई [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ कौण्डिबृस् + य + ई [यस्येति च 6|4|148 इति अकारलोपः]
→ कौण्डिबृस् + य् + ई [यस्येति च 6|4|148 इति अकारलोपः]
→ कौण्डिबृस् + ई [हलस्तद्धितस्य 6|4|150 इति यकारलोपः]
→ कौण्डिबृसी ।
कुण्डिबृसः सङ्घः इत्यवे कौण्डीबृसी परिषद् ।
एवमेव -
2. क्षुद्रकः सङ्घः इत्येव = क्षौद्रकी परिषद् ।
3. मालवः सङ्घः इत्येव = मालवी परिषद् ।

अस्मिन् सूत्रे "अ-ब्राह्मण-राजन्यात्" इत्यपि निर्देशः कृतः अस्ति । अस्य अर्थः एतादृशः -
अ) ये सङ्घाः ब्राह्मणवाचकाः सन्ति, तेषाम् विषये अयम् "ञ्यट्" प्रत्ययः न विधीयते । यथा - गोपालकः सङघः इत्येव = गोपालकः ।
आ) "राजन्य" इति वाहिकेषु विद्यमानस्य कस्यचन आयुधजीविनः सङ्घस्य नाम । अस्मात् शब्दात् अपि अयम् प्रत्ययः न भवति । यथा - राजन्यः सङ्घः इत्येव = राजन्यः ।
अत्र "ब्राह्मण" इति शब्दः "ब्राह्मणवाचकः" इत्यस्मिन् अर्थे स्वीकृतः अस्ति, परन्तु "राजन्य" अयं शब्दः स्वस्य रूपस्य ग्रहणं करोति इति ज्ञेयम् ।

स्मर्तव्यम् - सूत्रम् दलकृत्य प्रत्येकं पदस्य प्रयोजनम् एतादृशम् -
1) "वाहीकेषु" इति किमर्थम् ? "शबर", "पुलिन्द" एतानि अपि आयुधजीविनां सङ्घानाम् नामानि सन्ति । परन्तु एतानि वाहीकदेशे न विद्यन्ते, अतः एतेषाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति ।
2) "आयुधजीविनः" इति किमर्थम् ? वाहिकेषु विद्यमानाः ये अन्ये सङ्घाः (=यथा मल्लाः, शयण्डाः) तेषाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति ।
3) "सङ्घ" इति किमर्थम् ? वाहिकेषु विद्यमानाः आयुधजीविनाम् निर्देशकाः परन्तु सङ्घभिन्नाः शब्दाः (यथा - सम्राट्) एतम् प्रत्ययं न प्राप्नुयुः ।

विशेषः - अनेन सूत्रेण उक्तस्य ञ्यट्-प्रत्ययस्य ञ्यादयस्तद्राजाः 5|3|119 इत्यनेन "तद्राज" इति संज्ञा भवति ।तद्राजसंज्ञकप्रत्ययानाम् च एकम् वैशिष्ठ्यम् विद्यते - तद्राजस्य बहुषु तेनैवास्त्रियाम् 2|4|62 इत्यनेन सूत्रेण तद्राजसंज्ञकप्रत्ययान्तशब्दानां बहुवचनरूपे तद्राजप्रत्ययस्य लुक् भवति । यथा , "कौण्डिबृस्य" शब्दस्य रूपाणि "कौण्डिबृस्यः कौण्डिबृस्यौ कुण्डिबृसाः" इति भवन्ति । अत्र प्रथमाबहुवचनस्य रूपसिद्धिः एतादृशी जायते -
कुण्डिबृस + ञ्यट् + जस्
→ कुण्डिबृस + जस् [तद्राजस्य बहुषु तेनैवास्त्रियाम् 2|4|62 इति ञ्यट्-प्रत्ययस्य लुक्]
→ कुण्डिबृसाः ।
एवमेव - "क्षौद्रक्यः, क्षौद्रक्यौ क्षुद्रकाः" इत्यपि सिद्ध्यति ।

