Page loading... Please wait.
5|2|74 - अनुकाभिकाभीकः कमिता
॥ तस्मै पाणिनये नमः ॥
5|2|74
SK 1874
अनुकाभिकाभीकः कमिता   🔊
सूत्रच्छेदः
अनुक-अभिक-अभीकः (प्रथमैकवचनम्) , कमिता (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"कमिता" (इति) अनुक-अभिक-अभीकाः (निपात्यन्ते)
सूत्रार्थः
"इच्छति सः" अस्मिन् अर्थे "अनुक", "अभिक", "अभीक" - एते शब्दाः निपात्यन्ते ।
"कमिता" इति "कम्" धातोः तृच्-प्रत्ययान्तरूपम् । कामयते सः कमिता - इति अर्थः । अस्मिन् अर्थे वर्तमानसूत्रेण त्रयः शब्दाः निपात्यन्ते । एते सर्वे शब्दाः "कन्" प्रत्ययान्ताः सन्ति इति व्याख्यानैः स्पष्टीभवति ।

1. अनुकामयते सः = अनु + कन् → अनुक ।
2. अभिकामयते सः = अभि + कन् → अभिक ।
3. अभिकामयते सः = अभि + कन् → अभीक । अत्र अङ्गस्य दीर्घादेशः निपात्यते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अनुक अभिक अभीक इत्येते शब्दाः कन्प्रत्ययान्ता निपात्यन्ते कमिता इत्येतस्मिन्नर्थे। अभेः पक्षे दीर्घत्वं चनिपात्यते। अनुकामयते अनुकः। अभिकः। अभीकः।
`अनुकः` इति। अनुशब्दात्? कन्। `अभिकोऽभीकः` इति। अत्राप्यभिशब्दात्॥
सूत्रे समाहारद्वन्द्वे लिङ्गव्यत्ययः, अनुशब्दादभिशब्दाच्च ससाधनक्रियावचनात्स्वार्थे कन्निपात्यत इत्याह--अनुकामयतेऽनुक इति। ठभिकामयतेऽ इत्येतद् गम्यमानत्वान्नोक्तम् ॥
सिद्धान्तकौमुदी
अन्वभिभ्यां कन् । अभेः पाक्षिको दीर्घश्च । अनुकामयते अनुकः । आभिकामयते अभिकः । आभीकः ॥
अनुकाभिकाभीकः कमिता - अनुकाभिका । अनुक, अभिक, अभीक-एषां समाहारद्वन्द्वः । सौत्रं पुंस्त्वम् ।
अनुकाभिकाभीकः कमिता - अनुका । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । सूत्रत्वाल्लिङ्गव्यत्यय इति फलितोऽर्थः । अन्वभिभ्यां कन्निति । क्रियाविशिष्टसाधनवाचिभ्यां स्वार्थे निपात्यत इत्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.