Page loading... Please wait.
5|3|65 - विन्मतोर्लुक्
॥ तस्मै पाणिनये नमः ॥
5|3|65
SK 2020
विन्मतोर्लुक्   🔊
सूत्रच्छेदः
विन्-मतोः (षष्ठीद्विवचनम्) , लुक् (प्रथमैकवचनम्)
अनुवृत्तिः
अतिशायने  5|3|55 (सप्तम्येकवचनम्) , अजादी  5|3|58 (सप्तमीद्विवचनम्, सप्तम्या विपरिणम्यते)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
अतिशायने अजादौ विन्-मतोः लुक्
सूत्रार्थः
"अतिशय" अस्मिन् सन्दर्भे अजाद्योः प्रत्यययोः परयोः अङ्गे विद्यमानयोः "विनि" तथा "मतुँप्" प्रत्यययोः लुक् भवति ।
"विनि" तथा "मतुँप्" एतौ द्वौ कौचन तद्धितप्रत्ययौ । "तद् अस्य अस्ति" तथा "तद् अस्मिन् अस्ति" एतयोः अर्थयोः एतौ प्रत्ययौ भिन्नेभ्यः प्रातिपदिकेभ्यः विधीयन्ते । अनेन प्रकारेण निर्मिताः ये प्रातिपदिकाः, तेभ्यः "अतिशय" अस्मिन् सन्दर्भे अतिशायने तमबिष्ठनौ 5|3|55 इत्यनेन "इष्ठन्" तथा द्विवचनविभज्योपपदे तरबीयसुनौ 5|3|57 इत्यनेन "ईयसुँन्" एतयोः द्वयोः अजादिप्रत्ययोः प्राप्तयोः अङ्गे विद्यमानस्य "विनि" तथा "मतुँप्" प्रत्ययस्य वर्तमानसूत्रेण लोपः भवति ।

कानिचन उदाहरणानि पश्यामः -

1. "स्रज्" (माला / (garland)) इति कश्चन जकारान्तः शब्दः । अस्मात् शब्दात् अस्मायामेधास्रजो विनिः 5|2|121 अनेन सूत्रेण "विनि" इति प्रत्ययः विधीयते । स्रक् अस्य अस्ति सः स्रग्वी । अस्मात् "स्रग्विन्" शब्दात् इष्ठन् / ईयसुन्-प्रत्यये परे विनि-प्रत्ययस्य लोपः भवति । यथा -
एते सर्वे स्रग्विणः । अयम् एतेषाम् अतिशयेन स्रग्वी, अतः अयम् स्रजिष्ठः । प्रक्रिया इयम् -
स्रज् + विनि + इष्ठन्
→ स्रज् + इष्ठन् [वर्तमानसूत्रेण विनि-प्रत्ययस्य लोपः । प्रकृत्यैकाच् 6|4|163 इति अङ्गस्य प्रकृतिभावः ।]
→ स्रजिष्ठ
एवमेव "स्रज् + विनि + ईयसुँन्" इत्यत्र "विनि" प्रत्ययस्य लोपं कृत्वा "स्रजीयस्" इति प्रातिपदिकं सिद्ध्यति ।

2. "त्वच्" (skin) इति कश्चन चकारान्तः शब्दः । अस्मात् शब्दात् तदस्यास्त्यस्मिन्निति मतुँप् 5|2|94 इत्यनेन मतुँप्-प्रत्ययः भवति । त्वक् अस्य अस्ति सः त्वग्वान् । अस्मात् "त्वग्वत्" शब्दात् इष्ठन् / ईयसुन्-प्रत्यये परे अङ्गे विद्यमानस्य मतुँप्-प्रत्ययस्य लोपः भवति । यथा -
यथा - एते सर्वे त्वग्वन्तः । अयम् एतेषाम् अतिशयेन त्वग्वान् । अतः अयम् त्वगिष्ठः । प्रक्रिया इयम् -
त्वच् + मतुँप् + इष्ठन्
→ त्वच् + इष्ठन् [वर्तमानसूत्रेण विनि-प्रत्ययस्य लोपः । प्रकृत्यैकाच् 6|4|163 इति अङ्गस्य प्रकृतिभावः ।]
→ त्वचिष्ठ
एवमेेव "त्वच् + मतुँप् + ईयसुँन्" इत्यत्र "त्वचीयस्" इत्यपि प्रातिपदिकं सिद्ध्यति ।