Note - All of the words shown as examples in this description represent names of the Vaahik tribes.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
आयुधजीविनां सङ्घः आयुधजीविसङ्घः। स वाहीकैर् विशेष्यते। वाहीकेषु य आयुधजीविसङ्घः, तद्वाचिनः प्रातिपदिकात् ब्राह्मणराजन्यवर्जितात् स्वार्थे ञ्यट् प्रत्ययो भवति। ब्राह्मणे तद्विशेषग्रहणम्। राजन्ये तु स्वरूपग्रहणम् एव। टकारो ङीबर्थः, तेन अस्त्रियाम् इति न अनुवर्तते। कौण्डिबृस्यः, कौण्डीवृस्यौ, कौण्डीवृसाः। क्षौद्रक्यः, क्षौद्रक्यौ, क्षुद्रकाः। मालव्यः, मालव्यौ, मालवाः। स्त्रियाम् कौण्दिवृसी। क्षौद्रकी। मालवी। आयुधजीविग्रहणं किम्? मल्लाः। शयण्डाः। सङ्घग्रहणं किम्? सम्राट्। वाहीकेसु इति किम्? शबराः। पुलिन्दाः। अब्राह्मणराजन्यातिति किम्? गोपालवा ब्राह्मणाः। शालङ्कायना राजन्याः।
`वाहीकेषु` इति। निर्धारणे 2|3|41 सप्तमी। `वाहोकेषु मध्ये य आयुधजीविसङ्घः` इति। निधरिम्ञ्च समानजातीयस्यैव भवतत्यायुधजीविसङ्घोऽपि वाहीक एव विज्ञायते। अथ वा--देशवाचिनो वाहोकशब्दादधिकरण एवैषा सप्तमी; वाहिकदेशविशेष आयुधजीविसङ्घो वसतीति।`ब्राआहृणे तद्विशेषग्रहणम्` इति। अथ स्वरूपग्रहणं कस्मान्न भवति? अत एव प्रतिषेधात्। यदि स्वरूपग्रहणं स्यात्, ब्राआहृणप्रतिषेधोऽनर्थकः स्यात्। प्राप्तिपूर्वको हि प्रतिषेधो भवति। ब्राआहृणशब्द आयुधजीविसङ्घो वाहीकेषु न विद्यत इति किं ब्राआहृणप्रतिषेधेन! ब्राआहृणविशेषवाचितस्तु ये गोपालप्रभृतयः शब्दास्तद्वाच्या आयुध जीविङ्घा वाहीकेषु भवन्ति; तत्र यदि प्रतिषेधो न क्रियेत, तदा तेभ्योऽपि स्यात्। अतस्तन्निवृत्त्यर्थोऽर्थवान्? विशेषग्रहणे प्रतिषेधो भवति। तस्मात्--`ब्राआहृणे तद्विशेषग्रहणम्, राजन्ये तु स्वरूपाग्रहणमेव` इति। तद्वाच्यस्यायुधजीविसङ्घस्य वाहीकेषु सत्त्वात्; `स्व रूपं शब्दस्याशब्दसंज्ञा` इति वचनाच्च। `तेन` इत्यादि। यस्माद्? ङीबर्थोत्र टकारः कृतस्तेन `अस्त्रियाम्` 5|3|113 इति नानुवत्र्तते। तदनुवृत्तौ ञ्यट्प्रत्ययान्तं स्त्रियां न भवतीति ङीबर्थं टित्करणनर्थकं स्यात्। तस्मादस्त्रियामिति निवृत्तम्, अतः स्त्रियामपि भवति। `कौण्डीबृसी` `क्षौद्रकी` इति। `हलस्तद्धितस्य` 6|4|150 इति यकारलोपः॥
ठ्दामन्यादित्रिगर्तषष्ठात्ऽ इति समाहारद्वन्द्वः, दामन्यादेरायुधजीविसङ्घात्रिगर्तषष्ठाच्चायुधजीविसङ्घादित्यन्वयः। त्रिगर्तषष्ठादित्यस्यार्थमाह--येषामिति। अन्तवर्गाःउअन्त्रगणः। ते पुनः के? इत्याहतेषु चाअ स्भृतिरिति। त्रिगर्तषष्ठाः स्मर्यन्तेउज्ञाप्यन्तेऽनयेति स्मृतिः। सा पुनः-आहुस्त्रिगर्तष्षठानित्यादिः श्लोकः। अत्र जानकयस्त्रिगर्तवर्गाः, तेषु च त्रिगर्तषष्ठेतषु, प्रथमपञ्चमौ शिवाद्यणन्तौ, शेषास्तु इञन्ताः। केचितु-अतद्धितान्तमेव पञ्चमं ब्रह्मगुप्तशब्दं पठन्ति ॥
सिद्धान्तकौमुदी
वाहीकेषु य आयुधजीविसङ्घस्तद्वाचिनः स्वार्थे ल्युट् । क्षौद्रक्यः । मालव्यः । टित्वान्ङीप् । क्षौद्रकी । आयुधेति किम् । शबराः । अब्राह्मणेति किम् । गौपालकाः । शालङ्कायनाः । ब्राह्मणे तद्विशेषग्रहणम् । राजन्ये स्वरूपग्रहणम् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.