ज्ञातव्यम् - "विनि" तथा "मतुँप्" प्रत्ययान्तशब्दाः वस्तुतः गुणवाचिनः न सन्ति , अतः एतेभ्यः "अतिशय" अस्मिन् सन्दर्भे अतिशायने तमबिष्ठनौ 5|3|55 तथा द्विवचनविभज्योपपदे तरबीयसुनौ 5|3|57 इत्यनयोः सूत्रयोः "इष्ठन्", "तमप्", ईयसुँन्", "तरप्" एतेषु चतुर्षु प्रत्ययेषु प्राप्तेषु अजादी गुणवचनादेव 5|3|58 इत्यनेन सूत्रेण "इष्ठन्" तथा "ईयसुँन्" एतौ अजादिप्रत्ययौ वस्तुतः नियम्येते (= न प्रयुज्येते) । परन्तु वर्तमानसूत्रेण अजादिप्रत्यययोः परयोः एव प्रत्ययस्य लुक् उक्तः अस्ति अतः विधानसामर्थ्यात् एतेभ्यः शब्देभ्यः अपि अजादी प्रत्ययौ भवतः एव ।

स्मर्तव्यम् - अतिशायने तमबिष्ठनौ 5|3|55 इत्यत्र प्रारब्धम् "अतिशायिक"प्रकरणम् अत्र समाप्यते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
विनो मतुपश्च लुग् भवति अजाद्योः प्रत्यययोः परतः। इदम् एव वचनं ज्ञापकम् अजादिसद्भावस्य। सर्वे इमे स्रग्विणः, अयम् एषाम् अतिशयेन स्रग्वी स्रजिष्ठः। उभाविमौ स्रग्विणौ, अयम् अनयोरतिशयेन स्रग्वी स्रजियान्। अयम् अस्मात् स्रजीयान्। सर्वे इमे त्वग्वन्तः, अयम् एषाम् अतिशयेन त्वग्वान् त्वचिष्ठः। उभाविमौ त्वग्वन्तौ, अयम् अनयोरतिशयेन त्वग्वान् त्वचीयान्। अयम् अस्मात् त्वचीयान्।
मतुपा साहचर्यात्? मत्वर्थीय एव विनिप्रत्ययो गृह्रते--`तपः सहरुआआभ्यां विनीनी` 5|2|101 , `अस्मायामेधारुआजो विनिः` 5|2|120 इति; आभ्यां चैतदेव लुग्वचनमजाद्योभविं ज्ञापयति। `रुआग्विणौ`। इति। अस्मायादिसूत्रेम 5|2|120 विनिः। `रुआजिष्ठः` इति। `प्रकृत्यैकाच्` 6|4|163 इति प्रकृतिभावाट्टिलोपाभावः॥
विन्मतोरित्युत्सृष्टानुबनधयोर्विनिमतुपोर्द्वन्द्वात्षष्ठीद्विवचनम्। अथ विन्ग्रहणं किमर्थम्, यावता येभ्यो विन् तेब्यो मतुबपि भवति, तस्यैव लुकि स्रजिष्ठ इत्यादि सिद्धम्, न च विन इष्ठचीयसुनोः श्रवणप्रसंगः, तदन्तातयोरभावात्? अस्मादेव हि लुग्वचनाद्विनन्तातयोर्भावो ज्ञाप्यते। यदा तर्हि विनन्तात् ठ्तत्करोति तदातष्टेऽ इति णिच् क्रियते, तदा विनः श्रवणं मा भूदित्येवमर्थं विनो लुग्वचनम्--स्रग्विणमाचष्टे स्रजयति ॥
सिद्धान्तकौमुदी
विनो मतुपश्च लुक् स्यादिष्ठेयसोः । अतिशयेन स्रग्वी स्रजिष्ठः । स्रजीयान् । अतिशयेन त्वग्वान् त्वचिष्ठः । त्वचीयान् ॥
विन्मतोर्लुक् - विन्मतोर्लुक् । इष्ठेयसोरिति । "अजादी" इत्यनुवृत्तस्य सप्तम्या विपरिणामादिति भावः । रुआजिष्ठ इति । रुआग्विन्शब्दादिष्ठनि विनो लुकि तन्निमित्तपदत्वभङ्गात्रकुत्वनिवृत्तिरिति भावः । एवं रुआजीयानिति । त्वचिष्ठ इति । त्वग्वच्छब्दादिष्ठिनि मतुपो लुकि तन्निमित्तपदत्वभङ्घात्कुत्वनिवृत्तिरिति भावः । एवं त्वचीयान् । अत एव ज्ञापकादाभ्यामिष्ठन्नीयसुनौ ।
विन्मतोर्लुक् - विन्मतोर्लुक् । रुआजिष्ठ इति । विनो लुकि कृते भत्वात्पदकार्याऽभावः । अस्मादेव ज्ञापकादगुणवचनत्वेऽपि विन्मतेरजादी भवतः ।
लघुसिद्धान्तकौमुदी
विनो मतुपश्च लुक् स्यादिष्ठेयसोः। अतिशयेन स्रग्वी स्रजिष्ठः। स्रजीयान्। अतिशयेन त्वग्वान् त्वचिष्ठः। त्वचीयान्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.